Thursday, July 8, 2010

एकादशोऽध्यायः । विश्वरूपदर्शनयोगः ।

अथैकादशोऽध्यायः | विश्वरूपदर्शनयोगः
अर्जुन उवाच |
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् |
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ||११-१||

अन्वयः - अर्जुनः उवाच, "मदनुग्रहाय यत् अध्यात्मसंज्ञितं परमं गुह्यं वचः त्वया उक्तं, तेन अयं मम मोहः विगतः ।

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया |
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ||११-२||

अन्वयः - हे कमलपत्राक्ष, मया त्वत्तः भूतानां भवाप्ययौ श्रुतौ हि, अपि च अव्ययं माहात्म्यं विस्तरशः (श्रुतम्) ।

एवमेतद्यथात्थ त्वमात्मानं परमेश्वर |
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ||११-३||

अन्वयः - परमेश्वर, एवं एतत् त्वं यथा आत्मानं आत्थ, पुरुषोत्तम, ते ऐश्वरं रूपं द्रष्टुं इच्छामि ।

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो |
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ||११-४||

अन्वयः - प्रभो, यदि तत् मया द्रष्टुं शक्यं इति मन्यसे, ततः, योगेश्वर, त्वं मे आत्मानं अव्ययं दर्शय ।

श्रीभगवानुवाच |
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः |
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ||११-५||

अन्वयः - श्रीभगवान् उवाच, "पार्थ, मे शतशः अथ सहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च रूपाणि पश्य ।

पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा |
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ||११-६||

अन्वयः - भारत, आदित्यान्, वसून्, रुद्रान्, अश्विनौ तथा मरुतः पश्य । बहूनि अदृष्टपूर्वाणि आश्चर्याणि पश्य ।

इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् |
मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि ||११-७||

अन्वयः - गुडाकेश, अद्य सचराचरं कृत्स्नं जगत्, यत् च अन्यत् द्रष्टुं इच्छसि, इह मम देहे एकस्थं पश्य ।

न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा |
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ||११-८||

अन्वयः - अनेन स्वचक्षुषा तु मां द्रष्टुं न शक्यसे एव । ते दिव्यं चक्षुः ददामि । मे ऐश्वरं योगं पश्य ।

सञ्जय उवाच |
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः |
दर्शयामास पार्थाय परमं रूपमैश्वरम् ||११-९||
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् |
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ||११-१०||
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् |
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ||११-११||

अन्वयः - सञ्जयः उवाच, "ततः राजन्, महायोगेश्वरः हरिः एवं उक्त्वा पार्थाय ऐश्वरं, अनेकवक्त्रनयनं, अनेकाद्भुतदर्शनं, अनेकदिव्याभरणं, दिव्यानेकोद्यतायुधं, दिव्यमाल्याम्बरधरं, दिव्यगन्धानुलेपनं, सर्वाश्चर्यमयं, विश्वतोमुखं, अनन्तं, देवं, परमं रूपं दर्शयामास ।

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता |
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ||११-१२||

अन्वयः - यदि सूर्यसहस्रस्य युगपदुत्थिता सदृशी भाः दिवि भवेत्, सा तस्य महात्मनः आभासः (एव) स्यात् ।

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा |
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ||११-१३||

अन्वयः - तदा पाण्डवः अनेकधा प्रविभक्तं कृत्स्नं जगत् तत्र देवदेवस्य शरीरे एकस्थं अपश्यत् ।

ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः |
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ||११-१४||

अन्वयः - ततः सः विस्मयाविष्टः हृष्टरोमाः धनञ्जयः कृताञ्जलिः देवं शिरसा प्रणम्य अभाषत ।

अर्जुन उवाच |
पश्यामि देवांस्तव देव देहे । सर्वांस्तथा भूतविशेषसङ्घान् |
ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ||११-१५||

