Thursday, July 8, 2010

प्रथमोऽध्यायः | अर्जुनविषादयोगः ।

अथ प्रथमोऽध्यायः | अर्जुनविषादयोगः ।

1
धृतराष्ट्र उवाच |
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः |
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ||१||
धृतराष्ट्रः उवाच, "सञ्जय, धर्मक्षेत्रे कुरुक्षेत्रे एव समवेताः युयुत्सवः मामकाः पाण्डवाः च किं अकुर्वत ? or
धृतराष्ट्रः उवाच, "सञ्जय, धर्मक्षेत्रे कुरुक्षेत्रे समवेताः युयुत्सवः मामकाः पाण्डवाः च किं अकुर्वत एव ? or
धृतराष्ट्रः उवाच, "सञ्जय, धर्मक्षेत्रे कुरुक्षेत्रे च समवेताः युयुत्सवः मामकाः पाण्डवाः एव किं अकुर्वत ?
2
सञ्जय उवाच |
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा |
आचार्यमुपसंगम्य राजा वचनमब्रवीत् ||२||
सञ्जयः उवाच, "पाण्डवानीकं तु व्यूढं दृष्ट्वा राजा दुर्योधनः तदा आचार्यं उपसंगम्य वचनं अब्रवीत् |
3
पश्यैतां पाण्डुपुत्राणां आचार्य महतीं चमूम् |
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ||३||
(दुर्योधनः उवाच), "आचार्य, एतां तव धीमता शिष्येण द्रुपदपुत्रेण व्यूढां पाण्डुपुत्राणां महतीं चमूम् पश्य |
4
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि |
युयुधानो विराटश्च द्रुपदश्च महारथः ||४||
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् |
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ||५||
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् |
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ||६||
अत्र युधि शूराः महेष्वासाः भीमार्जुनसमाः युयुधानः विराटः च महारथः द्रुपदः च
धृष्टकेतुः चेकितानः वीर्यवान् काशिराजः च पुरुजित् कुन्तिभोजः च नरपुंगवः शैब्यः च
युधामन्युः च विक्रान्तः वीर्यवान् उत्तमौजाः च सौभद्रः द्रौपदेयाः च सर्वे एव महारथाः (सन्ति) |
5
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम |
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ||७||
द्विजोत्तम, ये तु अस्माकं विशिष्टाः मम सैन्यस्य नायकाः तान् निबोध । ते संज्ञार्थं तान् ब्रवीमि |
6
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः |
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ||८||
भवान् भीष्मः च कर्णः च कृपः च समितिञ्जयः अश्वत्थामा विकर्णः च तथा सोमदत्तिः च (सर्वे) एव (अस्माकं विशिष्टाः) |
7
अन्ये च बहवः शूराः मदर्थे त्यक्तजीविताः |
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ||९||
अन्ये च बहवः शूराः नानाशस्त्रप्रहरणाः युद्धविशारदाः सर्वे मदर्थे त्यक्तजीविताः (सन्ति) |
8
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् |
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ||१०||
तत् अस्माकं भीष्माभिरक्षितम् बलं अपर्याप्तं अस्ति । एतेषां तु इदं भीमाभिरक्षितम् बलं पर्याप्तम् (एव) |
9
अयनेषु च सर्वेषु यथाभागमवस्थिताः |
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ||११||
सर्वेषु च अयनेषु यथाभागं अवस्थिताः भवन्तः सर्वे एव भीष्मं एव अभिरक्षन्तु हि |
10
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः |
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ||१२||
(सञ्जयः उवाच), "तस्य हर्षं सञ्जनयन् प्रतापवान् कुरुवृद्धः पितामहः उच्चैः विनद्य सिंहनादं शङ्खं दध्मौ |
11
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः |
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ||१३||
ततः शङ्खाः च भेर्यः पणवानकगोमुखाः च सहसा एव अभ्यहन्यन्त । सः शब्दः तुमुलः अभवत् |
12
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ |
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ||१४||
ततः श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ माधवः पाण्डवः च दिव्यौ शङ्खौ प्रदध्मतुः एव |
13
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः |
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ||१५||
