Thursday, July 8, 2010

दशमोऽध्यायः | विभूतियोगो नाम |

ॐ श्री परमात्मने नमः ।
अथ दशमोSध्यायः ।
श्रीभगवानुवाच ।
भूय एव महाबाहो श्रुणु मे परमं वचः ।
यत्तेSहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १ ॥

अन्वय - श्री भगवान् उवाच, "हे महाबाहो, मे परमं वचः भूय एव श्रुणु, यत् अहं ते प्रीयमाणाय हितकाम्यया वक्ष्यामि ।

न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ २ ॥

अन्वय - मे प्रभवं न सुरगणाः विदुः न महर्षयः । अहं देवानां सर्वशः महर्षीणां च आदिः हि ।

यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ ३ ॥

अन्वय - यः मां अजं अनादिं लोकमहेश्वरं च वेत्ति, सः मर्त्येषु असंमूढः सर्वपापैः प्रमुच्यते ।

बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवोSभावो भयं चाभयमेव च ॥ ४ ॥
अहिंसा समता तुष्टिस्तपो दानं यशोSयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ ५ ॥

अन्वय - बुद्धिः ज्ञानं संमोहः क्षमा सत्यं दमः शमः सुखं दुःखं भवः अभावः भयं अभयं च अहिंसा समता तुष्टिः तपः दानं यशः अयशः (एवं) भूतानां पृथग्विधाः भावाः मत्तः एव भवन्ति ।

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता येषां लोके इमाः प्रजाः ॥ ६ ॥

अन्वय - सप्त महर्षयः तथा चत्वारः मनवः मद्भावाः मानसाः पूर्वे जाताः, येषां लोके इमाः प्रजाः ।

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
सोSविकम्पेन योगेन युज्यते नात्र संशयः ॥ ७ ॥

अन्वय - यः मम एतां विभूतिं योगं च तत्त्वतः वेत्ति सः अविकम्पेन योगेन युज्यते अत्र न संशयः ।

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते |
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ||१०-८||

अन्वय - अहं सर्वस्य प्रभवः सर्वं मत्तः प्रवर्तते इति मत्वा भावसमन्विताः बुधाः मां भजन्ते ।

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् |
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ||१०-९||

अन्वय - मच्चित्ताः मद्गतप्राणाः परस्परं बोधयन्तः कथयन्तः च मां नित्यं तुष्यन्ति च रमन्ति च ।

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् |
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ||१०-१०||

अन्वय - तेषां सततयुक्तानां प्रीतिपूर्वकं भजतां तं बुद्धियोगं ददामि येन ते मां उपयान्ति ।

तेषामेवानुकम्पार्थमहमज्ञानजं तमः |
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ||१०-११||

अन्वय - तेषां एव अनुकम्पार्थं आत्मभावस्थः अहं भास्वता ज्ञानदीपेन अज्ञानजं तमः नाशयामि ।

अर्जुन उवाच |
परं ब्रह्म परं धाम पवित्रं परमं भवान् |
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ||१०-१२||
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा |
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ||१०-१३||

अन्वय - अर्जुनः उवाच, "भवान् परं ब्रह्म परं धाम पवित्रं परमं (असि) । त्वां सर्वे ऋषयः देवर्षिः नारदः असितः देवलः व्यासः शाश्वतं पुरुषं दिव्यं आदिदेवं अजं विभुं आहुः । स्वयं च मे ब्रवीषि एव ।

सर्वमेतदृतं मन्ये यन्मां वदसि केशव |
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ||१०-१४||

अन्वय - हे केशव, (अहं) मन्ये, यत् सर्वं मां वदसि एतदृतं हि ते व्यक्तिं न देवाः न दानवाः विदुः भगवन् ।

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम |
भूतभावन भूतेश देवदेव जगत्पते ||१०-१५||

अन्वय - हे भूतभावन भूतेश देवदेव जगत्पते पुरुषोत्तम, त्वं स्वयं एव आत्मना आत्मानं वेत्थ ।

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः |
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ||१०-१६||

अन्वय - याभिः विभूतिभिः इमां लोकान् व्याप्य तिष्ठसि हि (ताः) दिव्याः आत्मविभूतयः अशेषेण वक्तुं अर्हसि ।

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् |
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ||१०-१७||

अन्वय - योगिन् भगवन्, त्वां सदा परिचिन्तयन् अहं कथं विद्याम् ? केषु केषु च भावेषु चिन्त्यः असि ?

विस्तरेणात्मनो योगं विभूतिं च जनार्दन |
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ||१०-१८||

अन्वय - जनार्दन, आत्मनः योगं विभूतिं च भूयः विस्तरेण कथय । अमृतं शृण्वत: मे तृप्तिः हि न अस्ति ।

श्रीभगवानुवाच |
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः |
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ||१०-१९||

अन्वय - श्रीभगवान् उवाच, " हन्त, कुरुश्रेष्ठ, दिव्याः आत्मविभूतयः ते प्राधान्यतः कथयिष्यामि । मे विस्तरस्य अन्तः न अस्ति ।

अहमात्मा गुडाकेश सर्वभूताशयस्थितः |
अहमादिश्च मध्यं च भूतानामन्त एव च ||१०-२०||

अन्वय - गुडाकेश, अहं सर्वभूताशयस्थितः आत्मा । भूतानां आदिः च मध्यं च अन्तः च अहं एव ।

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् |
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ||१०-२१||

अन्वय - अहं आदित्यानां विष्णु: ज्योतिषां अंशुमान् रविः मरुतां मरीचिः अस्मि नक्षत्राणां शशी (अस्मि) ।

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः |
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ||१०-२२||

अन्वय - वेदानां सामवेदः अस्मि । देवानां वासवः अस्मि । इन्द्रियाणां च मनः अस्मि । भूतानां चेतना अस्मि ।

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् |
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ||१०-२३||

अन्वय - रुद्राणां शंकरः यक्षरक्षसां वित्तेशः च अस्मि । वसूनां पावकः शिखरिणां च अहं मेरु: अस्मि ।

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् |
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ||१०-२४||

अन्वय - पार्थ, मां पुरोधसां मुख्यं बृहस्पतिं च विद्धि । सेनानीनां स्कन्दः सरसां सागरः अहं अस्मि ।

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् |
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ||१०-२५||

अन्वय - अहं महर्षीणां भृगुः गिरां एकं अक्षरं अस्मि । यज्ञानां जपयज्ञः स्थावराणां हिमालयः अस्मि ।

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः |
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ||१०-२६||

अन्वय - सर्ववृक्षाणां अश्वत्थः देवर्षीणां च नारदः गन्धर्वाणां चित्ररथः सिद्धानां कपिलः मुनिः (अस्मि) ।

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् |
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ||१०-२७||

अन्वय - मां अश्वानां अमृतोद्भवं उच्चैःश्रवसं गजेन्द्राणां ऐरावतं विद्धि नराणां च नराधिपं (विद्धि) ।

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् |
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ||१०-२८||

अन्वय - अहं आयुधानां वज्रः धेनूनां कामधुक् अस्मि । प्रजनः क्न्दर्पः अस्मि सर्पाणां च वासुकिः अस्मि ।

अनन्तश्चास्मि नागानां वरुणो यादसामहम् |
पितॄणामर्यमा चास्मि यमः संयमतामहम् ||१०-२९||

अन्वय - अहं नागानां अनन्तः यादसां वरुणः च अस्मि । पितॄणां अर्यमा संयमतां यमः च अहं अस्मि ।

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् |
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ||१०-३०||

अन्वय - अहं दैत्यानां प्रल्हादः कलयतां च कालः अस्मि । मृगाणां च अहं मृगेन्द्रः पक्षिणां वैनतेयः च (अस्मि) ।

पवनः पवतामस्मि रामः शस्त्रभृतामहम् |
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ||१०-३१||

अन्वय - अहं पवतां पवनः शस्त्रभृतां रामः अस्मि । झषाणां च मकरः अस्मि । स्रोतसां जान्हवी अस्मि ।

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन |
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ||१०-३२||

अन्वय - हे अर्जुन, सर्गाणां आदिः अन्तः च मध्यं च अहं एव । अहं विद्यानां अध्यात्मविद्या प्रवदतां वादः (अस्मि)

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च |
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ||१०-३३||

अन्वय - अक्षराणां अकारः सामासिकस्य च द्वन्द्वः अस्मि । अहं अक्षयः कालः, विश्वतोमुखः धाता अहं एव ।

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् |
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ||१०-३४||

अन्वय - सर्वहरः मृत्युः च भविष्यतां उद्भव: अहम् । नारीणां कीर्तिः श्रीः वाक् स्मृतिः धृतिः क्षमा च (अस्मि) ।

बृहत्साम तथा साम्नां गायत्री छन्दसामहम् |
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ||१०-३५||

अन्वय - अहं साम्नां बृहत्साम तथा छन्दसां गायत्री (अस्मि) । अहं मासानां मार्गशीर्षः ऋतूनां कुसुमाकरः (च अस्मि) ।

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् |
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ||१०-३६||

अन्वय - अहं छलयतां द्यूतं तेजस्विनां तेजः (च) अस्मि । जयः अस्मि । व्यवसायः अस्मि । सत्त्ववतां सत्त्वं अहं (अस्मि)

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः |
मुनीनामप्यहं व्यासः कवीनामुशना कविः ||१०-३७||

अन्वय - (अहं) वृष्णीनां वासुदेवः पाण्डवानां धनञ्जयः अस्मि । मुनीनां अपि अहं व्यासः कवीनां उशना कविः (अस्मि) ।

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् |
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ||१०-३८||

