ॐ श्री परमात्मने नमः| अथ तृतीयो S ध्यायः | कर्मयोगो नाम |
1 | अर्जुन उवाच ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन | तत्किं कर्मणि घोरे मां नियोजयसि केशव || १ || | अर्जुनः उवाच, "जनार्दन, चेत् ते मता बुद्धिः कर्मणः ज्यायसी ( अस्ति ), तत् केशव, मां घोरे कर्मणि किं नियोजयसि ? |
2 | व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे | तदेकं वद निश्चित्य येन श्रेयो S हमाप्नुयाम् || २ || | व्यामिश्रेण वाक्येन मे बुद्धिं मोहयसि इव | येन अहम् श्रेयः आप्नुयाम् तत् एकं निश्चित्य वद | |
3 | श्री भगवान उवाच लोके S स्मिन द्विविधा निष्ठा पुरा प्रोक्ता मयानघ | ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् || ३ || | श्रीभगवान् उवाच, "अनघ, अस्मिन् लोके मया पुरा द्विविधा निष्ठा प्रोक्ता - ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् | |
4 | न कर्मणामनाराम्भात् नैष्कर्म्यं पुरुषोऽश्नुते | न च संन्यसनादेव सिद्धिम समधिगच्छति || ४ || | कर्मणाम् अनारम्भात् पुरुषः नैष्कर्म्यं न अश्नुते | न च संन्यसनात् एव सिद्धिं समधिगच्छति | |
5 | न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् | कार्यते ह्यवशः कर्म सर्वः प्रक्रुतिजैर्गुणै: || ५ || | कश्चित् जातु क्षणं अपि अकर्मकृत् न तिष्ठति हि | सर्वः प्रक्रुतिजै: गुणै: अवशः हि | कर्म (तु) कार्यते एव | यह पाँचवा श्लोक ठीक अन्वय बनानेके लिए बहुतही आव्हानात्मक है | 'प्रक्रुतिजै: गुणै: कर्म कार्यते' यह वाक्यांश कर्मणि प्रयोगमें है | कर्तरीमें इसका रूप 'प्रक्रुतिजा: गुणाः कर्म कुर्वन्ति' यह होगा | लेकिन 'सर्वः' शब्द पुल्लिंगी प्रथमा विभक्तीका है | दूसरा कोई भी शब्द पुल्लिंगी नहीं है | इसलिए वह अन्य किसीभी शब्दों के साथ मेल नहीं खाता | कुल मिलाकर व्याकरण दृष्टीसे समाधानकारक अन्वय नहीं बनता | |
6 | कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् | इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते || ६ || | यः विमूढात्मा कर्मेन्द्रियाणि संयम्य मनसा इन्द्रियार्थान् स्मरन् आस्ते सः मिथ्याचारः उच्यते | |
7 | यस्त्विन्द्रियाणि मनसा नियम्यारभते S र्जुन | कर्मेन्द्रियै: कर्मयोगमसक्तः स विशिष्यते || ७ || | अर्जुन, यः तु इन्द्रियाणि मनसा नियम्य असक्तः कर्मेन्द्रियै: कर्मयोगं आरभते सः विशिष्यते | |
8 | नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मण: | शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मण: || ८ || | त्वं नियतं कर्म कुरु | अकर्मण: कर्म ज्यायः हि | हि अकर्मण: ते शरीरयात्रा अपि न प्रसिद्ध्येत् | |
9 | यज्ञार्थात्कर्मणो S न्यत्र लोको S यं कर्मबन्धनः | तदर्थं कर्म कौन्तेय मुक्तसन्ग: समाचर || ९ || | अन्वय १ - यज्ञार्थात्कर्मण: (लोकः) अन्यत्र, अयं लोकः कर्मबन्धनः | तदर्थं कौन्तेय मुक्तसन्ग: कर्म समाचर | अन्वय २ - अन्यत्र यज्ञार्थात् कर्मणः अयं लोकः कर्मबन्धनः | तदर्थं कौन्तेय मुक्तसन्ग: कर्म समाचर | संधिविग्रह अलग तरहसे करनेसे या अन्वय भी अलग तरहसे करनेसे भावार्थमे काफी फरक आता है | अलग अलग लोग गीताका अलग अलग अर्थ पेश करते हैं इसका यह एक महत्त्वपूर्ण कारण है | |