अन्वयः - अर्जुनः उवाच, "देव, तव देहे देवान् तथा सर्वान् भूतविशेषसङ्घान् कमलासनस्थं ब्रम्हाणं ईशं च सर्वानुरगान् दिव्यान् ऋषीन् च पश्यामि ।

अनेकबाहूदरवक्त्रनेत्रं । पश्यामि त्वां सर्वतोऽनन्तरूपम् |
नान्तं न मध्यं न पुनस्तवादिं । पश्यामि विश्वेश्वर विश्वरूप ||११-१६||

अन्वयः - हे विश्वरूप, विश्वेश्वर, अनेकबाहूदरवक्त्रनेत्रं त्वां सर्वतः अनन्तरूपं पश्यामि । पुनः तव न आदिं न मध्यं न अन्तं पश्यामि ।

किरीटिनं गदिनं चक्रिणं च । तेजोराशिं सर्वतो दीप्तिमन्तम् |
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद् । दीप्तानलार्कद्युतिमप्रमेयम् ||११-१७||

अन्वयः - त्वां किरीटिनं गदिनं चक्रिणं च सर्वतः दीप्तिमन्तं तेजोराशिं समन्तात् दुर्निरीक्ष्यं अप्रमेयं दीप्तानलार्कद्युतिदीप्तानलार्कद्युतिं पश्यामि ।

त्वमक्षरं परमं वेदितव्यं । त्वमस्य विश्वस्य परं निधानम् |
त्वमव्ययः शाश्वतधर्मगोप्ता । सनातनस्त्वं पुरुषो मतो मे ||११-१८||

अन्वयः - वेदितव्यं परमं अक्षरं त्वं (असि) । त्वं अस्य विश्वस्य परं निधानं (असि) । त्वं शाश्वतधर्मगोप्ता अव्ययः (असि) । त्वं सनातनः पुरुषः (इति) मे मतः।

अनादिमध्यान्तमनन्तवीर्य- । मनन्तबाहुं शशिसूर्यनेत्रम् |
पश्यामि त्वां दीप्तहुताशवक्त्रं । स्वतेजसा विश्वमिदं तपन्तम् ||११-१९||

अन्वयः - अहं त्वां अनादिमध्यान्तं अनन्तवीर्यं अनन्तबाहुं शशिसूर्यनेत्रं दीप्तहुताशवक्त्रं स्वतेजसा इदं विश्वं तपन्तं पश्यामि ।

द्यावापृथिव्योरिदमन्तरं हि । व्याप्तं त्वयैकेन दिशश्च सर्वाः |
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं । लोकत्रयं प्रव्यथितं महात्मन् ||११-२०||

अन्वयः - द्यावापृथिव्योः इदं अन्तरं सर्वाः दिशः च त्वया एकेन व्याप्तं तव इदं अद्भुतं उग्रं रूपं दृष्ट्वा, महात्मन्, लोकत्रयं प्रव्यथितं हि (अस्ति) ।

अमी हि त्वां सुरसङ्घा विशन्ति । केचिद्भीताः प्राञ्जलयो गृणन्ति |
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः । स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ||११-२१||

अन्वयः - अमी सुरसङ्घाः त्वां हि विशन्ति, केचित् भीताः प्राञ्जलयोः गृणन्ति । महर्षिसिद्धसङ्घाः ’स्वस्ति’ इति उक्त्वा त्वां पुष्कलाभिः स्तुतिभिः स्तुवन्ति ।

रुद्रादित्या वसवो ये च साध्या
विश्वेऽश्विनौ मरुतश्चोष्मपाश्च |
गन्धर्वयक्षासुरसिद्धसङ्घा
वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ||११-२२||

अन्वय - रुद्रादित्याः वसवः, ये च विश्वे साध्याः, अश्विनौ, मरुतः च उष्मपाः च गन्धर्वयक्षासुरसिद्धसङ्घाः त्वां वीक्षन्ते, सर्वे च विस्मिताः एव ।

