Thursday, July 8, 2010

तृतीयो S ध्यायः | कर्मयोगो नाम |

ॐ श्री परमात्मने नमः| अथ तृतीयो S ध्यायः | कर्मयोगो नाम |

1अर्जुन उवाच
ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन |
तत्किं कर्मणि घोरे मां नियोजयसि केशव || १ ||
अर्जुनः उवाच, "जनार्दन, चेत् ते मता बुद्धिः कर्मणः ज्यायसी ( अस्ति ), तत् केशव, मां घोरे कर्मणि किं नियोजयसि ?
2व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे |
तदेकं वद निश्चित्य येन श्रेयो S हमाप्नुयाम् || २ ||
व्यामिश्रेण वाक्येन मे बुद्धिं मोहयसि इव | येन अहम् श्रेयः आप्नुयाम् तत् एकं निश्चित्य वद |
3
श्री भगवान उवाच
लोके S स्मिन द्विविधा निष्ठा पुरा प्रोक्ता मयानघ |
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् || ३ ||
श्रीभगवान् उवाच, "अनघ, अस्मिन् लोके मया पुरा द्विविधा निष्ठा प्रोक्ता - ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् |
4न कर्मणामनाराम्भात् नैष्कर्म्यं पुरुषोऽश्नुते |
न च संन्यसनादेव सिद्धिम समधिगच्छति || ४ ||
कर्मणाम् अनारम्भात् पुरुषः नैष्कर्म्यं न अश्नुते | न च संन्यसनात् एव सिद्धिं समधिगच्छति |
5न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् |
कार्यते ह्यवशः कर्म सर्वः प्रक्रुतिजैर्गुणै: || ५ ||
कश्चित् जातु क्षणं अपि अकर्मकृत् न तिष्ठति हि | सर्वः प्रक्रुतिजै: गुणै: अवशः हि | कर्म (तु) कार्यते एव |

यह पाँचवा श्लोक ठीक अन्वय बनानेके लिए बहुतही आव्हानात्मक है |
'प्रक्रुतिजै: गुणै: कर्म कार्यते' यह वाक्यांश कर्मणि प्रयोगमें है |
कर्तरीमें इसका रूप 'प्रक्रुतिजा: गुणाः कर्म कुर्वन्ति' यह होगा |
लेकिन 'सर्वः' शब्द पुल्लिंगी प्रथमा विभक्तीका है | दूसरा कोई भी शब्द पुल्लिंगी नहीं है |
इसलिए वह अन्य किसीभी शब्दों के साथ मेल नहीं खाता | कुल मिलाकर व्याकरण दृष्टीसे समाधानकारक अन्वय नहीं बनता |
6कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् |
इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते || ६ ||
यः विमूढात्मा कर्मेन्द्रियाणि संयम्य मनसा इन्द्रियार्थान् स्मरन् आस्ते सः मिथ्याचारः उच्यते |
7यस्त्विन्द्रियाणि मनसा नियम्यारभते S र्जुन |
कर्मेन्द्रियै: कर्मयोगमसक्तः स विशिष्यते || ७ ||
अर्जुन, यः तु इन्द्रियाणि मनसा नियम्य असक्तः कर्मेन्द्रियै: कर्मयोगं आरभते सः विशिष्यते |
8
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मण: |
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मण: || ८ ||
त्वं नियतं कर्म कुरु | अकर्मण: कर्म ज्यायः हि | हि अकर्मण: ते शरीरयात्रा अपि न प्रसिद्ध्येत् |
9यज्ञार्थात्कर्मणो S न्यत्र लोको S यं कर्मबन्धनः |
तदर्थं कर्म कौन्तेय मुक्तसन्ग: समाचर || ९ ||
अन्वय १ - यज्ञार्थात्कर्मण: (लोकः) अन्यत्र, अयं लोकः कर्मबन्धनः | तदर्थं कौन्तेय मुक्तसन्ग: कर्म समाचर |
अन्वय २ - अन्यत्र यज्ञार्थात् कर्मणः अयं लोकः कर्मबन्धनः | तदर्थं कौन्तेय मुक्तसन्ग: कर्म समाचर |

