Thursday, July 8, 2010

नवमो S ध्यायः | राजविद्याराजगुह्ययोगो नाम ।

ॐ श्रीपरमात्मने नमः |
अथ नवमो S ध्यायः |

श्रीभगवानुवाच

इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेSशुभात् ॥ १ ॥

अन्वय - हे अनसूयवे, इदं तु ते गुह्यतमं विज्ञानसहितं ज्ञानं प्रवक्ष्यामि, यत् ज्ञात्वा अशुभात् मोक्ष्यसे ।

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥

अन्वय - इदं राजविद्या, (इदं) पवित्रं, उत्तमं, प्रत्यक्षावगमं, धर्म्यं, कर्तुं सुसुखं, अव्ययं (अस्ति) ।

अश्रद्धधानाः पुरुषा धर्मस्यास्य परंतप ।
अप्राप्य मां निवर्तन्ते म्रुत्युसंसारवर्त्मनि ॥ ३ ॥

अन्वय - हे परंतप, अस्य धर्मस्य अश्रद्धधानाः पुरुषाः मां अप्राप्य म्रुत्युसंसारवर्त्मनि निवर्तन्ते ।

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ ४ ॥

अन्वय - इदं सर्वं मया जगदव्यक्तमूर्तिना ततम् । सर्वभूतानि मत्स्थानि, न च अहं तेषु अवस्थितः ।

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ ५ ॥

अन्वय - न च भूतानि मत्स्थानि, मे ऐश्वरं योगं पश्य । मम भूतभावनः आत्मा च भूतभ्रुत् न भूतस्थो (एवं पश्य) ।

यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६ ॥

अन्वय - यथा महान् आकाशस्थितः वायुः नित्यं सर्वत्रगः, तथा सर्वाणि भूतानि मत्स्थानि इति उपधारय ।

सर्वभूतानि कौन्तेय प्रक्रुतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विस्रुजाम्यहम् ॥ ७ ॥

अन्वय - हे कौन्तेय, कल्पक्षये सर्वभूतानि मामिकाम् प्रक्रुतिं यान्ति । कल्पादौ अहं तानि पुनः विस्रुजामि ।

प्रक्रुतिं स्वामवष्टभ्य विस्रुजामि पुनःपुनः ।
भूतग्राममिमं क्रुत्स्नमवशं प्रक्रुतेर्वशात् ॥ ८ ॥

अन्वय - इमं क्रुत्स्नं भूतग्रामं प्रक्रुतेः वशात् अवशं अवष्टभ्य स्वां प्रक्रुतिं पुनःपुनः विस्रुजामि ।

न च मां तानि कर्माणि निबध्नन्ति धनन्जय ।
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९ ॥

अन्वय - हे धनन्जय, तानि कर्माणि तेषु कर्मसु असक्तं उदासीनवत् आसीनं मां न निबध्नन्ति च ।

मयाध्यक्षेण प्रक्रुतिः सूयते सचराचरम् ।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ १० ॥

अन्वय - हे कौन्तेय, मया अध्यक्षेण प्रक्रुतिः सचराचरं सूयते । अनेन हेतुना जगत् विपरिवर्तते ।

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ॥

अन्वय - मम भूतमहेश्वरं परं भावं अजानन्तः मूढाः मानुषीं तनुं आश्रितं मां अवजानन्ति ।

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रक्रुतिं मोहिनीं श्रिताः ॥ १२ ॥

अन्वय - मोघाशाः मोघकर्माणः मोघज्ञानाः विचेतसः राक्षसीं आसुरीं मोहिनीं च प्रक्रुतिं श्रिताः (सन्ति) ।

महात्मानस्तु मां पार्थ दैवीं प्रक्रितिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ १३ ॥

अन्वय - पार्थ, दैवीं प्रक्रुतिं आश्रिताः महात्मानः तु मां भूतादिं अव्ययं ज्ञात्वा अनन्यमनसः भजन्ति ।

सततं कीर्तयन्तो मां यतन्तश्च द्रुढव्रताः ।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ १४ ॥

अन्वय - मां सततं कीर्तयन्तः यतन्तः द्रुढव्रताः च नमस्यन्तः च नित्ययुक्ताः मां भक्त्या उपासते ।

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।
एकत्वेन प्रुथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥

अन्वय - एकत्वेन प्रुथक्त्वेन ज्ञानयज्ञेन बहुधा यजन्तः अन्ये अपि मां विश्वतोमुखं उपासते च ।

अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् ।
मन्त्रोSहमहमेवाज्यमहमग्निरहं हुतम् ॥ १६ ॥

अन्वय - अहं क्रतुः, अहं यज्ञः, अहं स्वधा, अहं औषधं, अहं मन्त्रः, अहं एव आज्यं, अहं अग्निः, अहं हुतम् (अस्मि) ।

पिताहमस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रमोन्कार रुक्साम यजुरेव च ॥ १७ ॥

अन्वय - अहं अस्य जगतः पिता, माता, धाता, पितामहः (अस्मि) । (अहं) वेद्यं पवित्रं च ओंकारः रुक् साम यजुः एव (अस्मि) ।

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुह्रुत् ।
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ १८ ॥