रूपं महत्ते बहुवक्त्रनेत्रं
महाबाहो बहुबाहूरुपादम् |
बहूदरं बहुदंष्ट्राकरालं
दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ||११-२३||

अन्वय - महाबाहो, बहुवक्त्रनेत्रं बहुबाहूरुपादम् बहूदरं बहुदंष्ट्राकरालं ते महत् रूपं दृष्ट्वा लोकाः प्रव्यथिताः तथा अहम् (अपि) ।

नभःस्पृशं दीप्तमनेकवर्णं
व्यात्ताननं दीप्तविशालनेत्रम् |
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा
धृतिं न विन्दामि शमं च विष्णो ||११-२४||

अन्वय - विष्णो, त्वां नभःस्पृशं दीप्तं अनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् दृष्ट्वा हि प्रव्यतितान्तरात्मा (अहं) न धृतिं शमं च विन्दामि ।

दंष्ट्राकरालानि च ते मुखानि
दृष्ट्वैव कालानलसन्निभानि |
दिशो न जाने न लभे च शर्म
प्रसीद देवेश जगन्निवास ||११-२५||

अन्वय - ते दंष्ट्राकरालानि कालानलसन्निभानि च मुखानि दृष्ट्वा एव (अहं) न दिशः जाने न च शर्म लभे । देवेश, जगन्निवास, प्रसीद ।

अमी च त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनिपालसङ्घैः |
भीष्मो द्रोणः सूतपुत्रस्तथासौ
सहास्मदीयैरपि योधमुख्यैः ||११-२६||
वक्त्राणि ते त्वरमाणा विशन्ति
दंष्ट्राकरालानि भयानकानि |
केचिद्विलग्ना दशनान्तरेषु
सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ||११-२७||

अन्वय - अमी धृतराष्ट्रस्य पुत्राः, सर्वे अवनिपालसङ्घैः सह एव, भीष्मः द्रोणः तथा असौ सूतपुत्रः, अस्मदीयैः योधमुख्यैः सह अपि ते दंष्ट्राकरालानि भयानकानि वक्त्राणि त्वरमाणाः विशन्ति । उत्तमाङ्गैः दशनान्तरेषु चूर्णितैः केचित् विलग्नाः सन्दृश्यन्ते ।

यथा नदीनां बहवोऽम्बुवेगाः
समुद्रमेवाभिमुखा द्रवन्ति |
तथा तवामी नरलोकवीरा
विशन्ति वक्त्राण्यभिविज्वलन्ति ||११-२८||

अन्वय - यथा नदीनां बहवः अम्बुवेगाः समुद्रं अभिमुखाः एव द्रवन्ति, तथा अमी नरलोकवीराः तव वक्त्राणि विशन्ति, अभिविज्वलन्ति च ।

यथा प्रदीप्तं ज्वलनं पतङ्गा
विशन्ति नाशाय समृद्धवेगाः |
तथैव नाशाय विशन्ति लोकास्-
तवापि वक्त्राणि समृद्धवेगाः ||११-२९||

अन्वय - यथा समृद्धवेगाः पतङ्गाः प्रदीप्तं ज्वलनं नाशाय विशन्ति, तथा लोकाः अपि तव वक्त्राणि समृद्धवेगाः नाशाय एव विशन्ति ।

लेलिह्यसे ग्रसमानः समन्ताल्-
लोकान्समग्रान्वदनैर्ज्वलद्भिः |
तेजोभिरापूर्य जगत्समग्रं
भासस्तवोग्राः प्रतपन्ति विष्णो ||११-३०||

अन्वय - समन्तात् ग्रसमानः (त्वं) समग्रान् लोकान् ज्वलद्भिः वदनैः लेलिह्यसे । भोः विष्णो, समग्रं जगत् तेजोभिः आपूर्य तव उग्राः भासः प्रतपन्ति ।

