Thursday, July 8, 2010

षष्ठो ऽ ध्यायः | आत्मसंयमयोगः ।

ॐ श्री परमात्मने नमः |
अथ षष्ठो ऽ ध्यायः | आत्मसंयमयोगः ।
1श्रीभगवान् उवाच |
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः |
स संन्यासी च योगी च न निराग्निर्न चाक्रियः || १ ||
यः कर्मफलं अनाश्रितः कार्यं कर्म करोति, सः संन्यासी च योगी च, निराग्निः न, अक्रियः च न (संन्यासी च योगी च) |
2यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव |
नह्यसन्यस्तसन्कल्पो योगी भवति कश्चन || २ ||
पाण्डव, यं संन्यासं इति प्राहुः, तं योगं विद्धि | न हि असंन्यस्तसंकल्पः कश्चन योगी भवति |
3आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते |
योगारूढस्य तस्यैव शमः कारणमुच्यते || ३ ||
योगं आरुरुक्षो: मुनेः कर्म कारणं उच्यते | तस्य एव योगारूढस्य शमः कारणं उच्यते |
4यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते |
सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते || ४ ||
यदा हि सर्वसंकल्पसंन्यासी न इन्द्रियार्थेषु न कर्मसु अनुषज्जते, तदा योगारूढः उच्यते |
5उद्धरेदात्मनात्मानं नात्मानमवसादयेत् |
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः || ५ ||
आत्मानं आत्मना उद्धरेत् | आत्मानं न अवसादयेत् | हि आत्मा एव आत्मनः बन्धुः | आत्मा एव आत्मनः रिपुः |
6बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः |
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् || ६ ||
येन आत्मना आत्मा एव जितः, तस्य आत्मनः आत्मा बन्धुः | अनात्मनः आत्मा तु शत्रुवत् शत्रुत्वे वर्तेत |
7जितात्मनः प्रशान्तस्य परमात्मा समाहितः |
शीतोष्णसुखदुःखेषु तथा मानापमानयोः || ७ ||
शीतोष्णसुखदुःखेषु तथा मानापमानयोः प्रशान्तस्य जितात्मनः परमात्मा समाहितः |
8ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः |
युक्त इत्युच्यते योगी समलोष्टाश्मकान्चनः || ८ ||
ज्ञानविज्ञानतृप्तात्मा कूटस्थः विजितेन्द्रियः समलोष्टाश्मकान्चनः योगी युक्तः इति उच्यते |
9सुह्रुन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु |
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते || ९ ||
( यः ) सुह्रुन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु साधुषु च पापेषु अपि समबुद्धिः ( सः ) विशिष्यते |
10
योगी युन्जीत सततं आत्मानम् रहसि स्थितः |
एकाकी यतचित्तात्मा निराशीरपरिग्रहः || १० ||
यतचित्तात्मा निराशीः अपरिग्रहः योगी एकाकी रहसि स्थितः सततं आत्मानम् युन्जीत |
11
शुचौ देशे प्रतिष्ठाप्य स्थिरामासनमात्मनः |
नात्युच्छ्रितम् नातिनीचं चैलाजिनकुशोत्तरम् || ११ ||
तत्रैकाग्रं मनः कृत्वा यतचित्तेंद्रियक्रियः |
उपविश्यासने युन्ज्याद्योगमात्मविशुद्धये || १२ ||
आत्मनः आसनं शुचौ देशे न अत्युच्छ्रितं न अतिनीचं चैलाजिनकुशोत्तरम् स्थिरं प्रतिष्ठाप्य,
तत्र आसने उपविश्य मनः एकाग्रं कृत्वा यतचित्तेंद्रियक्रियः आत्मविशुद्धये योगं युन्ज्यात् |
12
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः |
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् || १३ ||
प्रशान्तात्मा विगतभीर्ब्रम्हचारिव्रते स्थितः |
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः || १४ ||
कायशिरोग्रीवं समं अचलं धारयन् स्वं नासिकाग्रं संप्रेक्ष्य दिशः च अनवलोकयन्
ब्रम्हचारिव्रते स्थितः विगतभीः प्रशान्तात्मा मनः संयम्य मच्चित्तः मत्परः आसीत |
13
युन्जन्नेवं सदात्मानं योगी नियतमानसः |
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति || १५ ||
एवं आत्मानम् सदा युन्जन् नियतमानसः योगी मत्संस्थाम् निर्वाणपरमां शान्तिं अधिगच्छति |
14
नात्यश्नतस्तु योगो S स्ति न चैकांतमनश्नतः |
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन || १६ ||