अन्वय - (अहं) दमयतां दण्डः अस्मि । जिगीषितां नीतिः अस्मि । गुह्यानां च मौनं एव ज्ञानवतां ज्ञानं अहं (अस्मि) ।

यच्चापि सर्वभूतानां बीजं तदहमर्जुन |
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ||१०-३९||

अन्वय - अर्जुन, सर्वभूतानां यत् च बीजं तत् अपि अहम् (अस्मि) । चराचरं भूतं यत् विना न स्यात् तत् मया अस्ति ।

नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप |
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ||१०-४०||

अन्वय - परंतप, मम दिव्यानां विभूतीनां अन्तः न अस्ति । एषः विभूतेः विस्तरः तु मया उद्देशतः प्रोक्तः ।

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा |
तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ||१०-४१||

अन्वय - यत् यत् एव सत्त्वं विभूतिमत् श्रीमत् ऊर्जितं वा तत् तत् मम तेजोंऽशसम्भवम् एव त्वं अवगच्छ ।

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन |
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ||१०-४२||

अन्वय - अथवा, अर्जुन, एतेन तव बहुना ज्ञातेन किम् ? इदं कृत्स्नं जगत् एकांशेन विष्टभ्य अहं स्थितः अस्मि ।

ॐ तत्सत् ।
इति श्रीमद्भगवद्गीतासु उपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
विभूतियोगो नाम दशमोऽध्यायः ||१०||

नवमो S ध्यायः | राजविद्याराजगुह्ययोगो नाम ।

ॐ श्रीपरमात्मने नमः |
अथ नवमो S ध्यायः |

श्रीभगवानुवाच

इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेSशुभात् ॥ १ ॥

अन्वय - हे अनसूयवे, इदं तु ते गुह्यतमं विज्ञानसहितं ज्ञानं प्रवक्ष्यामि, यत् ज्ञात्वा अशुभात् मोक्ष्यसे ।

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥

अन्वय - इदं राजविद्या, (इदं) पवित्रं, उत्तमं, प्रत्यक्षावगमं, धर्म्यं, कर्तुं सुसुखं, अव्ययं (अस्ति) ।

अश्रद्धधानाः पुरुषा धर्मस्यास्य परंतप ।
अप्राप्य मां निवर्तन्ते म्रुत्युसंसारवर्त्मनि ॥ ३ ॥

अन्वय - हे परंतप, अस्य धर्मस्य अश्रद्धधानाः पुरुषाः मां अप्राप्य म्रुत्युसंसारवर्त्मनि निवर्तन्ते ।

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ ४ ॥

अन्वय - इदं सर्वं मया जगदव्यक्तमूर्तिना ततम् । सर्वभूतानि मत्स्थानि, न च अहं तेषु अवस्थितः ।

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ ५ ॥

अन्वय - न च भूतानि मत्स्थानि, मे ऐश्वरं योगं पश्य । मम भूतभावनः आत्मा च भूतभ्रुत् न भूतस्थो (एवं पश्य) ।

यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६ ॥

अन्वय - यथा महान् आकाशस्थितः वायुः नित्यं सर्वत्रगः, तथा सर्वाणि भूतानि मत्स्थानि इति उपधारय ।

सर्वभूतानि कौन्तेय प्रक्रुतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विस्रुजाम्यहम् ॥ ७ ॥

अन्वय - हे कौन्तेय, कल्पक्षये सर्वभूतानि मामिकाम् प्रक्रुतिं यान्ति । कल्पादौ अहं तानि पुनः विस्रुजामि ।

प्रक्रुतिं स्वामवष्टभ्य विस्रुजामि पुनःपुनः ।
भूतग्राममिमं क्रुत्स्नमवशं प्रक्रुतेर्वशात् ॥ ८ ॥

अन्वय - इमं क्रुत्स्नं भूतग्रामं प्रक्रुतेः वशात् अवशं अवष्टभ्य स्वां प्रक्रुतिं पुनःपुनः विस्रुजामि ।

न च मां तानि कर्माणि निबध्नन्ति धनन्जय ।
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९ ॥

अन्वय - हे धनन्जय, तानि कर्माणि तेषु कर्मसु असक्तं उदासीनवत् आसीनं मां न निबध्नन्ति च ।

मयाध्यक्षेण प्रक्रुतिः सूयते सचराचरम् ।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ १० ॥

अन्वय - हे कौन्तेय, मया अध्यक्षेण प्रक्रुतिः सचराचरं सूयते । अनेन हेतुना जगत् विपरिवर्तते ।

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ॥

अन्वय - मम भूतमहेश्वरं परं भावं अजानन्तः मूढाः मानुषीं तनुं आश्रितं मां अवजानन्ति ।

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रक्रुतिं मोहिनीं श्रिताः ॥ १२ ॥

अन्वय - मोघाशाः मोघकर्माणः मोघज्ञानाः विचेतसः राक्षसीं आसुरीं मोहिनीं च प्रक्रुतिं श्रिताः (सन्ति) ।

महात्मानस्तु मां पार्थ दैवीं प्रक्रितिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ १३ ॥

अन्वय - पार्थ, दैवीं प्रक्रुतिं आश्रिताः महात्मानः तु मां भूतादिं अव्ययं ज्ञात्वा अनन्यमनसः भजन्ति ।

सततं कीर्तयन्तो मां यतन्तश्च द्रुढव्रताः ।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ १४ ॥

अन्वय - मां सततं कीर्तयन्तः यतन्तः द्रुढव्रताः च नमस्यन्तः च नित्ययुक्ताः मां भक्त्या उपासते ।

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।
एकत्वेन प्रुथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥

अन्वय - एकत्वेन प्रुथक्त्वेन ज्ञानयज्ञेन बहुधा यजन्तः अन्ये अपि मां विश्वतोमुखं उपासते च ।

अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् ।
मन्त्रोSहमहमेवाज्यमहमग्निरहं हुतम् ॥ १६ ॥

अन्वय - अहं क्रतुः, अहं यज्ञः, अहं स्वधा, अहं औषधं, अहं मन्त्रः, अहं एव आज्यं, अहं अग्निः, अहं हुतम् (अस्मि) ।

पिताहमस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रमोन्कार रुक्साम यजुरेव च ॥ १७ ॥

अन्वय - अहं अस्य जगतः पिता, माता, धाता, पितामहः (अस्मि) । (अहं) वेद्यं पवित्रं च ओंकारः रुक् साम यजुः एव (अस्मि) ।

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुह्रुत् ।
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ १८ ॥

अन्वय - (अहं) गतिः, भर्ता, प्रभुः, साक्षी, निवासः, शरणं, सुह्रुत्, प्रभवः, प्रलयः, स्थानं, निधानं, अव्ययं बीजम् (अस्मि) ।

तपाम्यहमहं वर्षं निग्रुण्हाम्युत्स्रुजामि च ।
अम्रुतं चैव म्रुत्युश्च सदसच्चाहमर्जुन ॥ १९ ॥

अन्वय - अहं तपामि, वर्षं निग्रुण्हामि उत्स्रुजामि च । अर्जुन, अहं अम्रुतं च म्रुत्युः च सत् च असत् च ।

त्रैविद्या मां सोमपाः पूतपापा
यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यमासाद्य सुरेन्द्रलोकम्
अश्नन्ति दिव्यान्दिवि देवभोगान् ॥ २० ॥

अन्वय - त्रैविद्याः सोमपाः पूतपापाः मां यज्ञैः इष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यं सुरेन्द्रलोकं आसाद्य दिवि दिव्यान् देवभोगान् अश्नन्ति ।

ते तं भुक्त्वा स्वर्गलोकं विशालं
क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयीधर्ममनुप्रपन्ना
गतागतं कामकामा लभन्ते ॥ २१ ॥

अन्वय - ते तं विशालं स्वर्गलोकं भुक्त्वा क्षीणे पुण्ये मर्त्यलोकं विशन्ति । एवं त्रयीधर्मं अनुप्रपन्नाः कामकामाः गतागतं लभन्ते ।

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ २२ ॥

अन्वय - ये अनन्याः चिन्तयन्तः मां पर्युपासते, तेषां नित्याभियुक्तानां योगक्षेमं अहं वहामि ।

येSप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः ।
तेSपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ २३ ॥

अन्वय - ये श्रद्धयान्विताः भक्ताः अन्यदेवताः अपि यजन्ते, ते अपि, कौन्तेय, अविधिपूर्वकं मां एव यजन्ति ।

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
न तु मां अभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ २४ ॥

अन्वय - सर्वयज्ञानां अहं हि भोक्ता च प्रभुः एव च । (ये) तु मां तत्त्वेन न अभिजानन्ति ते अतः च्यवन्ति ।

यान्ति देवव्रता देवान् पित्रून्यान्ति पित्रुव्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोSपि माम् ॥ २५ ॥

अन्वय - देवव्रता देवान् यान्ति । पित्रुव्रताः पित्रून् यान्ति । भूतेज्याः भूतानि यान्ति मद्याजिनः अपि मां यान्ति ।

पत्रं पुष्पं फ़लं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपह्रुतमश्नामि प्रयतात्मनः ॥ २६ ॥

अन्वय - यः मे भक्त्या पत्रं पुष्पं फ़लं तोयं प्रयच्छति, तत् प्रयतात्मनः भक्त्युपह्रुतं अहं अश्नामि ।

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ २७ ॥

अन्वय - हे कौन्तेय, यत् करोषि, यत् अश्नासि, यत् जुहोषि, यत् ददासि, यत् तपस्यसि, तत् मदर्पणं कुरुष्व ।

शुभाशुभफ़लैरेवं मोक्ष्यसे कर्मबन्धनैः ।
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ २८ ॥