हृषीकेशः पाञ्चजन्यं (दध्मौ) धनञ्जयः देवदत्तं (दध्मौ) वृकोदरः भीमकर्मा महाशङ्खं पौण्ड्रं दध्मौ |
14
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः |
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ||१६||
कुन्तीपुत्रः राजा युधिष्ठिरः अनन्तविजयं (दध्मौ) । नकुलः सहदेवः च सुघोषमणिपुष्पकौ (दध्मतुः) |
15
काश्यश्च परमेष्वासः शिखण्डी च महारथः |
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ||१७||
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते |
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ||१८||
पृथिवीपते, परमेष्वासः काश्यः च महारथः शिखण्डी च धृष्टद्युम्नः विराटः च अपराजितः सात्यकिः च
द्रुपदः द्रौपदेयाः च महाबाहुः सौभद्रः च सर्वशः पृथक् पृथक् शङ्खान् दध्मुः |
16
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् |
नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् ||१९||
नभः च पृथिवीं च तुमुलः व्यनुनादयन् सः धार्तराष्ट्राणां घोषः हृदयानि व्यदारयत् एव |
17
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः |
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ||२०||
हृषीकेशं तदा वाक्यं इदमाह महीपते |
महीपते, अथ धार्तराष्ट्रान् व्यवस्थितान् दृष्ट्वा शस्त्रसम्पाते प्रवृत्ते तदा धनुः उद्यम्य कपिध्वजः पाण्डवः हृषीकेशं इदं वाक्यं आह |
18
अर्जुन उवाच |
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ||२१||
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् |
कैर्मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे ||२२||
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः |
धार्तराष्ट्रस्य दुर्बुद्धेर् युद्धे प्रियचिकीर्षवः ||२३||
अर्जुनः उवाच, "अच्युत मे रथं उभयोः सेनयोः मध्ये (तावत्) स्थापय यावत् अहं अवस्थितान् एतान् योद्धुकामान् निरीक्षे ।
अस्मिन् रणसमुद्यमे कैः सह मया योद्धव्यम् (तत् अहं निरीक्षे) ।
दुर्बुद्धेः धार्तराष्ट्रस्य युद्धे प्रियचिकीर्षवः ये एते अत्र समागताः तान् योत्स्यमानान् अहं अवेक्षे |
19
सञ्जय उवाच |
एवमुक्तो हृषीकेशो गुडाकेशेन भारत |
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ||२४||
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् |
उवाच पार्थ पश्यैतान् समवेतान्कुरूनिति ||२५||
सञ्जयः उवाच, "भारत, गुडाकेशेन एवं उक्तः हृषीकेशः रथोत्तमम् उभयोः सेनयोः मध्ये
सर्वेषां महीक्षिताम् भीष्मद्रोणप्रमुखतः च स्थापयित्वा उवाच "पार्थ, एतान् समवेतान् कुरून् पश्य |
20
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् |
आचार्यान्मातुलान्भ्रातॄन् पुत्रान्पौत्रान्सखींस्तथा ||२६||
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि |
पार्थः तत्र उभयोः अपि सेनयोः स्थितान् पितॄन् अथ पितामहान् आचार्यान् मातुलान् भ्रातॄन्
पुत्रान् पौत्रान् सखीन् तथा श्वशुरान् सुहृदः च एव अपश्यत् |
21
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ||२७||
कृपया परयाविष्टो विषीदन्निदमब्रवीत् |
(तत्र) अवस्थितान् तान् सर्वान् बन्धून् समीक्ष्य परया कृपया आविष्टः सः विषीदन् कौन्तेयः इदं अब्रवीत् |
22
अर्जुन उवाच |
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ||२८||
सीदन्ति मम गात्राणि मुखं च परिशुष्यति |
अर्जुनः उवाच, "कृष्ण, इमं स्वजनं युयुत्सुं समुपस्थितम् दृष्ट्वा मम गात्राणि सीदन्ति मुखं परिशुष्यति च |
23वेपथुश्च शरीरे मे रोमहर्षश्च जायते ||२९||मे शरीरे वेपथुः च रोमहर्षः च जायते |
24गाण्डीवं स्रंसते हस्तात् त्वक्चैव परिदह्यते | गाण्डीवं हस्तात् स्रंसते एव त्वक् परिदह्यते च |
25न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ||३०||मे मनः च भ्रमति इव, अवस्थातुं च न शक्नोमि |
26
निमित्तानि च पश्यामि विपरीतानि केशव |
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ||३१||
केशव, विपरीतानि निमित्तानि पश्यामि च, आहवे स्वजनं हत्वा श्रेयः च न अनुपश्यामि |