अर्जुन, अत्यश्नतः तु योगः न अस्ति, न च एकांतं अनश्नतः ( योगः अस्ति ),
न च अतिस्वप्नशीलस्य, न च एव जाग्रतः |
15
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु |
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा || १७ ||
युक्ताहारविहारस्य कर्मसु युक्तचेष्टस्य युक्तस्वप्नावबोधस्य योगः दुःखहा भवति |
16
यदा विनियतं चित्तं आत्मन्येवावतिष्ठति |
निस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा || १८ ||
यदा विनियतं चित्तं आत्मनि एव अवतिष्ठते तदा सर्वकामेभ्यः निस्पुहः युक्तः इति उच्यते |
17
यथा दीपो निवातस्थो नेंगते सोपमा स्मृता |
योगिनो यतचित्तस्य युन्जतो योगमात्मनः || १९ ||
यथा निवातस्थः दीपः न इन्गते सा उपमा आत्मनः योगं युन्जतः यतचित्तस्य योगिनः स्मृता |
18
यत्रोपरमते चित्तं निरुद्धं योगसेवया |
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति || २० ||
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् |
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः || २१ ||
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः |
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते || २२ ||
तं विद्यादुःखसंयोगवियोगं योगसंज्ञितम् |
स निश्चयेन योक्तव्यो योगो S निर्विण्णचेतसा || २३ ||
यत्र योगसेवया निरुद्धं चित्तं उपरमते यत्र च आत्मना आत्मानम् पश्यन् एव आत्मनि तुष्यति,
यत् बुद्धिग्राह्यम् अतींद्रियम् आत्यन्तिकं सुखं तत् वेत्ति, यं च अपरं लाभं लब्ध्वा ततः अधिकं न मन्यते,
यस्मिन् स्थितः गुरुणा अपि दुःखेन न विचाल्यते, सः योगः
तं विद्यादुःखसंयोगवियोगं योगसंज्ञितम् निश्चयेन अनिर्विण्णचेतसा योक्तव्यः |
19संकल्पप्रभावान्कामांस्त्यक्त्वा सर्वानशेषतः |
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः || २४ ||
शनैः शनैरुपरमेत् बुद्ध्या ध्रुतिगृहीतया |
आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् || २५ ||
सर्वान् संकल्पप्रभावान् कामान् अशेषतः त्यक्त्वा, इन्द्रियग्रामं मनसा एव समन्ततः विनियम्य
धृतिगृहीतया बुद्ध्या शनैः शनैः उपरमेत्, मनः आत्मसंस्थं कृत्वा, किंचित् अपि न चिन्तयेत् |
20यतो यतो निश्चरति मनश्चन्चलमस्थिरम् |
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् || २६ ||
यतः यतः चंचलं अस्थिरं मनः निश्चरति, ततः ततः एतत् नियम्य आत्मनि एव वशं नयेत् |
21प्रशांतमनसं ह्येनं योगिनं सुखमुत्तमम् |
उपैति शांतरजसं ब्रम्हभूतमकल्मषम् || २७ ||
हि एनं ब्रम्ह्भूतं अकल्मषम् शांतरजसं प्रशांतमनसं योगिनं उत्तमं सुखं उपैति |
22युन्जन्नेवं सदात्मानं योगी विगतकल्मषः |
सुखेन ब्रम्हसंस्पर्शमत्यन्तं सुखमश्नुते || २८ ||
एवं सदा आत्मानम् युन्जन् विगतकल्मषः योगी अत्यन्तं ब्रम्हसंस्पर्शं सुखं सुखेन अश्नुते |
23सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि |
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः || २९ ||
सर्वत्र समदर्शनः योगयुक्तात्मा आत्मानं सर्वभूतस्थं सर्वभूतानि च आत्मनि ईक्षते |
24यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति |
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति || ३० ||
यः मां सर्वत्र पश्यति सर्वं च मयि पश्यत, तस्य अहम् न प्रणश्यामि, सः च मे न प्रणश्यति |
25सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः |
सर्वथा वर्तमानो S पि स योगी मयि वर्तते || ३१ ||
एकत्वं आस्थितः यः सर्वभूतस्थितं मां भजति, सः योगी सर्वथा वर्तमानः अपि मयि वर्तते |
26आत्मौपम्येन सर्वत्र समं पश्यति यो S र्जुन |
सुखं वा यदि वा दुःखं स योगी परमो मतः || ३२ ||
अर्जुन, सुखं वा यदि वा दुःखं, यः आत्मौपम्येन सर्वत्र समं पश्यति,सः योगी परमः मतः |
27
अर्जुन उवाच
यो S यं योगस्त्वया प्रोक्तः साम्येन मधुसूदन |