अन्वय - एवं कर्मबन्धनैः शुभाशुभफ़लैः मोक्ष्यसे । संन्यासयोगयुक्तात्मा विमुक्तः मां उपैष्यसि ।

समोSहं सर्वभूतेषु न मे द्वेष्योSस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ २९ ॥

अन्वय - अहं सर्वभूतेषु समः । न मे द्वेष्यः अस्ति न प्रियः । ये तु मां भक्त्या भजन्ति, ते मयि अहं अपि तेषु च ।

अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ३० ॥

अन्वय - अपि सुदुराचारः मां अनन्यभाक् भजते चेत्, सः साधुः एव मन्तव्यः, हि सः सम्यक् व्यवसितः ।

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ ३१ ॥

अन्वय - क्षिप्रं धर्मात्मा भवति, शश्वत् शान्तिं निगच्छति । कौन्तेय, प्रतिजानीहि मे भक्तः न प्रणश्यति ।

मां हि पार्थ व्यपाश्रित्य येSपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेSपि यान्ति परां गतिम् ॥ ३२ ॥

अन्वय - हि पार्थ स्त्रियः वैश्याः शूद्राः तथा पापयोनयः अपि ये स्युः ते अपि मां व्यपाश्रित्य परां गतिं यान्ति ।

किं पुनर्ब्राम्हणाः पुण्या भक्ता राजर्षयस्तथा ।
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ३३ ॥

अन्वय - किं पुनः ब्राम्हणाः पुण्याः भक्ताः तथा राजर्षयः । इमं अनित्यं असुखं लोकं प्राप्य मां भजस्व ।

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ३४ ॥

अन्वय - मन्मना मद्याजी मद्भक्तः भव । मां नमः कुरु । एवं आत्मानं मत्परायणः युक्त्वा मां एव एष्यसि ।

ॐ तत्सत् ।
इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रम्हविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
राजविद्याराजगुह्ययोगो नाम नवमोSध्यायः ।

अष्टमो S ध्यायः | अक्षरब्रम्हयोगो नाम ।

ॐ श्रीपरमात्मने नमः |
अथ अष्टमो S ध्यायः |
अर्जुन उवाच |

किं तद्ब्रम्ह किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तं अधिदैवं किमुच्यते ॥ १ ॥

अन्वय - हे पुरुषोत्तम, तत् ब्रम्ह किं, अध्यात्मं किं, कर्म किं, अधिभूतं च किं प्रोक्तं ? किं उच्यते अधिदैवम् ?

अधियज्ञः कथं कोSत्र देहेSस्मिन् मधुसूदन ।
प्रयाणकाले च कथं ज्ञेयोSसि नियतात्मभिः ॥ २ ॥

अन्वय - हे मधुसूदन, अत्र अस्मिन् देहे कथं कः अधियज्ञः ? प्रयाणकाले च नियतात्मभिः कथं ज्ञेयः असि ?

श्रीभगवानुवाच

अक्षरं ब्रम्ह परमं स्वभावोSध्यात्ममुच्यते ।
भूतभावोद्भवकरो विसर्गः कर्म संज्ञितः ॥ ३ ॥

अन्वय - परमं अक्षरं ब्रम्ह ( उच्यते ) स्वभावः अध्यात्मं उच्यते । भूतभावोद्भवकरः विसर्गः कर्म ( इति ) संज्ञितः ।

अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।
अधियज्ञोSहमेवात्र देहे देहभृतां वर ॥ ४ ॥

अन्वय - हे देहभृतां वर, क्षरः भावः अधिभूतं, पुरुषः च अधिदैवतं ( उच्यते ) । अत्र देहे अहं एव अधियज्ञः ।

अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ ५ ॥

अन्वय - यः च अन्तकाले मां एव स्मरन् कलेवरं मुक्त्वा प्रयाति, सः मद्भावं याति, अत्र संशयः न अस्ति ।

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ६ ॥

अन्वय - हे कौन्तेय, यं यं वा अपि भावं स्मरन् अन्ते कलेवरम् त्यजति, सदा तद्भावभावितः तं तं एव एति ।

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् ॥ ७ ॥

अन्वय - तस्मात् सर्वेषु कालेषु मां अनुस्मर युध्य च । मय्यर्पितमनोबुद्धिः मां एव असंशयं एष्यसि ।

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८ ॥

अन्वय - हे पार्थ, अभ्यासयोगयुक्तेन नान्यगामिना चेतसा अनुचिन्तयन् परमं दिव्यं पुरुषं याति ।

कविं पुराणं अनुशासितारमणोरणीयांसमनुस्मरेद्यः ।
सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥ ९ ॥

प्रयाणकाले मनसाSचलेन भक्त्या युक्तो योगबलेन चैव
भ्रुवोर्मध्ये प्राणमावेक्ष्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ॥ १० ॥

अन्वय - यः
प्रयाणकाले अचलेन मनसा भक्त्या युक्तः योगबलेन च सम्यक् प्राणं भ्रुवोः मध्ये आवेक्ष्य एव
अणोरणीयांसं (अणोः अणीयांसं) सर्वस्य धातारं अनुशासितारं अचिन्त्यरूपं आदित्यवर्णं पुराणं कविं
तमसः परस्तात् अनुस्मरेत्,
सः तं परं दिव्यं पुरुषं उपैति ।

यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः ।
यदिच्छन्तो ब्रम्हचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये ॥ ११ ॥

अन्वय - वेदविदः यत् अक्षरं वदन्ति, यत् वीतरागा: यतयः विशन्ति, यत् इच्छ्न्तः ब्रम्हचर्यं चरन्ति, तत् पदं ते संग्रहेण प्रवक्ष्ये ।

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥ १२ ॥

ओमित्येकाक्षरं ब्रम्ह व्याहरन् मामनुस्मरन् ।
य: प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ १३ ॥

अन्वय - सर्वद्वाराणि संयम्य, मनः हृदि निरुध्य च, आत्मनः प्राणं मूर्ध्नि आधाय, योगधारणां आस्थितः, "ओम्" इति एकाक्षरं ब्रम्ह व्याहरन्, मां अनुस्मरन् यः देहं त्यजन् प्रयाति, सः परमां गतिं याति ।

अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ १४ ॥

अन्वय - हे पार्थ, यः मां सततं अनन्यचेताः नित्यशः स्मरति, तस्य नित्ययुक्तस्य योगिनः अहं सुलभः ।

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गता: ॥ १५ ॥

अन्वय - मां उपेत्य परमां संसिद्धिं गताः महात्मानः दुःखालयं अशाश्वतं पुनर्जन्म न आप्नुवन्ति ।

आब्रम्हभुवनाल्लोकाः पुनरावर्तिनोSर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ १६ ॥

अन्वय - हे अर्जुन, आब्रम्हभुवनात् लोकाः पुनरावर्तिनः । कौन्तेय, मां उपेत्य तु पुनर्जन्म न विद्यते ।

सहस्रयुगपर्यन्तमहर्यद्ब्रम्हणो विदुः ।
रात्रिं युगसहस्राणां तेSहोरात्रविदो जनाः ॥ १७ ॥

अन्वय - (ये) ब्रम्हणः यत् अहः सहस्रयुगपर्यन्तं (इति) रात्रिं (च) युगसहस्राणां ते जनाः अहोरात्रविदः ।

अव्यक्ताद्व्यक्तयः सर्वा: प्रभवन्त्यहरागमे
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ १८ ॥

अन्वय - अहरागमे सर्वाः व्यक्तयः अव्यक्तात् प्रभवन्ति । रात्र्यागमे तत्र एव अव्यक्तसंज्ञके प्रलीयन्ते ।

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्यागमे अवशः पार्थ प्रभवत्यहरागमे ॥ १९ ॥

अन्वय - हे पार्थ, सः एव हि अयं भूतग्रामः अहरागमे प्रभवति रात्र्यागमे भूत्वा भूत्वा अवशः प्रलीयते ।

परस्तस्मात्तु भावोSन्योSव्यक्तोSव्यक्तात्सनातनः ।
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥

अन्वय - तस्मात् तु परः अन्यः अव्यक्तः अव्यक्तात् सनातनः यः भावः, सः सर्वेषु भूतेषु नश्यत्सु न विनश्यति ।

अव्यक्तोSक्षर इत्युक्तस्त्माहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ २१ ॥

अन्वय - (यं) अव्यक्तः अक्षरः इति उक्तः तं परमां गतिं आहुः । यं प्राप्य न निवर्तन्ते तत् मम परमं धाम ।

पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यान्तस्थानि भूतानि येन सर्वमिदं ततम् ॥ २२ ॥

अन्वय - हे पार्थ, भूतानि यस्य अन्तस्थानि, येन इदं सर्वं ततं, सः अनन्यया भक्त्या लभ्यः पुरुषः तु परः ।

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥

अन्वय - हे पार्थ, भूतानि यस्य अन्तस्थानि, येन इदं सर्वं ततं, सः अनन्यया भक्त्या लभ्यः पुरुषः तु परः ।

अग्निर्ज्योतिरहःशुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रम्ह ब्रम्हविदो जनाः ॥ २४ ॥

अन्वय - (यदि) अग्निः ज्योतिः अहः शुक्लः षण्मासा: उत्तरायणं, तत्र प्रयाताः ब्रम्हविदः जनाः ब्रम्ह गच्छन्ति ।

धूमो रात्रिस्तथाकृष्णः षण्मासा दक्षिणायनम् ।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ २५ ॥

अन्वय - (यदि) धूमः रात्रिः तथा कृष्णः षण्मासा: दक्षिणायनं, तत्र योगी चान्द्रमसं ज्योतिः प्राप्य निवर्तते ।

