Thursday, July 8, 2010

पञ्चदशोऽध्यायः | पुरुषोत्तमयोगः ।


अथ पञ्चदशोऽध्यायः | पुरुषोत्तमयोगः ।
श्रीभगवानुवाच |
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् |
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ||१५-१||

अन्वयः - यस्य पर्णानि छन्दांसि तं अव्ययं अश्वत्थं ऊर्ध्वमूलं अधःशाखं प्राहुः । यः तं वेद सः वेदवित् ।

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा
गुणप्रवृद्धा विषयप्रवालाः |
अधश्च मूलान्यनुसन्ततानि
कर्मानुबन्धीनि मनुष्यलोके ||१५-२||

अन्वयः - गुणप्रवृद्धाः विषयप्रवालाः तस्य शाखाः अधः ऊर्ध्वं च प्रसृताः । अधः मनुष्यलोके च कर्मानुबन्धानि मूलानि अनुसन्त्तानि ।

न रूपमस्येह तथोपलभ्यते
नान्तो न चादिर्न च सम्प्रतिष्ठा |
अश्वत्थमेनं सुविरूढमूलं
असङ्गशस्त्रेण दृढेन छित्त्वा ||१५-३||
ततः पदं तत्परिमार्गितव्यं
यस्मिन्गता न निवर्तन्ति भूयः |
तमेव चाद्यं पुरुषं प्रपद्ये |
यतः प्रवृत्तिः प्रसृता पुराणी ||१५-४||

अन्वयः - इह तस्य रूपं तथा न उपलभ्यते । न अन्तः न आदिः न च सम्प्रतिष्ठा । एनं सुविरूढमूलं अश्वत्थं असङ्गशस्त्रेण दृढेन छित्वा, ततः तत् पदं मार्गितव्यं यस्मिन् गताः भूयः न निवर्तन्ति । तं एव आद्यं पुरुषं च प्रपद्ये यतः पुराणी प्रवृत्तिः प्रसृता ।

निर्मानमोहा जितसङ्गदोषा
अध्यात्मनित्या विनिवृत्तकामाः |
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्-
गच्छन्त्यमूढाः पदमव्ययं तत् ||१५-५||

अन्वयः - निर्मानमोहाः, जितसङ्गदोषाः, अध्यात्मनित्याः विनिवृत्तकामाः सुखदुःखसंज्ञैः द्वन्द्वैः विमुक्ताः अमूढाः तत् अव्ययं पदं गच्छन्ति ।

न तद्भासयते सूर्यो न शशाङ्को न पावकः |
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ||१५-६||

अन्वयः - तत् (पदं) न सूर्यः भासयते, न शशाङ्कः, न पावकः (भासयते) । यत् गत्वा न निवर्तन्ते, मम तत् परमं धाम ।

ममैवांशो जीवलोके जीवभूतः सनातनः |
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ||१५-७||

अन्वयः - मम एव सनातनः अंशः जीवभूतः जीवलोके प्रकृतिस्थानि षष्ठानि इन्द्रियाणि कर्षति ।

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः |
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ||१५-८||

अन्वयः - शरीरं यत् अवाप्नोति यत् च उत्क्रामति अपि, एतानि गृहीत्वा ईश्वरः वायुर्गन्धानिवाशयात् संयाति ।

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च |
अधिष्ठाय मनश्चायं विषयानुपसेवते ||१५-९||

अन्वयः - श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणं एव च मनः च अधिष्ठाय अयं विषयान् उपसेवते ।

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् |
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ||१५-१०||

अन्वयः - उत्क्रामन्तं स्थितं वा भुञ्जानं वा गुणान्वितम् अपि विमूढाः न अनुपश्यन्ति, ज्ञानचक्षुषः पश्यन्ति ।

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् |
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ||१५-११||

अन्वयः - यतन्तः योगिनः च एनं आत्मनि अवस्थितं पश्यन्ति । यतन्तः अपि अकृतात्मानः अचेतसः एनं न पश्यन्ति ।

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् |
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ||१५-१२||

अन्वयः - यत् आदित्यगतं तेजः अखिलं जगत् भासयते, यत् चन्द्रमसि, यत् च अग्नौ, तत् तेजः मामकं विद्धि ।

गामाविश्य च भूतानि धारयाम्यहमोजसा |
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ||१५-१३||

अन्वयः - अहं ओजसा गां आविश्य भूतानि च धारयामि, रसात्मकः सोमः च भूत्वा सर्वाः औषधीः पुष्णामि ।

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः |
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ||१५-१४||

अन्वयः - प्राणिनां देहं आश्रितः अहं प्राणानापानसमायुक्तः वैश्वानरः भूत्वा चतुर्विधं अन्नं पचामि ।

सर्वस्य चाहं हृदि सन्निविष्टो
मत्तः स्मृतिर्ज्ञानमपोहनञ्च |
वेदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम् ||१५-१५||

अन्वयः - सर्वस्य च हृदि सन्निविष्टः अहं स्मृतिः ज्ञानं अपोहनं च मत्तः । सर्वैः वेदैः च अहं एव वेद्यः । वेदान्तकृत् वेदवित् च अहं एव ।

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च |
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ||१५-१६||

अन्वयः - लोके क्षरः अक्षरः एव च इमौ द्वौ पुरुषौ । क्षरः सर्वाणि भूतानि उच्यते । अक्षरः कूटस्थः (उच्यते) ।

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः |
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ||१५-१७||

अन्वयः - यः लोकत्रयं आविश्य अव्ययः ईश्वरः बिभर्ति (सः) परमात्मा इति उदाहृतः उत्तमः पुरुषः तु अन्यः (एव) ।

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः |
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ||१५-१८||

अन्वयः - यस्मात् अहं क्षरं अतीतः अक्षरात् अपि च उत्तमः अतः लोके वेदे च पुरुषोत्तमः प्रथितः अस्मि ।

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् |
स सर्वविद्भजति मां सर्वभावेन भारत ||१५-१९||

अन्वयः - भारत, यः असम्मूढः माम् एवं पुरुषोत्तमम् जानाति मां सर्वभावेन भजति सः सर्वविद् ।

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ |
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ||१५-२०||

अन्वयः - अनघ, इति इदं गुह्यतमं शास्त्रं मया उक्तं । भारत, एतद् बुद्ध्वा कृतकृत्यः बुद्धिमान् च स्यात् ।

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे
पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ||१५||

No comments:

Post a Comment