संधिविग्रह अलग तरहसे करनेसे या अन्वय भी अलग तरहसे करनेसे भावार्थमे काफी फरक आता है |
अलग अलग लोग गीताका अलग अलग अर्थ पेश करते हैं इसका यह एक महत्त्वपूर्ण कारण है |
10सहयज्ञा: प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः |
अनेन प्रसविश्यध्वं एष वोऽस्त्विष्टकामधुक् || १० ||
सहयज्ञा: प्रजाः सृष्ट्वा प्रजापतिः पुरा उवाच, "अनेन प्रसविश्यध्वं | एषः वः इष्टकामधुक् अस्तु |"
11देवान्भावयतानेन ते देवा भावयन्तु वः |
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ || ११ ||
अनेन देवाः भावयत, ते देवाः वः भावयन्तु, (एवं) परस्परं भावयन्तः परं श्रेयः अवाप्स्यथ |
12इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः |
तैर्दत्तानप्रदायैभ्यो यो भुंक्ते स्तेन एव सः || १२ ||
यज्ञभाविताः देवाः वः इष्टान् भोगान् हि दास्यन्ते | तैः दत्तान् (भोगान्) यः एभ्यः अप्रदाय भुंक्ते सः स्तेनः एव |
13यज्ञशिष्टाशिनः संतो मुच्यन्ते सर्वकिल्बिषै: |
भुंजते ते त्वघं पापा ये पचन्त्यात्मकारणात् || १३ ||
यज्ञशिष्टाशिनः सन्तः सर्वकिल्बिषै: मुच्यन्ते | ये आत्मकारणात् पचन्ति, ते तु अघं पापाः भुंजते |
14अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भव: |
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः || १४ ||
भूतानि अन्नात् भवन्ति, पर्जन्यात् अन्नसंभवः (भवति) | यज्ञात् पर्जन्यः भवति, यज्ञः (तु) कर्मसमुद्भवः (भवति) |
15कर्म ब्रम्होद्भवं विद्धि ब्रम्हाक्षरसमुद्भवं |
तस्मात्सर्वगतं ब्रम्ह नित्यं यज्ञे प्रतिष्ठितं || १५ ||
कर्म ब्रम्होद्भवं विद्धि, ब्रम्ह अक्षरसमुद्भवम् | तस्मात् सर्वगतं ब्रम्ह नित्यं यज्ञे प्रतिष्ठितम् |
16एवं प्रवर्तितं चक्रं नानुवर्तयातीह यः |
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति || १६ ||
पार्थ, यः एवं प्रवर्तितं चक्रं इह न अनुवर्तति, सः अघायुः इन्द्रियारामः मोघं जीवति |
17यस्त्वात्मरतिरेव स्यात् आत्मत्रुप्तश्च मानवः |
आत्मन्येव च संतुष्टस्तस्य कार्यम् न विद्यते || १७ ||
यः तु मानवः आत्मतृप्तः एव आत्मरतिः आत्मनि एव संतुष्टः च स्यात्, तस्य कार्यम् न विद्यते |
18नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन |
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः || १८ ||
इह तस्य कृतेन कश्चन: अर्थः न, न अकृतेन (कश्चन: अर्थः) | अस्य च सर्वभूतेषु कश्चित् अर्थव्यपाश्रयः न |
19
तस्मादसक्तः सततं कार्यम् कर्म समाचर |
असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः || १९ ||
तस्मात् सततं कार्यम् कर्म असक्तः समाचर | असक्तः कर्म आचरन् पूरुषः हि परं आप्नोति |
20
कर्मणैव हि संसिद्धिमास्थिता जनकादयः |
लोकसंग्रहमेवापि सम्पश्यन्कर्तुमर्हसि || २० ||
जनकादयः कर्मणा एव संसिद्धिम् आस्थिताः | सम्पश्यन् (त्वं) लोकसन्ग्रहम् अपि कर्तुम् अर्हसि एव |
21यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः |
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते || २१ ||
श्रेष्ठः यद् यद् आचरति तद् तद् एव इतरः जनः | सः यत् प्रमाणं कुरुते, लोकः तद् अनुवर्तते |
22
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन |
नानवाप्तमवाप्तव्यम् वर्त एव च कर्मणि || २२ ||
पार्थ, मे त्रिषु लोकेषु किंचन कर्तव्यं न अस्ति | न (किंचन) अनवाप्तं, (न किंचन) अवाप्तव्यम् (अस्ति) | कर्मणि च वर्ते एव |
23यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रित: |
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः || २३ ||
पार्थ, यदि अहम् जातु कर्मणि अतन्द्रितः न वर्तेयं, सर्वशः मनुष्याः मम वर्त्म अनुवर्तन्ते |
24उत्सीदेयुरिमे लोका न कुर्याम् कर्म चेदहम् |
संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः || २४ ||
चेद् अहम् कर्म न कुर्याम्, इमे लोकाः उत्सीदेयुः, (अहम्) संकरस्य कर्ता स्याम्, इमाः प्रजाः उपहन्याम् च |
25सक्ताः कर्मण्यविद्वान्सो यथा कुर्वन्ति भारत |
कुर्याद्विद्वान्स्तथासक्तस्चिकिर्षुर्लोकसंग्रहम || २५ ||
भारत, कर्मणि सक्ताः अविद्वांसः यथा कुर्वन्ति, तथा असक्तः लोकसंग्रहम् चिकिर्षु: विद्वान् कुर्यात् |
26न बुद्धिभेदं जनयेदज्ञानाम् कर्मसंगिनाम् |
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् || २६ ||
अज्ञानाम् कर्मसंगिनाम् बुद्धिभेदं न जनयेत् | युक्तः समाचरन् विद्वान् सर्वकर्माणि जोषयेत् |
27प्रकृतेः क्रियमाणानि गुणै: कर्माणि सर्वशः |
अहंकारविमूढात्मा कर्ताहमिति मन्यते || २७ ||
सर्वशः कर्माणि प्रकृतेः गुणै: क्रियमाणानि | अहंकारविमूढात्मा ' अहम् कर्ता ' इति मन्यते |
28तत्त्ववित्तु महाबाहो गुणकर्मविभागयो: |
गुणा गुणेषु वर्तन्ते इति मत्वा न सज्जते || २८ ||
महाबाहो, गुणकर्मविभागयो: तत्त्ववित् तु ' गुणाः गुणेषु वर्तन्ते ' इति मत्वा न सज्जते |
29प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु |
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् || २९ ||
प्रकृतेः गुणसम्मूढाः गुणकर्मसु सज्जन्ते | तान् अकृत्स्नविदः मन्दान् कृत्स्नवित् न विचालयेत् |
30मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा |
निराशीर्निर्ममो भूत्वा युद्ध्यस्व विगतज्वरः || ३० ||
अध्यात्मचेतसा सर्वाणि कर्माणि मयि संन्यस्य निराशीः निर्ममः भूत्वा विगतज्वरः युद्ध्यस्व |
31ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः |
श्रद्धावंतो S नसूयन्तो मुच्यन्ते ते S पि कर्मभिः || ३१ ||
ये मानवाः मे इदं मतं नित्यं अनुतिष्ठन्ति, ते श्रद्धावन्तः अनसूयन्तः कर्मभिः अपि मुच्यन्ते |
32
ये त्वेतद्भ्यसूयन्तो नानुतिष्ठन्ति मे मतम् |
सर्वज्ञानविमूढान्स्तान्विद्धि नष्टानचेतस: || ३२ ||
ये तु अभ्यसूयंत: मे एतद् मतम् न अनुतिष्ठन्ति, तान् अचेतसः सर्वज्ञानविमूढान् नष्टान् विद्धि |