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ २६ ॥

अन्वय - एते शुक्लकृष्णे गती जगतः शाश्वते मते हि । एकया अनावृत्तिं याति अन्यया पुनः आवर्तते ।

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ २७ ॥

अन्वय - हे पार्थ, एते सृती जानन् कश्चन योगी न मुह्यति । तस्मात्, हे अर्जुन, सर्वेषु कालेषु योगयुक्तः भव ।

वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफ़लं प्रदिष्टम् ।
अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ २८ ॥

अन्वय - योगी इदं विदित्वा यत् पुण्यफ़लं वेदेषु यज्ञेषु तपःसु दानेषु च एव प्रदिष्टम्, तत् सर्वं अत्येति, परं आद्यं च स्थानं उपैति ।

ॐ तत्सत् ।
इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रम्हविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
अक्षरब्रम्हयोगो नाम अष्टमोSध्यायः ।

सप्तमोSध्यायः । ज्ञानविज्ञानयोगो नाम ।

ॐ श्रीपरमात्मने नमः |
अथ सप्तमो S ध्यायः |
श्री भगवान् उवाच |
मय्यासक्तमनाः पार्थ योगं युन्जन्मदाश्रयः |
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु || १ ||

अन्वय - श्री भगवान् उवाच, "पार्थ, मय्यासक्तमनाः योगं युन्जन् मदाश्रयः (त्वं) मां यथा असंशयं समग्रं ज्ञास्यसि तत् श्रुणु |

ज्ञानम् ते S हं सविज्ञानं इदं वक्ष्याम्यशेषतः |
यज्ज्ञात्वा नेह भूयो S न्यज्ज्ञातव्यमवशिष्यते || २ ||

अन्वय - अहम् ते इदं सविज्ञानं ज्ञानं अशेषतः वक्ष्यामि, यत् ज्ञात्वा भूयः अन्यत् ज्ञातव्यं इह न अवशिष्यते |

मनुष्याणाम् सहस्रेषु कश्चिद्यतति सिद्धये |
यततामपि सिद्धानां कश्चिन्माम् वेत्ति तत्त्वतः || ३ ||

अन्वय - मनुष्याणाम् सहस्रेषु कश्चित् सिद्धये यतति | यततां अपि सिद्धानां कश्चित् मां तत्त्वतः वेत्ति |

भूमिरापो S नलो वायुः खं मनो बुद्धिरेव च |
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा || ४ ||

अन्वय - भूमिः आपः अनलः वायुः खं मनः बुद्धिः अहंकारः च इति इयं मे प्रकृतिः अष्टधा भिन्ना एव |

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् |
जीवभूतां महाबाहो ययेदं धार्यते जगत् || ५ ||

अन्वय - महाबाहो, इयं अपरां, इतः तु अन्यां मे परां जीवभूतां प्रकृतिं यया इदं जगत् धार्यते, (तां) विद्धि |

एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ६ ॥

अन्वय - सर्वाणि भूतानि एतद्योनीनि तथा अहं कृत्स्नस्य जगतः प्रभवः प्रलयः इति उपधारय ।

मत्तः परतरं नान्यत्किंचिदस्ति धनन्जय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७ ॥

अन्वय - धनन्जय, मत्तः परतरं अन्यत् किंचित् न अस्ति । इदं सर्वं, सूत्रे मणिगणा: इव, मयि प्रोतम् ।

रसो S हमप्सु कौन्तेय प्रभास्मि शशिसूर्ययो: ।
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ८ ॥

अन्वय - कौन्तेय, अप्सु अहं रसः, शशिसूर्ययोः प्रभा, सर्ववेदेषु प्रणवः, खे शब्दः, नृषु पौरुषं अस्मि ।

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ९ ॥

अन्वय - पृथिव्यां पुण्यः गन्धः विभावसौ तेजः च अस्मि । सर्वभूतेषु जीवनं तपस्विषु च तपः अस्मि ।

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ १० ॥

अन्वय - पार्थ, मां सर्वभूतानां सनातनं बीजं विद्धि । अहं बुद्धिमतां बुद्धिः तेजस्विनां तेजः अस्मि ।

बलं बलवतां चाहं कामरागविवर्जितम् ।
धर्माविरुद्धो भूतेषु कामो S स्मि भरतर्षभ ॥ ११ ॥

अन्वय - भरतर्षभ, बलवतां च अहं कामरागविवर्जितं बलं, भूतेषु धर्माविरुद्धः कामः अस्मि ।

ये चैव सात्विका भावा राजसास्तामसाश्च ये ।
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ १२ ॥

अन्वय - ये च सात्विकाः राजसा: तामसाः च भावाः तान् मत्तः एव इति विद्धि । न तु अहं तेषु, ते मयि ।

त्रिभिर्गुणमयैर्भावैरेभि: सर्वमिदं जगत् ।
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ १३ ॥

अन्वय - एभिः त्रिभिः गुणमयैः भावैः मोहितं इदं सर्वं जगत् मां एभ्यः परं अव्ययं न अभिजानाति ।

दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ १४ ॥

अन्वय - मम एषा गुणमयी दुरत्यया माया दैवी हि । ये मां एव प्रपद्यन्ते, ते एतां मायां तरन्ति ।

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ १५ ॥

अन्वय - दुष्कृतिनः मूढाः नराधमाः मायया अपहृतज्ञानाः आसुरं भावं आश्रिताः मां न प्रपद्यन्ते ।

चतुर्विधा भजन्ते मां जना: सुकृतिनो S र्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ १६ ॥

अन्वय - अर्जुन, सुकृतिनः चतुर्विधाः जनाः मां भजन्ते । भरतर्षभ, (ते) आर्तः जिज्ञासुः अर्थार्थी ज्ञानी च ।

तेषां ज्ञानी नित्ययुक्तः एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोSत्यर्थमहं स च मम प्रियः ॥ १७ ॥

अन्वय - तेषां नित्ययुक्तः एकभक्तिः ज्ञानी विशिष्यते । हि ज्ञानिनः अहं अत्यर्थं प्रियः सः च मम प्रियः ।

उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम्
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ १८ ॥

अन्वय - एते सर्वे उदारा: एव, ज्ञानी तु आत्मा एव, (इति) मे मतं । सः हि युक्तात्मा अनुत्तमां गतिं मां एव आस्थितः ।

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ १९ ॥

अन्वय - बहूनां जन्मनां अन्ते वासुदेवः सर्वं इति ज्ञानवान् सुदुर्लभः सः महात्मा मां प्रपद्यते ।

कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेSन्यदेवताः ।
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ २० ॥

अन्वय - स्वया प्रकृत्या नियताः तैः तैः कामैः हृतज्ञानाः तं तं नियमं आस्थाय अन्यदेवताः प्रपद्यन्ते ।

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ २१ ॥

अन्वय - यो यो यां यां तनुं भक्तः श्रद्धया अर्चितुं इच्छति तस्य तस्य तां एव अचलां श्रद्धां अहं विदधामि ।

स तया श्रद्धया युक्तः तस्याराधनमीहते ।
लभते च ततः कामान्मयैव विहितान्हि तान् ॥ २२ ॥

अन्वय - सह् तया श्रद्धया युक्तः तस्य आराधनं ईहते । ततः च मया एव विहितान् तान् कामान् लभते हि ।

अन्तवत्तु फ़लं तेषां तद्भवत्यल्पमेधसाम् ।
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥ २३ ॥

अन्वय - तेषां अल्पमेधसां तत् फ़लं तु अन्तवत् भवति । देवयजाः देवान् यान्ति, मद्भक्ताः अपि मां यान्ति ।

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ २४ ॥

अन्वय - मम अनुत्तमं अव्ययं परं भावं अजानन्तः अबुद्धयः मां अव्यक्तं व्यक्तिं आपन्नं मन्यन्ते ।

नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
मूढोSयं नाभिजानाति लोको मामजमव्ययम् ॥ २५ ॥

अन्वय - योगमायासमावृतः अहं सर्वस्य प्रकाशः न (अस्मि) । अयं मूढः लोकः मां अजं अव्ययं न अभिजानाति ।

वेदाहं समतीतानि वर्तमानानिचार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ २६ ॥

अन्वय - हे अर्जुन, अहं समतीतानि वर्तमानानि भविष्याणि च भूतानि च वेद । मां तु कश्चन न वेद ।

इच्छाद्वेषसमुत्थेन द्वंद्वमोहेन भारत ।
सर्वभूतानि संमोहं सर्गे यान्ति परंतप ।। २७ ॥

अन्वय - हे भारत परंतप, सर्गे इच्छाद्वेषसमुत्थेन द्वंद्वमोहेन सर्वभूतानि संमोहं यान्ति ।

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वंद्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ २८ ॥

अन्वय - येषां तु पुण्यकर्मणां जनानां पापं अन्तगतं, ते द्वंद्वमोहनिर्मुक्ताः मां दृढव्रताः भजन्ते ।

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
ते ब्रम्ह तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ २९ ॥

अन्वय - ये मां आश्रित्य जरामरणमोक्षाय यतन्ति, ते तत् ब्रम्ह कृत्स्नं अध्यात्मं अखिलं कर्म च विदुः ।

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकालेSपि च मां ते विदुर्युक्तचेतसः ॥ ३० ॥

अन्वय - ये मां साधिभूताधिदैवं साधियज्ञं च विदुः, ते युक्तचेतसः प्रयाणकाले अपि मां विदुः च ।

ॐ तत्सत् ।
इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रम्हविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
ज्ञानविज्ञानयोगो नाम सप्तमोSध्यायः ।

