1 | इमं विवस्वते योगं प्रोक्तवानहमव्ययम् | विवस्वान्मनवे प्राह मनुरिक्ष्वाकवे S ब्रवीत् || १ || | इमं अव्ययं योगं अहं विवस्वते प्रोक्तवान् | विवस्वान् मनवे प्राह | मनुः इक्ष्वाकवे अब्रवीत् | |
2 | एवं परम्पराप्राप्तमिमं राजर्षयो विदुः | स कालेनेह महता योगो नष्टः परंतप || २ || | परंतप, एवं राजर्षयः परम्पराप्राप्तम् इमं (योगं) विदुः | सः योगः इह महता कालेन नष्टः |
पहले वाक्यके अन्वयमें शब्दोंका क्रम बदलनेसे अलग अलग भावार्थ बनते हैं, जैसे - एवं इमं परम्पराप्राप्तम् (योगं) राजर्षयः विदुः | या - एवं राजर्षयः इमं परम्पराप्राप्तम् (योगं) विदुः | |
3 | स एवायं मया ते S द्य योगः प्रोक्तः पुरातनः | भक्तो S सि मे सखा चेति रहस्यं ह्येतदुत्तमम् || ३ || | सः एव पुरातनः योगः मया अद्य अयं ते प्रोक्तः | मे भक्तः सखा च असि इति हि एतद् उत्तमं रहस्यं (प्रोक्तं) | |
4 | अर्जुन उवाच | अपरं भवतो जन्म परं जन्म विवस्वतः | कथमेतद्विजानीयाम् त्वमादौ प्रोक्तवानिति || ४ || | अर्जुनः उवाच, "भवतः जन्म अपरं, विवस्वतः जन्म (तु) परम् | एतद् (रहस्यं) आदौ त्वं प्रोक्तवान् इति कथं विजानीयाम् | |
5 | श्री भगवान उवाच | बहूनि मे व्यतीतानि जन्मानि तव चार्जुन | तान्यहम वेद सर्वाणि न त्वं वेत्थ परंतप || ५ || | अर्जुन, मे तव च बहूनि जन्मानि व्यतीतानि | परंतप, अहम् तानि सर्वाणि वेद, त्वं न वेत्थ | |
6 | अजो S पि सन्नव्ययात्मा भूतानामीश्वरो S पि सन् | प्रकृतिम् स्वामधिष्ठाय सम्भवाम्यात्ममायया || ६ || | अजः अव्ययात्मा अपि सन् भूतानां ईश्वरः अपि सन्, स्वां प्रकृतिम् अधिष्ठाय आत्ममायया संभवामि | |
7 | यदा यदा हि धर्मस्य ग्लानिर्भवति भारत | अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् || ७ || | भारत, यदा यदा हि धर्मस्यग्लानिः भवति, अधर्मस्य अभ्युत्थानं ( च भवति ) तदा अहम् आत्मानं सृजामि | |
8 | परित्राणाय साधूनां विनाशाय च दुष्कृताम् | धर्मसंस्थापनार्थाय संभवामि युगे युगे || ८ || | साधूनां परित्राणाय दुष्कृताम् विनाशाय च धर्मसंस्थापनार्थाय ( च अहम् ) युगे युगे संभवामि | |
9 | जन्म कर्म च मे दिव्यं एवं यो वेत्ति तत्त्वतः | त्यक्त्वा देहं पुनर्जन्म नैति मामेति सो S र्जुन || ९ || | अर्जुन, मे जन्म कर्म च दिव्यं, एवं यः तत्त्वतः वेत्ति, सः देहं त्यक्त्वा पुनः जन्म न एति, (सः) माम् एति | |
10 | वीतरागभयक्रोधा मन्मया मामुपाश्रिताः | बहवो ज्ञानतपसा पूता मद्भावमागताः || १० || | वीतरागभयक्रोधाः, मन्मया:, मां उपाश्रिताः, ज्ञानतपसा पूताः, बहवः मद्भावं आगताः | |
11 | ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् | मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः || ११ || | ये मां यथा प्रपद्यन्ते तान् अहम् तथा एव भजामि | पार्थ, मनुष्याः सर्वशः मम वर्त्मा अनुवर्तन्ते | |
