अथ षोडशोऽध्यायः | दैवासुरसम्पद्विभागयोगः |
श्रीभगवानुवाच |
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः |
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ||१६-१||
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् |
दया भूतेष्वलोलुप्त्वं मार्दवं हीरचापलम् ||१६-२||
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता |
भवन्ति सम्पदं दैवीमभिजातस्य भारत ||१६-३||
अन्वयः - भारत, दैवीं संपदं अभिजातस्य भवन्ति (१) अभयं (२) सत्त्वसंशुद्धिः (३) ज्ञानयोगव्यवस्थितिः (४) दानं (५) दमः (६) यज्ञः (७) स्वाध्यायः (८) तपः (९) आर्जवं (१०) अहिंसा (११) सत्यं (१२) अक्रोधः (१३) त्यागः (१४) शान्तिः (१५) अपैशुनं (१६) भूतेषु दया (१७) अलोलुप्त्वं (१८) मार्दवं (१९) हीरचापलं (२०) तेजः (२१) क्षमा (२२) धृतिः (२३) शौचं (२४) अद्रोहः (२५) नातिमानिता ।
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च |
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ||१६-४||
अन्वयः - पार्थ, आसुरीं संपदं अभिजातस्य (भवन्ति) (१) दम्भः (२) दर्पः (३) अभिमानः (४) क्रोधः (५) पारुष्यम् (६) अज्ञानम् च एव ।
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता |
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ||१६-५||
अन्वयः - दैवी सम्पद् विमोक्षाय मता आसुरी निबन्धाय (मता) । पाण्डव, (त्वं) दैवीं सम्पदं अभिजातः असि, मा शुचः ।
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च |
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ||१६-६||
अन्वयः - पार्थ, अस्मिन् लोके दैवः आसुरः च द्वौ एव भूतसर्गौ । दैवः विस्तरशः प्रोक्तः (अस्ति) । मे आसुरं शृणु ।
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः |
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ||१६-७||
अन्वयः - आसुराः जनाः प्रवृत्तिं च निवृत्तिं च न विदुः । तेषु न शौचं न च आचारः न सत्यं अपि विद्यते ।
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् |
अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ||१६-८||
अन्वयः - ते जगत् असत्यं अप्रतिष्ठं अनीश्वरं अपरस्परसंभूतं, किं अन्यत्, कामहैतुकं आहुः ।
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः |
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ||१६-९||
अन्वयः - एतां दृष्टिं अवष्टभ्य नष्टात्मानः अल्पबुद्धयः उग्रकर्माणः अहिताः जगतः क्षयाय प्रभवन्ति ।
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः |
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ||१६-१०||
अन्वयः - दुष्पूरं कामं आश्रित्य दम्भमानमदान्विताः मोहात् असद्ग्राहान् गृहीत्वा अशुचिव्रताः प्रवर्तन्ते ।
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः |
कामोपभोगपरमा एतावदिति निश्चिताः ||१६-११||
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः |
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ||१६-१२||
अन्वयः - प्रलयान्तां अपरिमेयां चिन्तां उपाश्रिताः कामोपभोगपरमाः एतावद् इति निश्चिताः आशापाशशतैः बद्धाः कामक्रोधपरायणाः कामभोगार्थं अन्यायेन अर्थसञ्चयान् ईहन्ते ।
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् |
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ||१६-१३||
असौ मया हतः शत्रुर्हनिष्ये चापरानपि |
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ||१६-१४||
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया |
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ||१६-१५||
अनेकचित्तविभ्रान्ता मोहजालसमावृताः |
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ||१६-१६||
अन्वयः - "अद्य मया इदं लब्धं, इमं मनोरथं प्राप्स्ये, इदं मे अस्ति, इदं धनं अपि मे पुनः भविष्यति, असौ शत्रुः च मया हतः, अपरान् अपि हनिष्ये, अहं ईश्वरः, अहं भोगी, अहं सिद्धः, बलवान्, सुखी, आढ्यः, अभिजनवान् अस्मि । मया सदृशः कः अन्यः अस्ति? यक्ष्ये, मोदिष्य दास्यामि ।" इति अज्ञानविमोहिताः अनेकचित्तविभ्रान्ताः मोहजालसमावृताः कामभोगेषु प्रसक्ताः अशुचौ नरके पतन्ति ।
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः |
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ||१६-१७||
अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः |
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ||१६-१८||
अन्वयः - ते आत्मसंभाविताः स्तब्धाः धनमानमदान्विताः ’अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः’, ’मां आत्मपरदेहेषु प्रद्विषन्तः’ अभ्यसूयकाः दम्भेन अविधिपूर्वकं नामयज्ञैः यजन्ते ।
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् |
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ||१६-१९||
अन्वयः - द्विषतः क्रूरान् "संसारेषु नराधमान्" अजस्रं अशुभान् तान् अहं आसुरीषु योनिषु एव क्षिपामि ।
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि |
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ||१६-२०||
अन्वयः - कौन्तेय, जन्मनि जन्मनि आसुरीं योनिं आपन्नाः मूढाः मां अप्राप्य एव अधमां गतिं यान्ति ।
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः |
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ||१६-२१||
अन्वयः - "कामः क्रोधः तथा लोभः" इदं त्रिविधं आत्मनः नाशनं नरकस्य द्वारम् । तस्मात् एतत् त्रयं (नरः) त्यजेत् ।
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः |
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ||१६-२२||
अन्वयः - कौन्तेय, एतैः त्रिभिः तमोद्वारैः विमुक्तः आत्मनः श्रेयः आचरति । ततः परां गतिं याति ।
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः |
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ||१६-२३||
अन्वयः - यः शास्त्रविधिं उत्सृज्य कामकारतः वर्तते, सः न सिद्धिं न सुखं न परां गतिं अवाप्नोति ।
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ |
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ||१६-२४||
अन्वयः - तस्मात् इह कार्याकार्यव्यवस्थितौ ते शास्त्रं प्रमाणं । (तत्) ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुं अर्हसि ।
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः ||१६||
No comments:
Post a Comment