एतस्याहं न पश्यामि चन्चलत्वात्स्थितिम् स्थिराम् || ३३ ||
अर्जुनः उवाच, "मधुसूदन, यः अयं योगः त्वया साम्येन प्रोक्तः,
एतस्य अहं चन्चलत्वात् स्थिराम् स्थितिम् न पश्यामि |
28चंचलं हि मनः कृष्ण प्रमाथि बलवद्द्रुढम् |
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् || ३४ ||
कृष्ण, मनः चंचलं प्रमाथि दृढं बलवत् हि | तस्य निग्रहं अहं वायोः इव सुदुष्करम् मन्ये |
29श्रीभगवानुवाच |
असंशयं महाबाहो मनो दुर्निग्रहं चलम् |
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते || ३५ ||
श्रीभगवान् उवाच, "महाबाहो, असंशयं (यत्) मनः दुर्निग्रहं चलम् |
कौन्तेय, (तत्) तु अभ्यासेन वैराग्येण च गृह्यते |
30असंयतात्मना योगो दुष्प्राप इति मे मतिः |
वश्यात्मना तु यतता शक्यो S वाप्तुमुपायतः || ३६ ||
योगः असंयतात्मना दुष्प्रापः वश्यात्मना तु उपायतः यतता अवाप्तुं शक्यः इति मे मतिः |
31अर्जुन उवाच
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः |
अप्राप्य योगसंसिद्धिम् कां गतिम् कृष्ण गच्छति || ३७ ||
अर्जुनः उवाच, " कृष्ण, श्रद्धया उपेतः, (अपि तु) अयतिः योगाच्चलितमानसः
योगसंसिद्धिम् अप्राप्य कां गतिम् गच्छति ?
32
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति |
अप्रतिष्ठो महाबाहो विमूढो ब्रम्हण: पथि || ३८ ||
महाबाहो, कच्चित् ब्रम्हण: पथि विमूढः अप्रतिष्ठः उभयविभ्रष्ट: छिन्नाभ्रम् इव नश्यति न ?
33एतन्मे संशयं कृष्ण छेत्तुम् अर्हस्यशेषतः |
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते || ३९ ||
कृष्ण, एतत् मे संशयं अशेषतः छेत्तुम् अर्हसि | अस्य संशयस्य छेत्ता त्वदन्यः न हि उपपद्यते |
34
श्रीभगवानुवाच |
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते |
न हि कल्याणकृत्कश्चिद्दुर्गतिम् तात गच्छति || ४० ||
पार्थ, न एव इह न अमुत्र तस्य विनाशः विद्यते | तात, कल्याणकृत् कश्चित् दुर्गतिम् न गच्छति हि |
35प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः |
शुचीनां श्रीमतां गेहे योगभ्रष्टो S भिजायते || ४१ ||
योगभ्रष्टः पुण्यकृतां लोकान् प्राप्य शाश्वतीः समाः उषित्वा शुचीनां श्रीमतां गेहे अभिजायते |
36अथवा योगिनामेव कुले भवति धीमताम् |
एतद्धि दुर्लभतरं लोके जन्म यदीदृषम् || ४२ ||
अथवा धीमतां योगिनां एव कुले भवति | यदि ईदृशं जन्म, एतत् लोके दुर्लभतरं हि |
37तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् |
यतते च ततो भूयः सन्सिद्धौ कुरुनन्दन || ४३ ||
कुरुनन्दन, तत्र तं पौर्वदेहिकम् बुद्धिसंयोगं लभते | ततः च भूयः सन्सिद्धौ यतते |
38पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशो S पि सः |
जिज्ञासुरपि योगस्य शब्दब्रम्हातिवर्तते || ४४ ||
तेन पूर्वाभ्यासेन अवशः अपि सः ह्रियते एव | योगस्य जिज्ञासुः अपि शब्दब्रम्ह अतिवर्तते |
39प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः |
अनेकजन्मसन्सिद्धस्ततो याति पराम् गतिम् || ४५ ||
प्रयत्नात् यतमानः संशुद्धकिल्बिषः अनेकजन्मसंसिद्धः योगी ततः पराम् गतिम् याति |
40तपस्विभ्यो ऽ धिको योगी ज्ञानिभ्यो ऽ पि मतो ऽ धिकः |
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन || ४६ ||
योगी तपस्विभ्यः अधिकः ज्ञानिभ्यः अपि अधिकः मतः,
कर्मिभ्यः च योगी अधिकः, तस्मात्, अर्जुन, योगी भव |
41योगिनामपि सर्वेषामद्गतेनान्तरात्मना |
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः || ४७ ||
सर्वेषां योगिनां अपि यः श्रद्धावान् मद्गतेन अन्तरात्मना मां भजते, सः मे युक्ततमः मतः |

ॐ तत्सत् |
इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रम्हविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे
आत्मसंयमयोगो नाम षष्ठो ऽ ध्यायः |

No comments:

Post a Comment