10 | सहयज्ञा: प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः | अनेन प्रसविश्यध्वं एष वोऽस्त्विष्टकामधुक् || १० || | सहयज्ञा: प्रजाः सृष्ट्वा प्रजापतिः पुरा उवाच, "अनेन प्रसविश्यध्वं | एषः वः इष्टकामधुक् अस्तु |" |
11 | देवान्भावयतानेन ते देवा भावयन्तु वः | परस्परं भावयन्तः श्रेयः परमवाप्स्यथ || ११ || | अनेन देवाः भावयत, ते देवाः वः भावयन्तु, (एवं) परस्परं भावयन्तः परं श्रेयः अवाप्स्यथ | |
12 | इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः | तैर्दत्तानप्रदायैभ्यो यो भुंक्ते स्तेन एव सः || १२ || | यज्ञभाविताः देवाः वः इष्टान् भोगान् हि दास्यन्ते | तैः दत्तान् (भोगान्) यः एभ्यः अप्रदाय भुंक्ते सः स्तेनः एव | |
13 | यज्ञशिष्टाशिनः संतो मुच्यन्ते सर्वकिल्बिषै: | भुंजते ते त्वघं पापा ये पचन्त्यात्मकारणात् || १३ || | यज्ञशिष्टाशिनः सन्तः सर्वकिल्बिषै: मुच्यन्ते | ये आत्मकारणात् पचन्ति, ते तु अघं पापाः भुंजते | |
14 | अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भव: | यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः || १४ || | भूतानि अन्नात् भवन्ति, पर्जन्यात् अन्नसंभवः (भवति) | यज्ञात् पर्जन्यः भवति, यज्ञः (तु) कर्मसमुद्भवः (भवति) | |
15 | कर्म ब्रम्होद्भवं विद्धि ब्रम्हाक्षरसमुद्भवं | तस्मात्सर्वगतं ब्रम्ह नित्यं यज्ञे प्रतिष्ठितं || १५ || | कर्म ब्रम्होद्भवं विद्धि, ब्रम्ह अक्षरसमुद्भवम् | तस्मात् सर्वगतं ब्रम्ह नित्यं यज्ञे प्रतिष्ठितम् | |
16 | एवं प्रवर्तितं चक्रं नानुवर्तयातीह यः | अघायुरिन्द्रियारामो मोघं पार्थ स जीवति || १६ || | पार्थ, यः एवं प्रवर्तितं चक्रं इह न अनुवर्तति, सः अघायुः इन्द्रियारामः मोघं जीवति | |
17 | यस्त्वात्मरतिरेव स्यात् आत्मत्रुप्तश्च मानवः | आत्मन्येव च संतुष्टस्तस्य कार्यम् न विद्यते || १७ || | यः तु मानवः आत्मतृप्तः एव आत्मरतिः आत्मनि एव संतुष्टः च स्यात्, तस्य कार्यम् न विद्यते | |
18 | नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन | न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः || १८ || | इह तस्य कृतेन कश्चन: अर्थः न, न अकृतेन (कश्चन: अर्थः) | अस्य च सर्वभूतेषु कश्चित् अर्थव्यपाश्रयः न | |
19 | तस्मादसक्तः सततं कार्यम् कर्म समाचर | असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः || १९ || | तस्मात् सततं कार्यम् कर्म असक्तः समाचर | असक्तः कर्म आचरन् पूरुषः हि परं आप्नोति | |
20 | कर्मणैव हि संसिद्धिमास्थिता जनकादयः | लोकसंग्रहमेवापि सम्पश्यन्कर्तुमर्हसि || २० || | जनकादयः कर्मणा एव संसिद्धिम् आस्थिताः | सम्पश्यन् (त्वं) लोकसन्ग्रहम् अपि कर्तुम् अर्हसि एव | |