आख्याहि मे को भवानुग्ररूपो
नमोऽस्तु ते देववर प्रसीद |
विज्ञातुमिच्छामि भवन्तमाद्यं
न हि प्रजानामि तव प्रवृत्तिम् ||११-३१||

अन्वय - "उग्ररूपः भवान् कः" मे आख्याहि । देववर, ते नमः अस्तु, प्रसीद । भवन्तं आद्यं विज्ञातुं इच्छामि । तव प्रवृत्तिं न हि प्रजानामि ।

श्रीभगवानुवाच |
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो
लोकान्समाहर्तुमिह प्रवृत्तः |
ऋतेऽपि त्वां न भविष्यन्ति सर्वे
येऽवस्थिताः प्रत्यनीकेषु योधाः ||११-३२||

अन्वय - श्रीभगवान् उवाच - लोकक्षयकृत्प्रवृद्धः लोकान् समाहर्तुं इह प्रवृत्तः कालः अस्मि । ये सर्वे योधाः प्रत्यनीकेषु अवस्थिताः (ते) त्वां ऋते अपि न भविष्यन्ति ।

तस्मात्त्वमुत्तिष्ठ यशो लभस्व
जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् |
मयैवैते निहताः पूर्वमेव
निमित्तमात्रं भव सव्यसाचिन् ||११-३३||

अन्वय - तस्मात् त्वं उत्तिष्ठ, यशः लभस्व, शत्रून् जित्वा समृद्धं राज्यं भुङ्क्ष्व । एते मया एव पूर्वं एव निहताः । सव्यसाचिन् (त्वं) निमित्तमात्रं भव ।

द्रोणं च भीष्मं च जयद्रथं च
कर्णं तथान्यानपि योधवीरान् |
मया हतांस्त्वं जहि मा व्यथिष्ठा
युध्यस्व जेतासि रणे सपत्नान् ||११-३४||

अन्वय - द्रोणं च भीष्मं च जयद्रथं च कर्णं तथा अन्यान् अपि मया हतान् योधवीरान् त्वं जहि, मा व्यथिष्ठाः, रणे सपत्नान् युद्ध्यस्व जेता असि ।

सञ्जय उवाच |
एतच्छ्रुत्वा वचनं केशवस्य
कृताञ्जलिर्वेपमानः किरीटी |
नमस्कृत्वा भूय एवाह कृष्णं
सगद्गदं भीतभीतः प्रणम्य ||११-३५||

अन्वय - सञ्जयः उवाच - केशवस्य एतत् वचनं श्रुत्वा वेपमानः किरीटी कृताञ्जलिः एव कृष्णं भूयः नमः कृत्वा प्रणम्य भीतभीतः सगद्गदं आह ।

अर्जुन उवाच |
स्थाने हृषीकेश तव प्रकीर्त्या
जगत्प्रहृष्यत्यनुरज्यते च |
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति च सिद्धसङ्घाः ||११-३६||

अन्वय - अर्जुनः उवाच - हृषीकेश, तव प्रकीर्त्या जगत् प्रहृष्यति स्थाने अनुरज्यते च । रक्षांसि भीतानि, दिशः द्रवन्ति, सर्वे सिद्धसङ्घाः नमस्यन्ति च ।

कस्माच्च ते न नमेरन्महात्मन्
गरीयसे ब्रह्मणोऽप्यादिकर्त्रे |
अनन्त देवेश जगन्निवास
त्वमक्षरं सदसत्तत्परं यत् ||११-३७||

अन्वय - महात्मन्, ब्रह्मणः अपि आदिकर्त्रे, गरीयसे च कस्मात् ते न नमेरन् ? अनन्त, देवेश, जगन्निवास, यत् सदसत्तत्परं अक्षरं (तत्) त्वं (असि) ।

त्वमादिदेवः पुरुषः पुराणस्-
त्वमस्य विश्वस्य परं निधानम् |
वेत्तासि वेद्यं च परं च धाम
त्वया ततं विश्वमनन्तरूप ||११-३८||