षष्ठो ऽ ध्यायः | आत्मसंयमयोगः ।

ॐ श्री परमात्मने नमः |
अथ षष्ठो ऽ ध्यायः | आत्मसंयमयोगः ।
1श्रीभगवान् उवाच |
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः |
स संन्यासी च योगी च न निराग्निर्न चाक्रियः || १ ||
यः कर्मफलं अनाश्रितः कार्यं कर्म करोति, सः संन्यासी च योगी च, निराग्निः न, अक्रियः च न (संन्यासी च योगी च) |
2यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव |
नह्यसन्यस्तसन्कल्पो योगी भवति कश्चन || २ ||
पाण्डव, यं संन्यासं इति प्राहुः, तं योगं विद्धि | न हि असंन्यस्तसंकल्पः कश्चन योगी भवति |
3आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते |
योगारूढस्य तस्यैव शमः कारणमुच्यते || ३ ||
योगं आरुरुक्षो: मुनेः कर्म कारणं उच्यते | तस्य एव योगारूढस्य शमः कारणं उच्यते |
4यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते |
सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते || ४ ||
यदा हि सर्वसंकल्पसंन्यासी न इन्द्रियार्थेषु न कर्मसु अनुषज्जते, तदा योगारूढः उच्यते |
5उद्धरेदात्मनात्मानं नात्मानमवसादयेत् |
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः || ५ ||
आत्मानं आत्मना उद्धरेत् | आत्मानं न अवसादयेत् | हि आत्मा एव आत्मनः बन्धुः | आत्मा एव आत्मनः रिपुः |
6बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः |
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् || ६ ||
येन आत्मना आत्मा एव जितः, तस्य आत्मनः आत्मा बन्धुः | अनात्मनः आत्मा तु शत्रुवत् शत्रुत्वे वर्तेत |
7जितात्मनः प्रशान्तस्य परमात्मा समाहितः |
शीतोष्णसुखदुःखेषु तथा मानापमानयोः || ७ ||
शीतोष्णसुखदुःखेषु तथा मानापमानयोः प्रशान्तस्य जितात्मनः परमात्मा समाहितः |
8ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः |
युक्त इत्युच्यते योगी समलोष्टाश्मकान्चनः || ८ ||
ज्ञानविज्ञानतृप्तात्मा कूटस्थः विजितेन्द्रियः समलोष्टाश्मकान्चनः योगी युक्तः इति उच्यते |
9सुह्रुन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु |
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते || ९ ||
( यः ) सुह्रुन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु साधुषु च पापेषु अपि समबुद्धिः ( सः ) विशिष्यते |
10
योगी युन्जीत सततं आत्मानम् रहसि स्थितः |
एकाकी यतचित्तात्मा निराशीरपरिग्रहः || १० ||
यतचित्तात्मा निराशीः अपरिग्रहः योगी एकाकी रहसि स्थितः सततं आत्मानम् युन्जीत |
11
शुचौ देशे प्रतिष्ठाप्य स्थिरामासनमात्मनः |
नात्युच्छ्रितम् नातिनीचं चैलाजिनकुशोत्तरम् || ११ ||
तत्रैकाग्रं मनः कृत्वा यतचित्तेंद्रियक्रियः |
उपविश्यासने युन्ज्याद्योगमात्मविशुद्धये || १२ ||
आत्मनः आसनं शुचौ देशे न अत्युच्छ्रितं न अतिनीचं चैलाजिनकुशोत्तरम् स्थिरं प्रतिष्ठाप्य,
तत्र आसने उपविश्य मनः एकाग्रं कृत्वा यतचित्तेंद्रियक्रियः आत्मविशुद्धये योगं युन्ज्यात् |
12
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः |
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् || १३ ||
प्रशान्तात्मा विगतभीर्ब्रम्हचारिव्रते स्थितः |
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः || १४ ||
कायशिरोग्रीवं समं अचलं धारयन् स्वं नासिकाग्रं संप्रेक्ष्य दिशः च अनवलोकयन्
ब्रम्हचारिव्रते स्थितः विगतभीः प्रशान्तात्मा मनः संयम्य मच्चित्तः मत्परः आसीत |
13
युन्जन्नेवं सदात्मानं योगी नियतमानसः |
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति || १५ ||
एवं आत्मानम् सदा युन्जन् नियतमानसः योगी मत्संस्थाम् निर्वाणपरमां शान्तिं अधिगच्छति |
14
नात्यश्नतस्तु योगो S स्ति न चैकांतमनश्नतः |
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन || १६ ||
अर्जुन, अत्यश्नतः तु योगः न अस्ति, न च एकांतं अनश्नतः ( योगः अस्ति ),
न च अतिस्वप्नशीलस्य, न च एव जाग्रतः |
15
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु |
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा || १७ ||
युक्ताहारविहारस्य कर्मसु युक्तचेष्टस्य युक्तस्वप्नावबोधस्य योगः दुःखहा भवति |
16
यदा विनियतं चित्तं आत्मन्येवावतिष्ठति |
निस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा || १८ ||
यदा विनियतं चित्तं आत्मनि एव अवतिष्ठते तदा सर्वकामेभ्यः निस्पुहः युक्तः इति उच्यते |
17
यथा दीपो निवातस्थो नेंगते सोपमा स्मृता |
योगिनो यतचित्तस्य युन्जतो योगमात्मनः || १९ ||
यथा निवातस्थः दीपः न इन्गते सा उपमा आत्मनः योगं युन्जतः यतचित्तस्य योगिनः स्मृता |
18
यत्रोपरमते चित्तं निरुद्धं योगसेवया |
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति || २० ||
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् |
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः || २१ ||
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः |
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते || २२ ||
तं विद्यादुःखसंयोगवियोगं योगसंज्ञितम् |
स निश्चयेन योक्तव्यो योगो S निर्विण्णचेतसा || २३ ||
यत्र योगसेवया निरुद्धं चित्तं उपरमते यत्र च आत्मना आत्मानम् पश्यन् एव आत्मनि तुष्यति,
यत् बुद्धिग्राह्यम् अतींद्रियम् आत्यन्तिकं सुखं तत् वेत्ति, यं च अपरं लाभं लब्ध्वा ततः अधिकं न मन्यते,
यस्मिन् स्थितः गुरुणा अपि दुःखेन न विचाल्यते, सः योगः
तं विद्यादुःखसंयोगवियोगं योगसंज्ञितम् निश्चयेन अनिर्विण्णचेतसा योक्तव्यः |
19संकल्पप्रभावान्कामांस्त्यक्त्वा सर्वानशेषतः |
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः || २४ ||
शनैः शनैरुपरमेत् बुद्ध्या ध्रुतिगृहीतया |
आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् || २५ ||
सर्वान् संकल्पप्रभावान् कामान् अशेषतः त्यक्त्वा, इन्द्रियग्रामं मनसा एव समन्ततः विनियम्य
धृतिगृहीतया बुद्ध्या शनैः शनैः उपरमेत्, मनः आत्मसंस्थं कृत्वा, किंचित् अपि न चिन्तयेत् |
20यतो यतो निश्चरति मनश्चन्चलमस्थिरम् |
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् || २६ ||
यतः यतः चंचलं अस्थिरं मनः निश्चरति, ततः ततः एतत् नियम्य आत्मनि एव वशं नयेत् |
21प्रशांतमनसं ह्येनं योगिनं सुखमुत्तमम् |
उपैति शांतरजसं ब्रम्हभूतमकल्मषम् || २७ ||
हि एनं ब्रम्ह्भूतं अकल्मषम् शांतरजसं प्रशांतमनसं योगिनं उत्तमं सुखं उपैति |
22युन्जन्नेवं सदात्मानं योगी विगतकल्मषः |
सुखेन ब्रम्हसंस्पर्शमत्यन्तं सुखमश्नुते || २८ ||
एवं सदा आत्मानम् युन्जन् विगतकल्मषः योगी अत्यन्तं ब्रम्हसंस्पर्शं सुखं सुखेन अश्नुते |
23सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि |
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः || २९ ||
सर्वत्र समदर्शनः योगयुक्तात्मा आत्मानं सर्वभूतस्थं सर्वभूतानि च आत्मनि ईक्षते |
24यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति |
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति || ३० ||
यः मां सर्वत्र पश्यति सर्वं च मयि पश्यत, तस्य अहम् न प्रणश्यामि, सः च मे न प्रणश्यति |
25सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः |
सर्वथा वर्तमानो S पि स योगी मयि वर्तते || ३१ ||
एकत्वं आस्थितः यः सर्वभूतस्थितं मां भजति, सः योगी सर्वथा वर्तमानः अपि मयि वर्तते |
26आत्मौपम्येन सर्वत्र समं पश्यति यो S र्जुन |
सुखं वा यदि वा दुःखं स योगी परमो मतः || ३२ ||
अर्जुन, सुखं वा यदि वा दुःखं, यः आत्मौपम्येन सर्वत्र समं पश्यति,सः योगी परमः मतः |
27
अर्जुन उवाच
यो S यं योगस्त्वया प्रोक्तः साम्येन मधुसूदन |
एतस्याहं न पश्यामि चन्चलत्वात्स्थितिम् स्थिराम् || ३३ ||
अर्जुनः उवाच, "मधुसूदन, यः अयं योगः त्वया साम्येन प्रोक्तः,
एतस्य अहं चन्चलत्वात् स्थिराम् स्थितिम् न पश्यामि |
28चंचलं हि मनः कृष्ण प्रमाथि बलवद्द्रुढम् |
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् || ३४ ||
कृष्ण, मनः चंचलं प्रमाथि दृढं बलवत् हि | तस्य निग्रहं अहं वायोः इव सुदुष्करम् मन्ये |
29श्रीभगवानुवाच |
असंशयं महाबाहो मनो दुर्निग्रहं चलम् |
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते || ३५ ||
श्रीभगवान् उवाच, "महाबाहो, असंशयं (यत्) मनः दुर्निग्रहं चलम् |
कौन्तेय, (तत्) तु अभ्यासेन वैराग्येण च गृह्यते |
30असंयतात्मना योगो दुष्प्राप इति मे मतिः |
वश्यात्मना तु यतता शक्यो S वाप्तुमुपायतः || ३६ ||
योगः असंयतात्मना दुष्प्रापः वश्यात्मना तु उपायतः यतता अवाप्तुं शक्यः इति मे मतिः |
31अर्जुन उवाच
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः |
अप्राप्य योगसंसिद्धिम् कां गतिम् कृष्ण गच्छति || ३७ ||
अर्जुनः उवाच, " कृष्ण, श्रद्धया उपेतः, (अपि तु) अयतिः योगाच्चलितमानसः
योगसंसिद्धिम् अप्राप्य कां गतिम् गच्छति ?
32
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति |
अप्रतिष्ठो महाबाहो विमूढो ब्रम्हण: पथि || ३८ ||
महाबाहो, कच्चित् ब्रम्हण: पथि विमूढः अप्रतिष्ठः उभयविभ्रष्ट: छिन्नाभ्रम् इव नश्यति न ?
33एतन्मे संशयं कृष्ण छेत्तुम् अर्हस्यशेषतः |
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते || ३९ ||
कृष्ण, एतत् मे संशयं अशेषतः छेत्तुम् अर्हसि | अस्य संशयस्य छेत्ता त्वदन्यः न हि उपपद्यते |
34
श्रीभगवानुवाच |
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते |
न हि कल्याणकृत्कश्चिद्दुर्गतिम् तात गच्छति || ४० ||
पार्थ, न एव इह न अमुत्र तस्य विनाशः विद्यते | तात, कल्याणकृत् कश्चित् दुर्गतिम् न गच्छति हि |
35प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः |
शुचीनां श्रीमतां गेहे योगभ्रष्टो S भिजायते || ४१ ||
योगभ्रष्टः पुण्यकृतां लोकान् प्राप्य शाश्वतीः समाः उषित्वा शुचीनां श्रीमतां गेहे अभिजायते |
36अथवा योगिनामेव कुले भवति धीमताम् |
एतद्धि दुर्लभतरं लोके जन्म यदीदृषम् || ४२ ||
अथवा धीमतां योगिनां एव कुले भवति | यदि ईदृशं जन्म, एतत् लोके दुर्लभतरं हि |
37तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् |
यतते च ततो भूयः सन्सिद्धौ कुरुनन्दन || ४३ ||
कुरुनन्दन, तत्र तं पौर्वदेहिकम् बुद्धिसंयोगं लभते | ततः च भूयः सन्सिद्धौ यतते |
38पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशो S पि सः |
जिज्ञासुरपि योगस्य शब्दब्रम्हातिवर्तते || ४४ ||
तेन पूर्वाभ्यासेन अवशः अपि सः ह्रियते एव | योगस्य जिज्ञासुः अपि शब्दब्रम्ह अतिवर्तते |
39प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः |
अनेकजन्मसन्सिद्धस्ततो याति पराम् गतिम् || ४५ ||
प्रयत्नात् यतमानः संशुद्धकिल्बिषः अनेकजन्मसंसिद्धः योगी ततः पराम् गतिम् याति |
40तपस्विभ्यो ऽ धिको योगी ज्ञानिभ्यो ऽ पि मतो ऽ धिकः |
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन || ४६ ||
योगी तपस्विभ्यः अधिकः ज्ञानिभ्यः अपि अधिकः मतः,
कर्मिभ्यः च योगी अधिकः, तस्मात्, अर्जुन, योगी भव |
41योगिनामपि सर्वेषामद्गतेनान्तरात्मना |
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः || ४७ ||
सर्वेषां योगिनां अपि यः श्रद्धावान् मद्गतेन अन्तरात्मना मां भजते, सः मे युक्ततमः मतः |