12 | कान्क्षन्त: कर्मणाम् सिद्धिं यजन्त इह देवताः | क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा || १२ || | इह कर्मणाम् सिद्धिं कान्क्षन्त: देवताः यजन्ते | मानुषे लोके कर्मजा सिद्धिः क्षिप्रं हि भवति | |
13 | चातुर्वर्ण्यम् मया स्रुष्टम् गुणकर्मविभागशः | तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् || १३ || | मया गुणकर्मविभागशः चातुर्वर्ण्यम् स्रुष्टम् | अव्ययं मां तस्य कर्तारं अकर्तारं अपि विद्धि | |
14 | न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा | इति मां यो S भिजानाती कर्मभिर्न स बध्यते || १४ || | "कर्माणि मां न लिम्पन्ति, न मे कर्मफले स्पृहा" इति यः मां अभिजानाति, सः कर्मभिः न बध्यते | |
15 | एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षिभिः | कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् || १५ || | पूर्वैः मुमुक्षिभिः अपि कर्म एवं ज्ञात्वा (एव) कृतम् | तस्मात् त्वं पूर्वैः पूर्वतरं कृतं एव कर्म कुरु | |
16 | किं कर्म किमकर्मेति कवयो S प्यत्र मोहिताः | तत्ते कर्म प्रविक्ष्यामि यज्ज्ञात्वा मोक्ष्यसे S शुभात् || १६ || | " किं कर्म किं अकर्म " इति अत्र कवयः अपि मोहिताः | ते तत् कर्म प्रविक्ष्यामि, यत् ज्ञात्वा अशुभात् मोक्ष्यसे | |
17 | कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः | अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः || १७ || | कर्मणः गतिः गहना, हि कर्मणः अपि बोद्धव्यं, विकर्मणः च बोद्धव्यं, अकर्मणः च बोद्धव्यम् | |
18 | कर्मण्यकर्म यः पश्येत् अकर्मणि च कर्म यः | स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् || १८ || | यः कर्मणि अकर्म पश्येत्, यः च अकर्मणि कर्म (पश्येत्), सः मनुष्येषु बुद्धिमान्, कृत्स्नकर्मकृत् (अपि) सः युक्तः | |
19 | यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः | ज्ञानाग्निदग्धकर्माणम् तमाहुः पण्डितम् बुधाः || १९ || | यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः, तं ज्ञानाग्निदग्धकर्माणम् बुधाः पण्डितम् आहुः | |
20 | त्यक्त्वा कर्मफलासंगं नित्यतृप्तो निराश्रयः | कर्मण्यभिप्रवृत्तो S पि नैव किंचित्करोति सः || २० || | कर्मफलासंगं त्यक्त्वा नित्यतृप्तः निराश्रयः कर्मणि अभिप्रवृत्तः अपि सः किंचित् एव न करोति | |
21 | निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः | शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् || २१ || | निराशी:, यतचित्तात्मा, त्यक्तसर्वपरिग्रहः, केवलं शारीरं कर्म कुर्वन्, किल्बिषम् न आप्नोति | |
22 | यद्रुच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः | समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते || २२ || | यद्रुच्छालाभसन्तुष्टः, द्वंद्वातीतः, विमत्सरः, सिद्धौ असिद्धौ च समः कृत्वा अपि न निबध्यते | |