33
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि |
प्रकृतिम् यान्ति भूतानि निग्रहः किं करिष्यति || ३३ ||
ज्ञानवान् अपि स्वस्याः प्रकृतेः सदृशं चेष्टते | भूतानि प्रकृतिम् (एव) यान्ति | निग्रहः किं करिष्यति |
34
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ |
तयोर्न वशमागच्छेत् तौ ह्यस्य परिपन्थिनौ || ३४ ||
इन्द्रियस्य इन्द्रियस्य अर्थे रागद्वेषौ व्यवस्थितौ | तयोः वशं न आगच्छेत् | तौ अस्य परिपन्थिनौ हि |
35
श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् |
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः || ३५ ||
परधर्मात् स्वनुष्ठितात् विगुणः (अपि) स्वधर्मः श्रेयः | स्वधर्मे निधनं श्रेयः | परधर्मः (तु) भयावहः |
36
अर्जुन उवाच |
अथ केन प्रयुक्तो S यम् पापं चरति पूरुषः |
अनिच्छन् अपि वार्ष्णेय बलादिव नियोजितः || ३६ ||
अर्जुनः उवाच, "वार्ष्णेय, अथ केन प्रयुक्तः अयं पूरुषः अनिच्छन् अपि बलात् नियोजितः इव पापं चरति |
37
श्रीभगवान् उवाच |
काम एष क्रोध एष रजोगुणसमुद्भवः |
महाशनो महापाप्मा विध्येनं इह वैरिणम् || ३७ ||
श्रीभगवान् उवाच, "रजोगुणसमुद्भवः एषः कामः एषः क्रोधः महाशनः महापाप्मा | इह एनं वैरिणम् विद्धि |
38
धूमेनाव्रियते वन्हिर्यथादर्शो मलेन च |
यथोल्बेनावृतो गर्भस्तथा तेनेदामावृतम् || ३८ ||
यथा वन्हिः धूमेन, आदर्शः च मलेन आव्रियते, यथा उल्बेन गर्भः आवृतः तथा तेन इदं आवृतम् |
39
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा |
कामरूपेण कौन्तेय दुष्पूरेणानलेन च || ३९ ||
कौन्तेय, ज्ञानिनः नित्यवैरिणा एतेन कामरूपेण दुष्पूरेण अनलेन च ज्ञानम् आवृतम् |
40
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते |
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् || ४० ||
इन्द्रियाणि मनः बुद्धिः अस्य अधिष्ठानं उच्यते | एषः ज्ञानम् आवृत्य एतैः देहिनं विमोहयति |
41
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ |
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् || ४१ ||
भरतर्षभ, तस्मात् त्वं आदौ इन्द्रियाणि नियम्य एनं ज्ञानविज्ञाननाशनम् पाप्मानं प्रजहि हि |
42
इन्द्रियाणि पराण्याहु: इन्द्रियेभ्यः परं मनः |
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः || ४२ ||
(विद्वंतः) आहुः यत्, इन्द्रियाणि पराणि, इन्द्रियेभ्यः मनः परं, बुद्धिः तु मनसः परा, सः तु बुद्धेः परतः |
43
एवं बुद्धेः परं बुद्ध्वा सन्स्तभ्यात्मानमात्मना |
जहिः शत्रुं महाबाहो कामरूपं दुरासदम् || ४३ ||
महाबाहो, एवं बुद्धेः परं बुद्ध्वा, आत्मानम् आत्मना संस्तभ्य दुरासदम् कामरूपं शत्रुं जहि |

ॐ तत्सत् |
इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रम्हविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे
कर्मयोगो नाम तृतीयो S ध्यायः |

No comments:

Post a Comment