21 | यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः | स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते || २१ || | श्रेष्ठः यद् यद् आचरति तद् तद् एव इतरः जनः | सः यत् प्रमाणं कुरुते, लोकः तद् अनुवर्तते | |
22 | न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन | नानवाप्तमवाप्तव्यम् वर्त एव च कर्मणि || २२ || | पार्थ, मे त्रिषु लोकेषु किंचन कर्तव्यं न अस्ति | न (किंचन) अनवाप्तं, (न किंचन) अवाप्तव्यम् (अस्ति) | कर्मणि च वर्ते एव | |
23 | यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रित: | मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः || २३ || | पार्थ, यदि अहम् जातु कर्मणि अतन्द्रितः न वर्तेयं, सर्वशः मनुष्याः मम वर्त्म अनुवर्तन्ते | |
24 | उत्सीदेयुरिमे लोका न कुर्याम् कर्म चेदहम् | संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः || २४ || | चेद् अहम् कर्म न कुर्याम्, इमे लोकाः उत्सीदेयुः, (अहम्) संकरस्य कर्ता स्याम्, इमाः प्रजाः उपहन्याम् च | |
25 | सक्ताः कर्मण्यविद्वान्सो यथा कुर्वन्ति भारत | कुर्याद्विद्वान्स्तथासक्तस्चिकिर्षुर्लोकसंग्रहम || २५ || | भारत, कर्मणि सक्ताः अविद्वांसः यथा कुर्वन्ति, तथा असक्तः लोकसंग्रहम् चिकिर्षु: विद्वान् कुर्यात् | |
26 | न बुद्धिभेदं जनयेदज्ञानाम् कर्मसंगिनाम् | जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् || २६ || | अज्ञानाम् कर्मसंगिनाम् बुद्धिभेदं न जनयेत् | युक्तः समाचरन् विद्वान् सर्वकर्माणि जोषयेत् | |
27 | प्रकृतेः क्रियमाणानि गुणै: कर्माणि सर्वशः | अहंकारविमूढात्मा कर्ताहमिति मन्यते || २७ || | सर्वशः कर्माणि प्रकृतेः गुणै: क्रियमाणानि | अहंकारविमूढात्मा ' अहम् कर्ता ' इति मन्यते | |
28 | तत्त्ववित्तु महाबाहो गुणकर्मविभागयो: | गुणा गुणेषु वर्तन्ते इति मत्वा न सज्जते || २८ || | महाबाहो, गुणकर्मविभागयो: तत्त्ववित् तु ' गुणाः गुणेषु वर्तन्ते ' इति मत्वा न सज्जते | |
29 | प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु | तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् || २९ || | प्रकृतेः गुणसम्मूढाः गुणकर्मसु सज्जन्ते | तान् अकृत्स्नविदः मन्दान् कृत्स्नवित् न विचालयेत् | |
30 | मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा | निराशीर्निर्ममो भूत्वा युद्ध्यस्व विगतज्वरः || ३० || | अध्यात्मचेतसा सर्वाणि कर्माणि मयि संन्यस्य निराशीः निर्ममः भूत्वा विगतज्वरः युद्ध्यस्व | |
31 | ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः | श्रद्धावंतो S नसूयन्तो मुच्यन्ते ते S पि कर्मभिः || ३१ || | ये मानवाः मे इदं मतं नित्यं अनुतिष्ठन्ति, ते श्रद्धावन्तः अनसूयन्तः कर्मभिः अपि मुच्यन्ते | |
32 | ये त्वेतद्भ्यसूयन्तो नानुतिष्ठन्ति मे मतम् | सर्वज्ञानविमूढान्स्तान्विद्धि नष्टानचेतस: || ३२ || | ये तु अभ्यसूयंत: मे एतद् मतम् न अनुतिष्ठन्ति, तान् अचेतसः सर्वज्ञानविमूढान् नष्टान् विद्धि | |