ॐ तत्सत् |
इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रम्हविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे
आत्मसंयमयोगो नाम षष्ठो ऽ ध्यायः |

पञ्चमोऽध्यायः | कर्मसंन्यासयोगः ।

ॐ श्री परमात्मने नमः |
अथ पञ्चमोऽध्यायः | कर्मसंन्यासयोगः ।
1अर्जुन उवाच
संन्यासं कर्मणाम् कृष्ण पुनर्योगं च शंससि |
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् || १ ||
हे कृष्ण, कर्मणाम् संन्यासं पुनः योगं च शंससि | एतयोः यत् एकं श्रेयम सुनिश्चितम्, तत् मे ब्रूहि |
2
श्री भगवान उवाच |
संन्यासः कर्मयोगश्च निःश्रेयसकरौ उभौ |
तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते || २ ||
संन्यासः कर्मयोगः च उभौ निःश्रेयसकरौ | तयोः तु कर्मसंन्यासात् कर्मयोगः विशिष्यते |
3
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न कान्क्षति |
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते || ३ ||
सः नित्यसंन्यासी ज्ञेयः, यः न द्वेष्टि न कान्क्षति | महाबाहो, निर्द्वन्द्वः हि बन्धात् सुखं प्रमुच्यते |
4सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः |
एकमप्यास्थितो सम्यगुभयोर्विन्दते फलम् || ४ ||
सांख्ययोगौ पृथक् (एवं) बालाः प्रवदन्ति, न पण्डिताः | एकं अपि आस्थितः उभयोः सम्यक् फलं विन्दते |
5यत्सान्ख्यै: प्राप्यते स्थानं तद्योगैरपि गम्यते |
एकं सांख्यं च योगं च यः पश्यति स पश्यति || ५ ||
सान्ख्यै: यत् स्थानं प्राप्यते, तत् योगैः अपि गम्यते | सांख्यं च योगं च यः एकं पश्यति, सः पश्यति |
6संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः |
योगयुक्तो मुनिर्ब्रम्ह न चिरेणाधिगच्छति || ६ ||
महाबाहो, अयोगतः संन्यासः तु दुःखं आप्तुं (भवति) | योगयुक्तः मुनिः न चिरेण ब्रम्ह अधिगच्छति |
7योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः |
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते || ७ ||
योगयुक्तः विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा कुर्वन् अपि न लिप्यते |
8नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् |
पश्यन्श्रुण्वन्स्प्रुशन्जिघ्रन् अश्नन्गच्छन्स्वपन्श्वसन् || ८ ||
प्रलपन्विस्रुजन्ग्रुण्ह्नन्नुन्मिषन्निमिषन्नपि |
इन्द्रियाणीन्द्रियस्यार्थे वर्तन्त इति धारयन् || ९ ||
तत्त्ववित् युक्तः, पश्यन्, श्रुण्वन्, स्प्रुशन्, जिघ्रन्, अश्नन्, गच्छन्, स्वपन्, श्वसन्, प्रलपन्, विसृजन्, ग्रुण्हन्,
उन्मिषन्, निमिषन्, अपि " इन्द्रियाणि इन्द्रियस्य अर्थे वर्तन्ते " इति धारयन्, " न एव किंचित् करोमि " इति मन्येत |
9ब्रम्हण्याधाय कर्माणि संगं त्यक्त्वा करोति यः |
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा || १० ||
यः कर्माणि संगं त्यक्त्वा, ब्रम्हणि आधाय करोति, सः, (यथा) पद्मपत्रं अम्भसा ( न लिप्यते तथा ) इव, पापेन न लिप्यते |
10कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि |
योगिनः कर्म कुर्वन्ति संगं त्यक्त्वात्मशुद्धये || ११ ||
कायेन मनसा बुद्ध्या केवलैः इन्द्रियैः अपि योगिनः संगं त्यक्त्वा, आत्मशुद्धये कर्म कुर्वन्ति |
11युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् |
अयुक्तः कामकारेण फले सक्तो निबध्यते || १२ ||
युक्तः कर्मफलं त्यक्त्वा नैष्ठिकीम् शान्तिं आप्नोति | अयुक्तः फले सक्तः कामकारेण निबध्यते |
12सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी |
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् || १३ ||
सर्वकर्माणि मनसा नवद्वारे पुरे संन्यस्य वशी देही न कुर्वन् न कारयन् एव सुखं आस्ते |
13न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः |
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते || १४ ||
प्रभुः लोकस्य न कर्तृत्वं न कर्माणि न तु कर्मफलसंयोगं सृजति | स्वभावः प्रवर्तते |
14नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः |
अज्ञानेनावृतं ज्ञानम् तेन मुह्यन्ति जन्तवः || १५ ||
विभुः न कस्यचित् पापं आदत्ते, न च सुकृतं एव | ज्ञानम् अज्ञानेन आवृतम् | तेन जन्तवः मुह्यन्ति |
15ज्ञानेन तु तदज्ञानं येषां नाशितमात्मना |
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् || १६ ||
येषां तु तत् अज्ञानं आत्मना ज्ञानेन नाशितम्, तेषां तत्परं ज्ञानं आदित्यवत् प्रकाशयति |
16तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणा:
गच्छन्त्यपुनरावृत्तिम् ज्ञाननिर्धूतकल्मषाः || १७ ||
तद्बुद्धयः तदात्मानः तन्निष्ठाः तत्परायणा: ज्ञाननिर्धूतकल्मषाः अपुनारावृत्तिम् गच्छन्ति |
17विद्याविनयसम्पन्ने ब्राम्हणे गवि हस्तिनि |
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः || १८ ||
पण्डिताः विद्याविनयसम्पन्ने ब्राम्हणे, गवि, हस्तिनि, शुनि, श्वपाके एव च समदर्शिनः |
18इहैव तैर्जितः स्वर्गो येषां साम्ये स्थितं मनः |
निर्दोषं हि समं ब्रम्ह तस्माद्ब्रम्हणि ते स्थिताः || १९ ||
येषां मनः साम्ये स्थितं, तैः इह एव स्वर्गः जितः | निर्दोषं समं हि ब्रम्ह | तस्मात् ते ब्रम्हणि स्थिताः |
19न प्रह्रुष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् |
स्थिरबुद्धिरसम्मूढो ब्रम्हविद्ब्रम्हणि स्थितः || २० ||
प्रियं प्राप्य न प्रह्रुष्येत्, अप्रियं प्राप्य न उद्विजेत् च | स्थिरबुद्धिः असम्मूढः ब्रम्हवित् ब्रम्हणि स्थितः (भवति) |
20बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् |
स ब्रम्हयोगयुक्तात्मा सुखमक्षयमश्नुते || २१ ||
बाह्यस्पर्शेषु असक्तात्मा यत् सुखं आत्मनि विन्दति, सः ब्रम्हयोगयुक्तात्मा अक्षयं सुखं अश्नुते |
21ये हि संस्पर्शजा भोगा दुःखयोनय एव ते |
आद्यंतवन्तः कौन्तेय न तेषु रमते बुधः || २२ ||
कौन्तेय, ये हि संस्पर्शजाः भोगाः ते आद्यन्तवन्तः दुःखयोनयः एव | बुधः तेषु न रमते |
22शक्नोतीहैव यः सोढुम् प्राक्शरीरविमोक्षणात् |
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः || २३ ||
शरीरविमोक्षणात् प्राक् इह एव यः कामक्रोधोद्भवं वेगं सोढुम् शक्नोति सः नरः युक्तः सः सुखी |
23यो S न्तः सुखो S न्तरारामस्तथान्तर्ज्योतिरेव यः |
स योगी ब्रम्हनिर्वाणं ब्रम्हभूतो S धिगच्छति || २४ ||
यः अन्तःसुखः अन्तरारामः तथा यः अन्तर्ज्योतिः एव, सः योगी ब्रम्हभूतः ब्रम्हनिर्वाणं अधिगच्छति |
24लभन्ते ब्रम्हनिर्वाणमृषयः क्षीणकल्मषाः |
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः || २५ ||
यतात्मानः छिन्नद्वैधाः क्षीणकल्मषाः सर्वभूतहिते रताः रुषयः ब्रम्हनिर्वाणं लभन्ते |
25कामक्रोधवियुक्तानां यतीनां यतचेतसाम् |
अभितो ब्रम्हनिर्वाणं वर्तते विदितात्मनाम् || २६ ||
कामक्रोधवियुक्तानां यतचेतसाम् विदितात्मनाम् यतीनां अभितः ब्रम्हनिर्वाणं वर्तते |
26स्पर्शान्कृत्वा बहिर्बाह्याँश्चक्षुश्चैवान्तरे भ्रुवोः |
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ || २७ ||
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः |
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः || २८ ||
बाह्यान् स्पर्शान् बहिः कृत्वा, चक्षुः च भ्रुवोः अंतरे (कृत्वा) नासाभ्यन्तरचारिणौ प्राणापानौ समौ कृत्वा
यः मुनिः विगतेच्छाभयक्रोधः यतेन्द्रियमनोबुद्धिः मोक्षपरायणः सः सदा मुक्तः एव |
27भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् |
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति || २९ ||
मां यज्ञतपसां भोक्तारं सर्वलोकमहेश्वरम् सर्वभूतानां सुहृदं ज्ञात्वा शान्तिं रुच्छति |

