Thursday, July 8, 2010

चतुर्दशोऽध्यायः | गुणत्रयविभागयोगः |


अथ चतुर्दशोऽध्यायः | गुणत्रयविभागयोगः
श्रीभगवानुवाच |
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् |
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ||१४-१||

अन्वयः - श्री भगवान् उवाच, "भूयः ज्ञानानां उत्तमम् परं ज्ञानं यत् ज्ञात्वा सर्वे मुनयः इतः परां सिद्धिं गताः (तत्) प्रवक्ष्यामि ।

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः |
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ||१४-२||

अन्वयः - इदं ज्ञानं उपाश्रित्य मम साधर्म्यं आगताः सर्गे अपि न उपजायन्ते प्रलये न व्यथन्ति च ।

मम योनिर्महद् ब्रह्म तस्मिन्गर्भं दधाम्यहम् |
सम्भवः सर्वभूतानां ततो भवति भारत ||१४-३||

अन्वयः - भारत, महत् ब्रम्ह मम योनिः । अहं तस्मिन् गर्भं दधामि । ततः सर्वभूतानां संभवं भवति ।

सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः |
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ||१४-४||

अन्वयः - कौन्तेय, सर्वयोनिषु याः मूर्तयः संभवन्ति, तासां महत् ब्रम्ह् योनिः अहं बीजप्रदः पिता ।

सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः |
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ||१४-५||

अन्वयः - महाबाहो, सत्त्वं रजः तमः इति प्रकृतिसंभवाः गुणाः अव्ययं देहिनं देहे निबध्नन्ति ।

तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् |
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ||१४-६||

अन्वयः - अनघ, अनामयं प्रकाशकं सत्त्वं निर्मलत्वात् सुखसङ्गेन ज्ञानसङ्गेन च बध्नाति ।

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् |
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ||१४-७||

अन्वयः - कौन्तेय, रजः रागात्मकं विद्धि । तृष्णासङ्गसमुद्भवं तत् देहिनम् कर्मस्ङ्गेन निबध्नाति ।
अन्वयान्तरः - कौन्तेय, तृष्णासङ्गसमुद्भवं रागात्मकं रजः देहिनम् कर्मस्ङ्गेन निबध्नाति, तत् विद्धि ।


तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् |
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ||१४-८||

अन्वयः - भारत, तमः तु अज्ञानजं सर्वदेहिनां मोहनं प्रमादालस्यनिद्राभिः निबध्नाति, तत् विद्धि ।

सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत |
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ||१४-९||

अन्वयः - भारत, सत्त्वं सुखे सञ्जयति, रजः कर्मणि (सञ्जयति) तमः तु ज्ञानं आवृत्य प्रमादे सञ्जयति उत ।

रजस्तमश्चाभिभूय सत्त्वं भवति भारत |
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ||१४-१०||

अन्वयः - भारत, रजः तमः च अभिभूय एव सत्त्वं भवति, रजः च सत्त्वं तमः (अभिभूय भवति), तमः सत्त्वं रजः (अभिभूय भवति) ।

सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते |
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ||१४-११||

अन्वयः - यदा अस्मिन् देहे सर्वद्वारेषु प्रकाशः उपजायते तदा ज्ञानं सत्त्वं विवृद्धं इति विद्यात् उत ।

लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा |
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ||१४-१२||

अन्वयः - भरतर्षभ, रजस्य विवृद्धे लोभः प्रवृत्तिः आरम्भः कर्मणां अशमः स्पृहा एतानि जायन्ते ।

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च |
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ||१४-१३||

अन्वयः - कुरुनन्दन, तमस्य विवृद्धे च अप्रकाशः अप्रवृत्तिः प्रमादः मोहः एतानि एव जायन्ते ।

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् |
तदोत्तमविदां लोकानमलान्प्रतिपद्यते ||१४-१४||

अन्वयः - सत्त्वे प्रवृद्धे तु यदा देहभृत् प्रलयं याति, तदा अमलान् उत्तमविदान् लोकान् प्रतिपद्यते ।

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते |
तथा प्रलीनस्तमसि मूढयोनिषु जायते ||१४-१५||

अन्वयः - रजसि (प्रवृद्धे तु) प्रलयं गत्वा कर्मसङ्गिषु जायते । तथा तमसि (प्रवृद्धे) प्रलीनः मूढयोनिषु जायते ।

कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् |
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ||१४-१६||

अन्वयः - सुकृतस्य कर्मणः फलं सात्विकं निर्मलं आहुः, रजसः फलं तु दुःखं, तमसः फलं अज्ञानम् ।

सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च |
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ||१४-१७||

अन्वयः - सत्त्वात् ज्ञानं सञ्जायते रजसः च लोभः एव (सञ्जायते) तमसः प्रमादमोहौ भवतः अज्ञानं च एव (सञ्जायते) ।

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः |
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ||१४-१८||

अन्वयः - सत्त्वस्थाः ऊर्ध्वं गच्छन्ति, राजसाः मध्ये तिष्ठन्ति, जघन्यगुणवित्तिस्थाः तामसाः अधः गच्छन्ति ।

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति |
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ||१४-१९||

अन्वयः - यदा द्रष्टा गुणेभ्यः कर्तारं अन्यं न अनुपश्यति, मद्भावं च गुणेभ्यः परं वेत्ति, सः अधिगच्छति ।

गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् |
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ||१४-२०||

अन्वयः - देहसमुद्भवान् एतान् त्रीन् गुणान् अतीत्य देही जन्ममृत्युजरादुःखैः विमुक्तः अमृतं अश्नुते ।

अर्जुन उवाच |
कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो |
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ||१४-२१||

अन्वयः - अर्जुनः उवाच, "प्रभो, कैः लिङ्गैः एतान् त्रीन् गुणान् अतीतः भवति ? कथं किं आचारः च एतान् त्रीन् गुणान् अतिवर्तते ?

श्रीभगवानुवाच |
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव |
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ||१४-२२||

अन्वयः - श्रीभगवान् उवाच, "पाण्डव, प्रकाशं च प्रवृत्तिं च मोहं च एव सम्प्रवृत्तानि न द्वेष्टि निवृत्तानि न काङ्क्षति ।

उदासीनवदासीनो गुणैर्यो न विचाल्यते |
गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते ||१४-२३||

अन्वयः - यः उदासीनवदासीनः गुणैः न विचाल्यते, गुणाः वर्तन्ते इति एवं यः अवतिष्ठति न इङ्गते ।

समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः |
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ||१४-२४||

मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः |
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ||१४-२५||

अन्वयः - (यः) समदुःखसुखः, स्वस्थः, समलोष्टाश्मकाञ्चनः, तुल्यप्रियाप्रियः, धीरः, तुल्यनिन्दात्मसंस्तुतिः, मानापमानयोः तुल्यः, मित्रारिपक्षयोः तुल्यः, सर्वारम्भपरित्यागी, सः गुणातीतः उच्यते ।


मां च योऽव्यभिचारेण भक्तियोगेन सेवते |
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ||१४-२६||

अन्वयः - यः च मां अव्यभिचारेण भक्तियोगेन सेवते, सः एतान् गुणान् समतीत्य ब्रह्मभूयाय कल्पते ।

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च |
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ||१४-२७||

अन्वयः - हि अहं ब्रह्मणः, अव्ययस्य अमृतस्य च, शाश्वतस्य धर्मस्य च एकान्तिकस्य सुखस्य च प्रतिष्ठा ।

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ||१४||

No comments:

Post a Comment