33 | सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि | प्रकृतिम् यान्ति भूतानि निग्रहः किं करिष्यति || ३३ || | ज्ञानवान् अपि स्वस्याः प्रकृतेः सदृशं चेष्टते | भूतानि प्रकृतिम् (एव) यान्ति | निग्रहः किं करिष्यति | |
34 | इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ | तयोर्न वशमागच्छेत् तौ ह्यस्य परिपन्थिनौ || ३४ || | इन्द्रियस्य इन्द्रियस्य अर्थे रागद्वेषौ व्यवस्थितौ | तयोः वशं न आगच्छेत् | तौ अस्य परिपन्थिनौ हि | |
35 | श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् | स्वधर्मे निधनं श्रेयः परधर्मो भयावहः || ३५ || | परधर्मात् स्वनुष्ठितात् विगुणः (अपि) स्वधर्मः श्रेयः | स्वधर्मे निधनं श्रेयः | परधर्मः (तु) भयावहः | |
36 | अर्जुन उवाच | अथ केन प्रयुक्तो S यम् पापं चरति पूरुषः | अनिच्छन् अपि वार्ष्णेय बलादिव नियोजितः || ३६ || | अर्जुनः उवाच, "वार्ष्णेय, अथ केन प्रयुक्तः अयं पूरुषः अनिच्छन् अपि बलात् नियोजितः इव पापं चरति | |
37 | श्रीभगवान् उवाच | काम एष क्रोध एष रजोगुणसमुद्भवः | महाशनो महापाप्मा विध्येनं इह वैरिणम् || ३७ || | श्रीभगवान् उवाच, "रजोगुणसमुद्भवः एषः कामः एषः क्रोधः महाशनः महापाप्मा | इह एनं वैरिणम् विद्धि | |
38 | धूमेनाव्रियते वन्हिर्यथादर्शो मलेन च | यथोल्बेनावृतो गर्भस्तथा तेनेदामावृतम् || ३८ || | यथा वन्हिः धूमेन, आदर्शः च मलेन आव्रियते, यथा उल्बेन गर्भः आवृतः तथा तेन इदं आवृतम् | |
39 | आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा | कामरूपेण कौन्तेय दुष्पूरेणानलेन च || ३९ || | कौन्तेय, ज्ञानिनः नित्यवैरिणा एतेन कामरूपेण दुष्पूरेण अनलेन च ज्ञानम् आवृतम् | |
40 | इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते | एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् || ४० || | इन्द्रियाणि मनः बुद्धिः अस्य अधिष्ठानं उच्यते | एषः ज्ञानम् आवृत्य एतैः देहिनं विमोहयति | |
41 | तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ | पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् || ४१ || | भरतर्षभ, तस्मात् त्वं आदौ इन्द्रियाणि नियम्य एनं ज्ञानविज्ञाननाशनम् पाप्मानं प्रजहि हि | |
42 | इन्द्रियाणि पराण्याहु: इन्द्रियेभ्यः परं मनः | मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः || ४२ || | (विद्वंतः) आहुः यत्, इन्द्रियाणि पराणि, इन्द्रियेभ्यः मनः परं, बुद्धिः तु मनसः परा, सः तु बुद्धेः परतः | |
43 | एवं बुद्धेः परं बुद्ध्वा सन्स्तभ्यात्मानमात्मना | जहिः शत्रुं महाबाहो कामरूपं दुरासदम् || ४३ || | महाबाहो, एवं बुद्धेः परं बुद्ध्वा, आत्मानम् आत्मना संस्तभ्य दुरासदम् कामरूपं शत्रुं जहि | |
ॐ तत्सत् |
इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रम्हविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे
कर्मयोगो नाम तृतीयो S ध्यायः |
कर्मयोगो नाम तृतीयो S ध्यायः |
No comments:
Post a Comment