23 | गतसंगस्य मुक्तस्य ज्ञानावस्थितचेतसः | यज्ञायाचरतः कर्म समग्रं प्रविलीयते || २३ || | गतसंगस्य, मुक्तस्य, ज्ञानावस्थितचेतसः, यज्ञाय आचरतः समग्रं कर्म प्रविलीयते | |
24 | ब्रम्हार्पणम् ब्रम्हहविर्ब्रम्हाग्नौ ब्रम्हणा हुतम् | ब्रम्हैव तेन गन्तव्यं ब्रम्हकर्मसमाधिना || २४ || | ब्रम्हणा ब्रम्हहविः ब्रम्हाग्नौ ब्रम्हार्पणम् हुतम् | तेन ब्रम्हकर्मसमाधिना ब्रम्ह एव गन्तव्यम् | |
25 | दैवमेवापरे यज्ञम् योगिनः पर्युपासते | ब्रम्हाग्नावपरे यज्ञम् यज्ञेनैवोपजिव्हति || २५ || | अपरे योगिनः दैवं यज्ञम् एव पर्युपासते | अपरे ब्रम्हाग्नौ यज्ञम् यज्ञेन एव उपजिव्हति | |
26 | श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुव्हति | शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुव्हति || २६ || | अन्ये श्रोत्रादीनि इन्द्रियाणि संयमाग्निषु जुव्हति | अन्ये शब्दादीनि विषयानि इन्द्रियाग्निषु जुव्हति | |
27 | सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे | आत्मसंयमयोगाग्नौ जुव्हति ज्ञानदीपिते || २७ || | अपरे सर्वाणि इन्द्रियकर्माणि प्राणकर्माणि च ज्ञानदीपिते आत्मसंयमयोगाग्नौ जुव्हति | |
28 | द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे | स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः || २८ || | तथा अपरे द्रव्ययज्ञाः तपोयज्ञाः योगयज्ञाः स्वाध्यायज्ञानयज्ञाः च संशितव्रताः यतयः | |
29 | अपाने जुव्हति प्राणं प्राणे S पानं तथापरे | प्राणापानगती रुद्ध्वा प्राणायामपरायणाः || २९ || | अपरे प्राणायामपरायणाः प्राणापानगती रुद्ध्वा प्राणं अपाने जुव्हति, तथा अपानं प्राणे (जुव्हति) | |
30 | अपरे नियताहाराः प्राणान् प्राणेषु जुव्हति | सर्वे S प्येते यज्ञविदो यज्ञक्षपितकल्मषाः || ३० || | अपरे नियताहाराः प्राणान् प्राणेषु जुव्हति | एते सर्वे अपि यज्ञविदः यज्ञक्षपितकल्मषाः | |
31 | यज्ञशिष्टामृतभुजो यान्ति ब्रम्हसनातनम् | नायं लोको S स्त्ययज्ञस्य कुतो S न्यः कुरुसत्तम || ३१ || | यज्ञशिष्टामृतभुजः ब्रम्हसनातनम् यान्ति | कुरुसत्तम, अयज्ञस्य अयं लोकः न अस्ति, कुतः अन्यः | |
32 | एवं बहुविधा यज्ञा वितता ब्रम्हणो मुखे | कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे || ३२ || | एवं ब्रम्हणः मुखे बहुविधाः यज्ञाः वितताः | तान् सर्वान् कर्मजान् विद्धि | एवं ज्ञात्वा विमोक्ष्यसे | |
33 | श्रेयान्द्रव्यमयाद्यज्ञात् ज्ञानयज्ञः परंतप | सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते || ३३ || | परंतप, द्रव्यमयात् यज्ञात् ज्ञानयज्ञः श्रेयान् | पार्थ, सर्वं अखिलं कर्म ज्ञाने परिसमाप्यते | |
34 | तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया | उपदेक्ष्यन्ति ते ज्ञानम् ज्ञानिनस्तत्त्वदर्शिनः || ३४ || | तत् प्रणिपातेन परिप्रश्नेन सेवया विद्धि | ज्ञानिनः तत्त्वदर्शिनः ते ज्ञानम् उपदेक्ष्यन्ति |