27न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च |कृष्ण, न विजयं काङ्क्षे न च राज्यं सुखानि च |
28किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ||३२||गोविन्द किं नः राज्येन किं भोगैः जीवितेन वा |
29
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च |
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ||३३||
आचार्याः पितरः पुत्रास् तथैव च पितामहाः |
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ||३४||
येषां अर्थे नः राज्यं काङ्क्षितं भोगाः सुखानि च (काङ्क्षितानि) ते इमे प्राणान् धनानि च त्यक्त्वा
युद्धे अवस्थिताः आचार्याः पितरः पुत्राः तथा पितामहाः च मातुलाः श्वशुराः पौत्राः तथा श्यालाः सम्बन्धिनः एव |
30
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन |
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ||३५||
मधुसूदन, घ्नतः अपि त्रैलोक्यराज्यस्य हेतोः अपि किं नु महीकृते (अपि) एतान् हन्तुं न इच्छामि |
31
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन |
पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः ||३६||
जनार्दन, धार्तराष्ट्रान् निहत्य नः का प्रीतिः स्यात् ? एतान् आततायिनः हत्वा अस्मान् पापं एव आश्रयेत् ।
32तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् |तस्मात् वयं स्वबान्धवान् धार्तराष्ट्रान् हन्तुं न अर्हाः ।
33स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ||३७|| हि स्वजनं हत्वा कथं सुखिनः स्याम, माधव ?
34
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः |
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ||३८||
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् |
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ||३९||
जनार्दन, यद्यपि लोभोपहतचेतसः एते कुलक्षयकृतं दोषं मित्रद्रोहे पातकम् च न पश्यन्ति,
कुलक्षयकृतं दोषं प्रपश्यद्भिः अस्माभिः अस्मात् पापात् निवर्तितुं कथं न ज्ञेयम् ?
35कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः | कुलक्षये सनातनाः कुलधर्माः प्रणश्यन्ति ।
36धर्मे नष्टे कुलं कृत्स्नम् अधर्मोऽभिभवत्युत ||४०||धर्मे नष्टे कृत्स्नम् कुलं अधर्मः अभिभवति उत ।
37अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः |कृष्ण, अधर्माभिभवात् कुलस्त्रियः प्रदुष्यन्ति ।
38स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ||४१||वार्ष्णेय, स्त्रीषु दुष्टासु वर्णसङ्करः जायते ।
39
सङ्करो नरकायैव कुलघ्नानां कुलस्य च |
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ||४२||
सङ्करः च कुलस्य कुलघ्नानां नरकाय एव । हि एषां लुप्तपिण्डोदकक्रियाः पितरः पतन्ति (एव) ।
40
दोषैरेतैः कुलघ्नानाम् वर्णसङ्करकारकैः |
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ||४३||
कुलघ्नानाम् एतैः वर्णसङ्करकारकैः दोषैः शाश्वताः कुलधर्माः जातिधर्माः च उत्साद्यन्ते ।
41
उत्सन्नकुलधर्माणाम् मनुष्याणां जनार्दन |
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ||४४||
जनार्दन, उत्सन्नकुलधर्माणाम् मनुष्याणां नरके अनियतं वासः भवति इति अनुशुश्रुम ।
42
अहो बत महत्पापं कर्तुं व्यवसिता वयम् |
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ||४५||
अहो बत, राज्यसुखलोभेन स्वजनं हन्तुं उद्यताः वयम् महत् पापं कर्तुं व्यवसिताः ।
43
यदि मामप्रतीकारम् अशस्त्रं शस्त्रपाणयः |
धार्तराष्ट्रा रणे हन्युस् तन्मे क्षेमतरं भवेत् ||४६||
यदि शस्त्रपाणयः धार्तराष्ट्राः रणे मां अशस्त्रं अप्रतिकारं हन्युः तत् मे क्षेमतरं भवेत् ।
44
सञ्जय उवाच |
एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् |
विसृज्य सशरं चापं शोकसंविग्नमानसः ||४७||
सञ्जयः उवाच, "शोकसंविग्नमानसः अर्जुनः एवं उक्त्वा सशरं चापं विसृज्य सङ्ख्ये रथोपस्थः उपाविशत् ।

ॐ तत्सत् ।
इति श्रीमद्भगवद्गीतासु उपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
अर्जुनविषादयोगो नाम
प्रथमोऽध्यायः ।


No comments:

Post a Comment