Thursday, July 8, 2010

अष्टमो S ध्यायः | अक्षरब्रम्हयोगो नाम ।

ॐ श्रीपरमात्मने नमः |
अथ अष्टमो S ध्यायः |
अर्जुन उवाच |

किं तद्ब्रम्ह किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तं अधिदैवं किमुच्यते ॥ १ ॥

अन्वय - हे पुरुषोत्तम, तत् ब्रम्ह किं, अध्यात्मं किं, कर्म किं, अधिभूतं च किं प्रोक्तं ? किं उच्यते अधिदैवम् ?

अधियज्ञः कथं कोSत्र देहेSस्मिन् मधुसूदन ।
प्रयाणकाले च कथं ज्ञेयोSसि नियतात्मभिः ॥ २ ॥

अन्वय - हे मधुसूदन, अत्र अस्मिन् देहे कथं कः अधियज्ञः ? प्रयाणकाले च नियतात्मभिः कथं ज्ञेयः असि ?

श्रीभगवानुवाच

अक्षरं ब्रम्ह परमं स्वभावोSध्यात्ममुच्यते ।
भूतभावोद्भवकरो विसर्गः कर्म संज्ञितः ॥ ३ ॥

अन्वय - परमं अक्षरं ब्रम्ह ( उच्यते ) स्वभावः अध्यात्मं उच्यते । भूतभावोद्भवकरः विसर्गः कर्म ( इति ) संज्ञितः ।

अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।
अधियज्ञोSहमेवात्र देहे देहभृतां वर ॥ ४ ॥

अन्वय - हे देहभृतां वर, क्षरः भावः अधिभूतं, पुरुषः च अधिदैवतं ( उच्यते ) । अत्र देहे अहं एव अधियज्ञः ।

अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ ५ ॥

अन्वय - यः च अन्तकाले मां एव स्मरन् कलेवरं मुक्त्वा प्रयाति, सः मद्भावं याति, अत्र संशयः न अस्ति ।

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ६ ॥

अन्वय - हे कौन्तेय, यं यं वा अपि भावं स्मरन् अन्ते कलेवरम् त्यजति, सदा तद्भावभावितः तं तं एव एति ।

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् ॥ ७ ॥

अन्वय - तस्मात् सर्वेषु कालेषु मां अनुस्मर युध्य च । मय्यर्पितमनोबुद्धिः मां एव असंशयं एष्यसि ।

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८ ॥

अन्वय - हे पार्थ, अभ्यासयोगयुक्तेन नान्यगामिना चेतसा अनुचिन्तयन् परमं दिव्यं पुरुषं याति ।

कविं पुराणं अनुशासितारमणोरणीयांसमनुस्मरेद्यः ।
सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥ ९ ॥

प्रयाणकाले मनसाSचलेन भक्त्या युक्तो योगबलेन चैव
भ्रुवोर्मध्ये प्राणमावेक्ष्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ॥ १० ॥

अन्वय - यः
प्रयाणकाले अचलेन मनसा भक्त्या युक्तः योगबलेन च सम्यक् प्राणं भ्रुवोः मध्ये आवेक्ष्य एव
अणोरणीयांसं (अणोः अणीयांसं) सर्वस्य धातारं अनुशासितारं अचिन्त्यरूपं आदित्यवर्णं पुराणं कविं
तमसः परस्तात् अनुस्मरेत्,
सः तं परं दिव्यं पुरुषं उपैति ।

यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः ।
यदिच्छन्तो ब्रम्हचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये ॥ ११ ॥

अन्वय - वेदविदः यत् अक्षरं वदन्ति, यत् वीतरागा: यतयः विशन्ति, यत् इच्छ्न्तः ब्रम्हचर्यं चरन्ति, तत् पदं ते संग्रहेण प्रवक्ष्ये ।

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥ १२ ॥

ओमित्येकाक्षरं ब्रम्ह व्याहरन् मामनुस्मरन् ।
य: प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ १३ ॥

अन्वय - सर्वद्वाराणि संयम्य, मनः हृदि निरुध्य च, आत्मनः प्राणं मूर्ध्नि आधाय, योगधारणां आस्थितः, "ओम्" इति एकाक्षरं ब्रम्ह व्याहरन्, मां अनुस्मरन् यः देहं त्यजन् प्रयाति, सः परमां गतिं याति ।

अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ १४ ॥

अन्वय - हे पार्थ, यः मां सततं अनन्यचेताः नित्यशः स्मरति, तस्य नित्ययुक्तस्य योगिनः अहं सुलभः ।

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गता: ॥ १५ ॥

अन्वय - मां उपेत्य परमां संसिद्धिं गताः महात्मानः दुःखालयं अशाश्वतं पुनर्जन्म न आप्नुवन्ति ।

आब्रम्हभुवनाल्लोकाः पुनरावर्तिनोSर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ १६ ॥

अन्वय - हे अर्जुन, आब्रम्हभुवनात् लोकाः पुनरावर्तिनः । कौन्तेय, मां उपेत्य तु पुनर्जन्म न विद्यते ।

सहस्रयुगपर्यन्तमहर्यद्ब्रम्हणो विदुः ।
रात्रिं युगसहस्राणां तेSहोरात्रविदो जनाः ॥ १७ ॥

अन्वय - (ये) ब्रम्हणः यत् अहः सहस्रयुगपर्यन्तं (इति) रात्रिं (च) युगसहस्राणां ते जनाः अहोरात्रविदः ।

अव्यक्ताद्व्यक्तयः सर्वा: प्रभवन्त्यहरागमे
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ १८ ॥

अन्वय - अहरागमे सर्वाः व्यक्तयः अव्यक्तात् प्रभवन्ति । रात्र्यागमे तत्र एव अव्यक्तसंज्ञके प्रलीयन्ते ।

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्यागमे अवशः पार्थ प्रभवत्यहरागमे ॥ १९ ॥

अन्वय - हे पार्थ, सः एव हि अयं भूतग्रामः अहरागमे प्रभवति रात्र्यागमे भूत्वा भूत्वा अवशः प्रलीयते ।

परस्तस्मात्तु भावोSन्योSव्यक्तोSव्यक्तात्सनातनः ।
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥

अन्वय - तस्मात् तु परः अन्यः अव्यक्तः अव्यक्तात् सनातनः यः भावः, सः सर्वेषु भूतेषु नश्यत्सु न विनश्यति ।

अव्यक्तोSक्षर इत्युक्तस्त्माहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ २१ ॥

अन्वय - (यं) अव्यक्तः अक्षरः इति उक्तः तं परमां गतिं आहुः । यं प्राप्य न निवर्तन्ते तत् मम परमं धाम ।

पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यान्तस्थानि भूतानि येन सर्वमिदं ततम् ॥ २२ ॥

अन्वय - हे पार्थ, भूतानि यस्य अन्तस्थानि, येन इदं सर्वं ततं, सः अनन्यया भक्त्या लभ्यः पुरुषः तु परः ।

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥

अन्वय - हे पार्थ, भूतानि यस्य अन्तस्थानि, येन इदं सर्वं ततं, सः अनन्यया भक्त्या लभ्यः पुरुषः तु परः ।

अग्निर्ज्योतिरहःशुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रम्ह ब्रम्हविदो जनाः ॥ २४ ॥

अन्वय - (यदि) अग्निः ज्योतिः अहः शुक्लः षण्मासा: उत्तरायणं, तत्र प्रयाताः ब्रम्हविदः जनाः ब्रम्ह गच्छन्ति ।

धूमो रात्रिस्तथाकृष्णः षण्मासा दक्षिणायनम् ।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ २५ ॥

अन्वय - (यदि) धूमः रात्रिः तथा कृष्णः षण्मासा: दक्षिणायनं, तत्र योगी चान्द्रमसं ज्योतिः प्राप्य निवर्तते ।

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ २६ ॥

अन्वय - एते शुक्लकृष्णे गती जगतः शाश्वते मते हि । एकया अनावृत्तिं याति अन्यया पुनः आवर्तते ।

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ २७ ॥

अन्वय - हे पार्थ, एते सृती जानन् कश्चन योगी न मुह्यति । तस्मात्, हे अर्जुन, सर्वेषु कालेषु योगयुक्तः भव ।

वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफ़लं प्रदिष्टम् ।
अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ २८ ॥

अन्वय - योगी इदं विदित्वा यत् पुण्यफ़लं वेदेषु यज्ञेषु तपःसु दानेषु च एव प्रदिष्टम्, तत् सर्वं अत्येति, परं आद्यं च स्थानं उपैति ।

ॐ तत्सत् ।
इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रम्हविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
अक्षरब्रम्हयोगो नाम अष्टमोSध्यायः ।

No comments:

Post a Comment