शिर्डी के साईबाबा ने दूसरे चरण में अवग्रह लेनेका सुझाव दिया | अवग्रह लेनेसे दूसरा चरण " उपदेक्ष्यन्ति ते S ज्ञानम् ज्ञानिनस्तत्त्वदर्शिनः | " ऐसा होगा | और तब अन्वय बनेगा " ज्ञानिनः तत्त्वदर्शिनः ते अज्ञानम् उपदेक्ष्यन्ति |" इस अन्वयका भावार्थ पहले अन्वयसे एकदम उलटा हो जाता है | लेकिन इसका समर्थन भी और स्तोत्रोमे मिलता है | जैसे, श्री दक्षिणामूर्ती के स्तोत्र में गुरू की व्याख्या ऐसी बतायी है |
गुकारस्त्वन्धकारो वै रुकारस्तन्निवर्तकः | अन्धकारनिवर्तित्वात् गुरुरित्यभिधीयते || साईबाबाने दिया हुआ सुझाव गुरूकी इस व्याख्यासे कितना मेल खाता है!! महंतों की यही तो महत्ता है!! |
35 | यज्ज्ञात्वा न पुनर्मोहं एवं यास्यसि पाण्डव | येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथा मयि || ३५ || | यत् ज्ञात्वा, पाण्डव, एवं मोहम पुनः न यास्यसि | येन अशेषेण भूतानि यथा मयि द्रक्ष्यसि (तथा) आत्मनि (द्रक्ष्यसि) |
यह श्लोक और इसका अन्वय स्वतंत्र वाक्य नहीं है | ये वाक्यांश हैं | इन वाक्यांशोका सम्बन्ध ३४ वे श्लोक के " तत् विद्धि " से है | इस प्रकारसे ये दोनों श्लोक मिलकर एक वाक्य बनता है | |
36 | अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः | सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि || ३६ || | सर्वेभ्यः पापेभ्यः अपि पापकृत्तमः असि चेत्, ज्ञानप्लवेन एव सर्वं वृजिनं सन्तरिष्यसि | |
37 | यथैधान्सि समिद्धो S ग्निर्भस्मसात्कुरुते S र्जुन | ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा || ३७ || | अर्जुन, यथा समिद्धः अग्निः एधान्सि भस्मसात् कुरुते, तथा ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते | |
38 | न हि ज्ञानेन सदृशं पवित्रमिह विद्यते | तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति || ३८ || | ज्ञानेन सदृशं पवित्रं इह न हि विद्यते | योगसंसिद्धः कालेन स्वयं तत् आत्मनि विन्दति | |
39 | श्रद्धावांल्लभते ज्ञानम् तत्परः संयतेन्द्रियः | ज्ञानम् लब्ध्वा परां शान्तिमचिरेणाधिगच्छति || ३९ || | श्रद्धावान् तत्परः संयतेन्द्रियः ज्ञानम् लभते | ज्ञानम् लब्ध्वा अचिरेण परां शान्तिम् अधिगच्छति | |
40 | अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति | नायं लोको S अस्ति न परो न सुखं संशयात्मनः || ४० || | अज्ञः च अश्रद्दधानः च संशयात्मा विनश्यति | संशयात्मनः न अयं लोकः अस्ति, न परः, न सुखम् | |
41 | योगसन्यस्तकर्माणं ज्ञानसन्च्छिन्नसंशयम् | आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय || ४१ || | धनञ्जय, योगसन्यस्तकर्माणं ज्ञानसन्च्छिन्नसंशयम् आत्मवन्तं कर्माणि न निबध्नन्ति | |
42 | तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः | छित्वैनम् संशयं योगमातिष्ठोत्तिष्ठ भारत || ४२ || | भारत, तस्मात् एनं हृत्स्थं अज्ञानसंभूतं आत्मनः संशयं ज्ञानासिना छित्वा योगं आतिष्ठ उत्तिष्ठ | |
No comments:
Post a Comment