अन्वय - (अहं) गतिः, भर्ता, प्रभुः, साक्षी, निवासः, शरणं, सुह्रुत्, प्रभवः, प्रलयः, स्थानं, निधानं, अव्ययं बीजम् (अस्मि) ।

तपाम्यहमहं वर्षं निग्रुण्हाम्युत्स्रुजामि च ।
अम्रुतं चैव म्रुत्युश्च सदसच्चाहमर्जुन ॥ १९ ॥

अन्वय - अहं तपामि, वर्षं निग्रुण्हामि उत्स्रुजामि च । अर्जुन, अहं अम्रुतं च म्रुत्युः च सत् च असत् च ।

त्रैविद्या मां सोमपाः पूतपापा
यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यमासाद्य सुरेन्द्रलोकम्
अश्नन्ति दिव्यान्दिवि देवभोगान् ॥ २० ॥

अन्वय - त्रैविद्याः सोमपाः पूतपापाः मां यज्ञैः इष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यं सुरेन्द्रलोकं आसाद्य दिवि दिव्यान् देवभोगान् अश्नन्ति ।

ते तं भुक्त्वा स्वर्गलोकं विशालं
क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयीधर्ममनुप्रपन्ना
गतागतं कामकामा लभन्ते ॥ २१ ॥

अन्वय - ते तं विशालं स्वर्गलोकं भुक्त्वा क्षीणे पुण्ये मर्त्यलोकं विशन्ति । एवं त्रयीधर्मं अनुप्रपन्नाः कामकामाः गतागतं लभन्ते ।

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ २२ ॥

अन्वय - ये अनन्याः चिन्तयन्तः मां पर्युपासते, तेषां नित्याभियुक्तानां योगक्षेमं अहं वहामि ।

येSप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः ।
तेSपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ २३ ॥

अन्वय - ये श्रद्धयान्विताः भक्ताः अन्यदेवताः अपि यजन्ते, ते अपि, कौन्तेय, अविधिपूर्वकं मां एव यजन्ति ।

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
न तु मां अभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ २४ ॥

अन्वय - सर्वयज्ञानां अहं हि भोक्ता च प्रभुः एव च । (ये) तु मां तत्त्वेन न अभिजानन्ति ते अतः च्यवन्ति ।

यान्ति देवव्रता देवान् पित्रून्यान्ति पित्रुव्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोSपि माम् ॥ २५ ॥

अन्वय - देवव्रता देवान् यान्ति । पित्रुव्रताः पित्रून् यान्ति । भूतेज्याः भूतानि यान्ति मद्याजिनः अपि मां यान्ति ।

पत्रं पुष्पं फ़लं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपह्रुतमश्नामि प्रयतात्मनः ॥ २६ ॥

अन्वय - यः मे भक्त्या पत्रं पुष्पं फ़लं तोयं प्रयच्छति, तत् प्रयतात्मनः भक्त्युपह्रुतं अहं अश्नामि ।

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ २७ ॥

अन्वय - हे कौन्तेय, यत् करोषि, यत् अश्नासि, यत् जुहोषि, यत् ददासि, यत् तपस्यसि, तत् मदर्पणं कुरुष्व ।

शुभाशुभफ़लैरेवं मोक्ष्यसे कर्मबन्धनैः ।
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ २८ ॥

अन्वय - एवं कर्मबन्धनैः शुभाशुभफ़लैः मोक्ष्यसे । संन्यासयोगयुक्तात्मा विमुक्तः मां उपैष्यसि ।

समोSहं सर्वभूतेषु न मे द्वेष्योSस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ २९ ॥

अन्वय - अहं सर्वभूतेषु समः । न मे द्वेष्यः अस्ति न प्रियः । ये तु मां भक्त्या भजन्ति, ते मयि अहं अपि तेषु च ।

अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ३० ॥

अन्वय - अपि सुदुराचारः मां अनन्यभाक् भजते चेत्, सः साधुः एव मन्तव्यः, हि सः सम्यक् व्यवसितः ।

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ ३१ ॥

अन्वय - क्षिप्रं धर्मात्मा भवति, शश्वत् शान्तिं निगच्छति । कौन्तेय, प्रतिजानीहि मे भक्तः न प्रणश्यति ।

मां हि पार्थ व्यपाश्रित्य येSपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेSपि यान्ति परां गतिम् ॥ ३२ ॥

अन्वय - हि पार्थ स्त्रियः वैश्याः शूद्राः तथा पापयोनयः अपि ये स्युः ते अपि मां व्यपाश्रित्य परां गतिं यान्ति ।

किं पुनर्ब्राम्हणाः पुण्या भक्ता राजर्षयस्तथा ।
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ३३ ॥

अन्वय - किं पुनः ब्राम्हणाः पुण्याः भक्ताः तथा राजर्षयः । इमं अनित्यं असुखं लोकं प्राप्य मां भजस्व ।

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ३४ ॥

अन्वय - मन्मना मद्याजी मद्भक्तः भव । मां नमः कुरु । एवं आत्मानं मत्परायणः युक्त्वा मां एव एष्यसि ।

ॐ तत्सत् ।
इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रम्हविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
राजविद्याराजगुह्ययोगो नाम नवमोSध्यायः ।

No comments:

Post a Comment