ॐ तत्सत् |
इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रम्हविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे
कर्मसंन्यासयोगो नाम पंचमो S ध्यायः |

चतुर्थो S ध्यायः | ज्ञानकर्मसंन्यासयोगो नाम |

अथ चतुर्थो S ध्यायः | ज्ञानकर्मसंन्यासयोगो नाम |

1
श्री भगवान उवाच |
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् |
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवे S ब्रवीत् || १ ||
इमं अव्ययं योगं अहं विवस्वते प्रोक्तवान् | विवस्वान् मनवे प्राह | मनुः इक्ष्वाकवे अब्रवीत् |
2एवं परम्पराप्राप्तमिमं राजर्षयो विदुः |
स कालेनेह महता योगो नष्टः परंतप || २ ||
परंतप, एवं राजर्षयः परम्पराप्राप्तम् इमं (योगं) विदुः | सः योगः इह महता कालेन नष्टः |

पहले वाक्यके अन्वयमें शब्दोंका क्रम बदलनेसे अलग अलग भावार्थ बनते हैं, जैसे -
एवं इमं परम्पराप्राप्तम् (योगं) राजर्षयः विदुः | या - एवं राजर्षयः इमं परम्पराप्राप्तम् (योगं) विदुः |
3स एवायं मया ते S द्य योगः प्रोक्तः पुरातनः |
भक्तो S सि मे सखा चेति रहस्यं ह्येतदुत्तमम् || ३ ||
सः एव पुरातनः योगः मया अद्य अयं ते प्रोक्तः | मे भक्तः सखा च असि इति हि एतद् उत्तमं रहस्यं (प्रोक्तं) |
4
अर्जुन उवाच |
अपरं भवतो जन्म परं जन्म विवस्वतः |
कथमेतद्विजानीयाम् त्वमादौ प्रोक्तवानिति || ४ ||
अर्जुनः उवाच, "भवतः जन्म अपरं, विवस्वतः जन्म (तु) परम् | एतद् (रहस्यं) आदौ त्वं प्रोक्तवान् इति कथं विजानीयाम् |
5
श्री भगवान उवाच |
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन |
तान्यहम वेद सर्वाणि न त्वं वेत्थ परंतप || ५ ||
अर्जुन, मे तव च बहूनि जन्मानि व्यतीतानि | परंतप, अहम् तानि सर्वाणि वेद, त्वं न वेत्थ |
6
अजो S पि सन्नव्ययात्मा भूतानामीश्वरो S पि सन् |
प्रकृतिम् स्वामधिष्ठाय सम्भवाम्यात्ममायया || ६ ||
अजः अव्ययात्मा अपि सन् भूतानां ईश्वरः अपि सन्, स्वां प्रकृतिम् अधिष्ठाय आत्ममायया संभवामि |
7यदा यदा हि धर्मस्य ग्लानिर्भवति भारत |
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् || ७ ||
भारत, यदा यदा हि धर्मस्यग्लानिः भवति, अधर्मस्य अभ्युत्थानं ( च भवति ) तदा अहम् आत्मानं सृजामि |
8परित्राणाय साधूनां विनाशाय च दुष्कृताम् |
धर्मसंस्थापनार्थाय संभवामि युगे युगे || ८ ||
साधूनां परित्राणाय दुष्कृताम् विनाशाय च धर्मसंस्थापनार्थाय ( च अहम् ) युगे युगे संभवामि |
9जन्म कर्म च मे दिव्यं एवं यो वेत्ति तत्त्वतः |
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सो S र्जुन || ९ ||
अर्जुन, मे जन्म कर्म च दिव्यं, एवं यः तत्त्वतः वेत्ति, सः देहं त्यक्त्वा पुनः जन्म न एति, (सः) माम् एति |
10वीतरागभयक्रोधा मन्मया मामुपाश्रिताः |
बहवो ज्ञानतपसा पूता मद्भावमागताः || १० ||
वीतरागभयक्रोधाः, मन्मया:, मां उपाश्रिताः, ज्ञानतपसा पूताः, बहवः मद्भावं आगताः |
11ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् |
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः || ११ ||
ये मां यथा प्रपद्यन्ते तान् अहम् तथा एव भजामि | पार्थ, मनुष्याः सर्वशः मम वर्त्मा अनुवर्तन्ते |
12कान्क्षन्त: कर्मणाम् सिद्धिं यजन्त इह देवताः |
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा || १२ ||
इह कर्मणाम् सिद्धिं कान्क्षन्त: देवताः यजन्ते | मानुषे लोके कर्मजा सिद्धिः क्षिप्रं हि भवति |
13चातुर्वर्ण्यम् मया स्रुष्टम् गुणकर्मविभागशः |
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् || १३ ||
मया गुणकर्मविभागशः चातुर्वर्ण्यम् स्रुष्टम् | अव्ययं मां तस्य कर्तारं अकर्तारं अपि विद्धि |
14न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा |
इति मां यो S भिजानाती कर्मभिर्न स बध्यते || १४ ||
"कर्माणि मां न लिम्पन्ति, न मे कर्मफले स्पृहा" इति यः मां अभिजानाति, सः कर्मभिः न बध्यते |
15एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षिभिः |
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् || १५ ||
पूर्वैः मुमुक्षिभिः अपि कर्म एवं ज्ञात्वा (एव) कृतम् | तस्मात् त्वं पूर्वैः पूर्वतरं कृतं एव कर्म कुरु |
16किं कर्म किमकर्मेति कवयो S प्यत्र मोहिताः |
तत्ते कर्म प्रविक्ष्यामि यज्ज्ञात्वा मोक्ष्यसे S शुभात् || १६ ||
" किं कर्म किं अकर्म " इति अत्र कवयः अपि मोहिताः | ते तत् कर्म प्रविक्ष्यामि, यत् ज्ञात्वा अशुभात् मोक्ष्यसे |
17कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः |
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः || १७ ||
कर्मणः गतिः गहना, हि कर्मणः अपि बोद्धव्यं, विकर्मणः च बोद्धव्यं, अकर्मणः च बोद्धव्यम् |
18कर्मण्यकर्म यः पश्येत् अकर्मणि च कर्म यः |
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् || १८ ||
यः कर्मणि अकर्म पश्येत्, यः च अकर्मणि कर्म (पश्येत्), सः मनुष्येषु बुद्धिमान्, कृत्स्नकर्मकृत् (अपि) सः युक्तः |
19यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः |
ज्ञानाग्निदग्धकर्माणम् तमाहुः पण्डितम् बुधाः || १९ ||
यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः, तं ज्ञानाग्निदग्धकर्माणम् बुधाः पण्डितम् आहुः |
20त्यक्त्वा कर्मफलासंगं नित्यतृप्तो निराश्रयः |
कर्मण्यभिप्रवृत्तो S पि नैव किंचित्करोति सः || २० ||
कर्मफलासंगं त्यक्त्वा नित्यतृप्तः निराश्रयः कर्मणि अभिप्रवृत्तः अपि सः किंचित् एव न करोति |
21निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः |
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् || २१ ||
निराशी:, यतचित्तात्मा, त्यक्तसर्वपरिग्रहः, केवलं शारीरं कर्म कुर्वन्, किल्बिषम् न आप्नोति |
22यद्रुच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः |
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते || २२ ||
यद्रुच्छालाभसन्तुष्टः, द्वंद्वातीतः, विमत्सरः, सिद्धौ असिद्धौ च समः कृत्वा अपि न निबध्यते |
