Thursday, July 8, 2010

द्वादशोऽध्यायः | भक्तियोगः |

अथ द्वादशोऽध्यायः | भक्तियोगः |
अर्जुन उवाच |
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते |
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ||१||
अर्जुनः उवाच - ये भक्ताः एवं सततयुक्ताः त्वां पर्युपासते, ये च अक्षरं अव्यक्तं अपि (पर्युपासते) तेषां के योगवित्तमाः ?
श्रीभगवानुवाच |
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते |
श्रद्धया परयोपेताः ते मे युक्ततमा मताः ||२||
ये मनः मयि आवेश्य नित्ययुक्ताः परया श्रद्धया उपेताः मां उपासते, ते मे युक्ततमा मताः |
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते |
सर्वत्रगमचिन्त्यञ्च कूटस्थमचलं ध्रुवम् ||३||
सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः |
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ||४||
ये तु इन्द्रियग्रामं संनियम्य सर्वत्र समबुद्धयः सर्वभूतहिते रताः अक्षरं अनिर्देश्यं अव्यक्तं सर्वत्रगं अचिन्त्यं कूटस्थं अचलं ध्रुवं च पर्युपासते, ते मां एव प्राप्नुवन्ति |
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् |
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ||५||
तेषां अव्यक्तासक्तचेतसां क्लेशः अधिकतरः, हि देहवद्भिः अव्यक्ता गतिः दुःखं अवाप्यते |
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः |
अनन्येनैव योगेन मां ध्यायन्त उपासते ||६||
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् |
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ||७||
पार्थ, ये तु मत्पराः सर्वाणि कर्माणि मयि संन्यस्य अनन्येन एव योगेन मां ध्यायन्तः उपासते, अहं तेषां मयि आवेशितचेतसां मृत्युसंसारसागरात् नचिरात् समुद्धर्ता भवामि |
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय |
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ||८||
मयि एव मनः आधत्स्व, बुद्धिं मयि निवेशय, अतः मयि एव निवसिष्यसि (अत्र) न संशयः |
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् |
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ||९||
अथ चित्तं मयि स्थिरं समाधातुं न शक्नोषि, ततः, धनञ्जय, मां अभ्यासयोगेन आप्तुं इच्छ |
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव |
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ||१०||
अभ्यासे अपि असमर्थः असि, मत्कर्मपरमः भव । मदर्थं कर्माणि कुर्वन् अपि सिद्धिं अवाप्स्यसि |
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः |
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ||११||
अथ एतत् अपि कर्तुं अशक्तः असि, ततः यतात्मवान् मद्योगं आश्रितः सर्वकर्मफलत्यागं कुरु |
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते |
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ||१२||
हि अभ्यासात् ज्ञानं श्रेयः । ज्ञानात् ध्यानं विशिष्यते । ध्यानात् कर्मफलत्यागः (विशिष्यते) । त्यागात् अनन्तरं शान्तिः |
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च |
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ||१३||
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः |
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ||१४||
यः अद्वेष्टा, सर्वभूतानां मैत्रः च करुणः एव, निर्ममः, निरहङ्कारः, समदुःखसुखः, क्षमी, सततं सन्तुष्टः योगी यतात्मा दृढनिश्चयः मयि अर्पितमनोबुद्धिः, सः मद्भक्तः मे प्रियः |
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः |
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ||१५||
यस्मात् लोकः न उद्विजते यः च लोकात् न उद्विजते, यः च हर्षामर्षभयोद्वेगैः मुक्तः ्, सः मे प्रियः |
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः |
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ||१६||
यः अनपेक्षः शुचिः दक्षः उदासीनः गतव्यथः सर्वारम्भपरित्यागी सः मद्भक्तः मे प्रियः |
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति |
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ||१७||
यः न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति सः शुभाशुभपरित्यागी भक्तिमान्यः मे प्रियः |
समः शत्रौ च मित्रे च तथा मानापमानयोः |
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ||१८||
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् |
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ||१९||
(यः) शत्रौ च मित्रे च समः तथा मानापमानयोः (समः) शीतोष्णसुखदुःखेषु समः (यः) सङ्गविवर्जितः तुल्यनिन्दास्तुतिः मौनी, येन केनचित् सन्तुष्टः अनिकेतः स्थिरमतिः (सः) भक्तिमान् नरः मे प्रियः |
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते |
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ||२०||
ये तु इदं धर्म्यामृतं यथा उक्तं पर्युपासते, ते श्रद्दधानाः मत्परमाः भक्ताः मे अतीव प्रियाः |

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
भक्तियोगो नाम द्वादशोऽध्यायः ||

1 comment:

  1. Hola Slez:

    me podria usted traducir el significado de esta frase por favor??

    देवःमां रक्षति

    Se lo agradeceria muchisimo.

    ReplyDelete