अन्वय - त्वं आदिदेवः, पुराणः पुरुषः । त्वं अस्य विश्वस्य परं निधानम् । वेद्यं च परं धाम च वेत्ता असि । अनन्तरूप, विश्वं त्वया ततं (अस्ति) ।

वायुर्यमोऽग्निर्वरुणः शशाङ्कः
प्रजापतिस्त्वं प्रपितामहश्च |
नमो नमस्तेऽस्तु सहस्रकृत्वः
पुनश्च भूयोऽपि नमो नमस्ते ||११-३९||

अन्वय - त्वं वायुः, अग्निः, वरुणः, शशाङ्कः, प्रजापतिः, प्रपितामहः च (असि) । वः ते सहस्रकृत् नमः नमः अस्तु । पुनः च भूयः अपि ते नमः नमः ।

नमः पुरस्तादथ पृष्ठतस्ते
नमोऽस्तु ते सर्वत एव सर्व |
अनन्तवीर्यामितविक्रमस्त्वं
सर्वं समाप्नोषि ततोऽसि सर्वः ||११-४०||

अन्वय - ते पुरस्तात् अथ पृष्ठतः नमः । ते सर्वतः एव सर्व नमः अस्तु । त्वं अनन्तवीर्यामितविक्रमः । (त्वं) सर्वं समाप्नोषि । ततः सर्वः असि ।

सखेति मत्वा प्रसभं यदुक्तं
हे कृष्ण हे यादव हे सखेति |
अजानता महिमानं तवेदं
मया प्रमादात्प्रणयेन वापि ||११-४१||

अन्वय - ’हे कृष्ण, हे यादव, हे सखा’ इति यत् मया प्रसभं उक्तं (तत्) तव इदं महिमानं अजानता, प्रमादात् वा सखा इति मत्वा प्रणयेन अपि ।

यच्चावहासार्थमसत्कृतोऽसि
विहारशय्यासनभोजनेषु |
एकोऽथवाप्यच्युत तत्समक्षं
तत्क्षामये त्वामहमप्रमेयम् ||११-४२||

अन्वय - अच्युत, यत् च विहारशय्यासनभोजनेषु अवहासार्थं असत्कृतः अपि असि, तत् एकः अथवा तत् समक्षं क्षामये । अहं त्वां अप्रमेयम् ।

पितासि लोकस्य चराचरस्य
त्वमस्य पूज्यश्च गुरुर्गरीयान् |
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो
लोकत्रयेऽप्यप्रतिमप्रभाव ||११-४३||

अन्वय - त्वं अस्य चराचरस्य लोकस्य पूज्यः गुरुः च गरीयान् पिता असि । हे अप्रतिमप्रभाव, लोकत्रये अपि त्वत्समः न अस्ति, अन्यः अधिकः कुतः ।

तस्मात्प्रणम्य प्रणिधाय कायं
प्रसादये त्वामहमीशमीड्यम् |
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम् ||११-४४||

अन्वय - तस्मात् प्रणम्य, कायं प्रणिधाय अहं त्वां ईड्यं ईशं प्रसादये । देव, पुत्रस्य पिता इव, सख्युः सखा इव, प्रियाय प्रियः सोढुं अर्हसि ।

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा
भयेन च प्रव्यथितं मनो मे |
तदेव मे दर्शय देव रूपं
प्रसीद देवेश जगन्निवास ||११-४५||

अन्वय - अदृष्टपूर्वं दृष्ट्वा हृषितः अस्मि, भयेन च मे मनः प्रव्यथितम् । देव, देवेश, जगन्निवास, प्रसीद, मे तत् एव रूपं दर्शय ।

किरीटिनं गदिनं चक्रहस्तं
इच्छामि त्वां द्रष्टुमहं तथैव |
तेनैव रूपेण चतुर्भुजेन
सहस्रबाहो भव विश्वमूर्ते ||११-४६||