23गतसंगस्य मुक्तस्य ज्ञानावस्थितचेतसः |
यज्ञायाचरतः कर्म समग्रं प्रविलीयते || २३ ||
गतसंगस्य, मुक्तस्य, ज्ञानावस्थितचेतसः, यज्ञाय आचरतः समग्रं कर्म प्रविलीयते |
24ब्रम्हार्पणम् ब्रम्हहविर्ब्रम्हाग्नौ ब्रम्हणा हुतम् |
ब्रम्हैव तेन गन्तव्यं ब्रम्हकर्मसमाधिना || २४ ||
ब्रम्हणा ब्रम्हहविः ब्रम्हाग्नौ ब्रम्हार्पणम् हुतम् | तेन ब्रम्हकर्मसमाधिना ब्रम्ह एव गन्तव्यम् |
25दैवमेवापरे यज्ञम् योगिनः पर्युपासते |
ब्रम्हाग्नावपरे यज्ञम् यज्ञेनैवोपजिव्हति || २५ ||
अपरे योगिनः दैवं यज्ञम् एव पर्युपासते | अपरे ब्रम्हाग्नौ यज्ञम् यज्ञेन एव उपजिव्हति |
26श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुव्हति |
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुव्हति || २६ ||
अन्ये श्रोत्रादीनि इन्द्रियाणि संयमाग्निषु जुव्हति | अन्ये शब्दादीनि विषयानि इन्द्रियाग्निषु जुव्हति |
27सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे |
आत्मसंयमयोगाग्नौ जुव्हति ज्ञानदीपिते || २७ ||
अपरे सर्वाणि इन्द्रियकर्माणि प्राणकर्माणि च ज्ञानदीपिते आत्मसंयमयोगाग्नौ जुव्हति |
28द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे |
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः || २८ ||
तथा अपरे द्रव्ययज्ञाः तपोयज्ञाः योगयज्ञाः स्वाध्यायज्ञानयज्ञाः च संशितव्रताः यतयः |
29अपाने जुव्हति प्राणं प्राणे S पानं तथापरे |
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः || २९ ||
अपरे प्राणायामपरायणाः प्राणापानगती रुद्ध्वा प्राणं अपाने जुव्हति, तथा अपानं प्राणे (जुव्हति) |
30अपरे नियताहाराः प्राणान् प्राणेषु जुव्हति |
सर्वे S प्येते यज्ञविदो यज्ञक्षपितकल्मषाः || ३० ||
अपरे नियताहाराः प्राणान् प्राणेषु जुव्हति | एते सर्वे अपि यज्ञविदः यज्ञक्षपितकल्मषाः |
31यज्ञशिष्टामृतभुजो यान्ति ब्रम्हसनातनम् |
नायं लोको S स्त्ययज्ञस्य कुतो S न्यः कुरुसत्तम || ३१ ||
यज्ञशिष्टामृतभुजः ब्रम्हसनातनम् यान्ति | कुरुसत्तम, अयज्ञस्य अयं लोकः न अस्ति, कुतः अन्यः |
32एवं बहुविधा यज्ञा वितता ब्रम्हणो मुखे |
कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे || ३२ ||
एवं ब्रम्हणः मुखे बहुविधाः यज्ञाः वितताः | तान् सर्वान् कर्मजान् विद्धि | एवं ज्ञात्वा विमोक्ष्यसे |
33श्रेयान्द्रव्यमयाद्यज्ञात् ज्ञानयज्ञः परंतप |
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते || ३३ ||
परंतप, द्रव्यमयात् यज्ञात् ज्ञानयज्ञः श्रेयान् | पार्थ, सर्वं अखिलं कर्म ज्ञाने परिसमाप्यते |
34तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया |
उपदेक्ष्यन्ति ते ज्ञानम् ज्ञानिनस्तत्त्वदर्शिनः || ३४ ||
तत् प्रणिपातेन परिप्रश्नेन सेवया विद्धि | ज्ञानिनः तत्त्वदर्शिनः ते ज्ञानम् उपदेक्ष्यन्ति |

शिर्डी के साईबाबा ने दूसरे चरण में अवग्रह लेनेका सुझाव दिया |
अवग्रह लेनेसे दूसरा चरण " उपदेक्ष्यन्ति ते S ज्ञानम् ज्ञानिनस्तत्त्वदर्शिनः | " ऐसा होगा |
और तब अन्वय बनेगा " ज्ञानिनः तत्त्वदर्शिनः ते अज्ञानम् उपदेक्ष्यन्ति |"
इस अन्वयका भावार्थ पहले अन्वयसे एकदम उलटा हो जाता है |
लेकिन इसका समर्थन भी और स्तोत्रोमे मिलता है | जैसे, श्री दक्षिणामूर्ती के स्तोत्र में गुरू की व्याख्या ऐसी बतायी है |
गुकारस्त्वन्धकारो वै रुकारस्तन्निवर्तकः |
अन्धकारनिवर्तित्वात् गुरुरित्यभिधीयते ||
साईबाबाने दिया हुआ सुझाव गुरूकी इस व्याख्यासे कितना मेल खाता है!! महंतों की यही तो महत्ता है!!
35यज्ज्ञात्वा न पुनर्मोहं एवं यास्यसि पाण्डव |
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथा मयि || ३५ ||
यत् ज्ञात्वा, पाण्डव, एवं मोहम पुनः न यास्यसि | येन अशेषेण भूतानि यथा मयि द्रक्ष्यसि (तथा) आत्मनि (द्रक्ष्यसि) |

यह श्लोक और इसका अन्वय स्वतंत्र वाक्य नहीं है | ये वाक्यांश हैं |
इन वाक्यांशोका सम्बन्ध ३४ वे श्लोक के " तत् विद्धि " से है | इस प्रकारसे ये दोनों श्लोक मिलकर एक वाक्य बनता है |
36अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः |
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि || ३६ ||
सर्वेभ्यः पापेभ्यः अपि पापकृत्तमः असि चेत्, ज्ञानप्लवेन एव सर्वं वृजिनं सन्तरिष्यसि |
37यथैधान्सि समिद्धो S ग्निर्भस्मसात्कुरुते S र्जुन |
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा || ३७ ||
अर्जुन, यथा समिद्धः अग्निः एधान्सि भस्मसात् कुरुते, तथा ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते |
38न हि ज्ञानेन सदृशं पवित्रमिह विद्यते |
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति || ३८ ||
ज्ञानेन सदृशं पवित्रं इह न हि विद्यते | योगसंसिद्धः कालेन स्वयं तत् आत्मनि विन्दति |
39श्रद्धावांल्लभते ज्ञानम् तत्परः संयतेन्द्रियः |
ज्ञानम् लब्ध्वा परां शान्तिमचिरेणाधिगच्छति || ३९ ||
श्रद्धावान् तत्परः संयतेन्द्रियः ज्ञानम् लभते | ज्ञानम् लब्ध्वा अचिरेण परां शान्तिम् अधिगच्छति |
40अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति |
नायं लोको S अस्ति न परो न सुखं संशयात्मनः || ४० ||
अज्ञः च अश्रद्दधानः च संशयात्मा विनश्यति | संशयात्मनः न अयं लोकः अस्ति, न परः, न सुखम् |
41योगसन्यस्तकर्माणं ज्ञानसन्च्छिन्नसंशयम् |
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय || ४१ ||
धनञ्जय, योगसन्यस्तकर्माणं ज्ञानसन्च्छिन्नसंशयम् आत्मवन्तं कर्माणि न निबध्नन्ति |
42तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः |
छित्वैनम् संशयं योगमातिष्ठोत्तिष्ठ भारत || ४२ ||
भारत, तस्मात् एनं हृत्स्थं अज्ञानसंभूतं आत्मनः संशयं ज्ञानासिना छित्वा योगं आतिष्ठ उत्तिष्ठ |

ॐ तत्सत् |
इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रम्हविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे
ज्ञानकर्मसंन्यासयोगो नाम चतुर्थो S ध्यायः |