अन्वय - सहस्रबाहो, विस्वमूर्ते, तेन एव चतुर्भुजेन रूपेण भव । त्वां अहं तथा एव किरीटिनं गदिनं चक्रहस्तं द्रष्टुं इच्छामि ।

श्रीभगवानुवाच |
मया प्रसन्नेन तवार्जुनेदं
रूपं परं दर्शितमात्मयोगात् |
तेजोमयं विश्वमनन्तमाद्यं
यन्मे त्वदन्येन न दृष्टपूर्वम् ||११-४७||

अन्वय - श्रीभगवान् उवाच - अर्जुन, मया तव प्रसन्नेन इदं मे तेजोमयं विश्वं अनन्तं आद्यं परं (तत्) रूपं आत्मयोगात् दर्शितम्, यत् त्वदन्येन न दृष्टपूर्वम् ।

न वेदयज्ञाध्ययनैर्न दानैर्-
न च क्रियाभिर्न तपोभिरुग्रैः |
एवंरूपः शक्य अहं नृलोके
द्रष्टुं त्वदन्येन कुरुप्रवीर ||११-४८||

अन्वय - कुरुप्रवीर, नृलोके त्वदन्येन अहं एवंरूपः द्रष्टुं न शक्यः वेदयज्ञाध्ययनैः, न दानैः, न च क्रियाभिः, न उग्रैः तपोभिः ।

मा ते व्यथा मा च विमूढभावो
दृष्ट्वा रूपं घोरमीदृङ्ममेदम् |
व्यपेतभीः प्रीतमनाः पुनस्त्वं
तदेव मे रूपमिदं प्रपश्य ||११-४९||

अन्वय - मम इदं ईदृक् घोरं रूपं दृष्ट्वा ते व्यथा मा विमूढभावः च मा । व्यपेतभीः प्रीतमनाः त्वं पुनः इदं तत् एव रूपं प्रपश्य ।

सञ्जय उवाच |
इत्यर्जुनं वासुदेवस्तथोक्त्वा
स्वकं रूपं दर्शयामास भूयः |
आश्वासयामास च भीतमेनं
भूत्वा पुनः सौम्यवपुर्महात्मा ||११-५०||

अन्वय - सञ्जयः उवाच - महात्मा वासुदेवः अर्जुनं तथा इति उक्त्वा भूयः स्वकं रूपं दर्शयामास, पुनः सौम्यवपुः भूत्वा एनं भीतं आश्वासयामास च ।

अर्जुन उवाच |
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन |
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ||११-५१||

अन्वय - अर्जुनः उवाच - जनार्दन, तव इदं सौम्यं मानुषं रूपं दृष्ट्वा इदानीं सचेताः संवृत्तः प्रकृतिं गतः अस्मि ।

श्रीभगवानुवाच |
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम |
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ||११-५२||

अन्वय - श्रीभगवान् उवाच - यत् इदं मम सुदुर्दर्शं रूपं दृष्टवान् असि, अस्य रूपस्य देवाः अपि नित्यं दर्शनकाङ्क्षिणः (सन्ति) ।

नाहं वेदैर्न तपसा न दानेन न चेज्यया |
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ||११-५३||

अन्वय - मां यथा दृष्टवान् असि एवंविधः द्रष्टुं अहं न शक्यः वेदैः, न तपसा, न दानेन, न च इज्यया ।

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन |
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ||११-५४||

अन्वय - परंतप अर्जुन, अनन्यया भक्त्या तु अहं शक्यः एवंविधः ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च ।

मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः |
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ||११-५५||

अन्वय - पाण्डव, यः सङ्गवर्जितः, मत्कर्मकृत्, मत्परमः, मद्भक्तः, सर्वभूतेषु निर्वैरः सः मां एति ।

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः |

No comments:

Post a Comment