Thursday, July 8, 2010

चतुर्थो S ध्यायः | ज्ञानकर्मसंन्यासयोगो नाम |

अथ चतुर्थो S ध्यायः | ज्ञानकर्मसंन्यासयोगो नाम |

1
श्री भगवान उवाच |
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् |
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवे S ब्रवीत् || १ ||
इमं अव्ययं योगं अहं विवस्वते प्रोक्तवान् | विवस्वान् मनवे प्राह | मनुः इक्ष्वाकवे अब्रवीत् |
2एवं परम्पराप्राप्तमिमं राजर्षयो विदुः |
स कालेनेह महता योगो नष्टः परंतप || २ ||
परंतप, एवं राजर्षयः परम्पराप्राप्तम् इमं (योगं) विदुः | सः योगः इह महता कालेन नष्टः |

पहले वाक्यके अन्वयमें शब्दोंका क्रम बदलनेसे अलग अलग भावार्थ बनते हैं, जैसे -
एवं इमं परम्पराप्राप्तम् (योगं) राजर्षयः विदुः | या - एवं राजर्षयः इमं परम्पराप्राप्तम् (योगं) विदुः |
3स एवायं मया ते S द्य योगः प्रोक्तः पुरातनः |
भक्तो S सि मे सखा चेति रहस्यं ह्येतदुत्तमम् || ३ ||
सः एव पुरातनः योगः मया अद्य अयं ते प्रोक्तः | मे भक्तः सखा च असि इति हि एतद् उत्तमं रहस्यं (प्रोक्तं) |
4
अर्जुन उवाच |
अपरं भवतो जन्म परं जन्म विवस्वतः |
कथमेतद्विजानीयाम् त्वमादौ प्रोक्तवानिति || ४ ||
अर्जुनः उवाच, "भवतः जन्म अपरं, विवस्वतः जन्म (तु) परम् | एतद् (रहस्यं) आदौ त्वं प्रोक्तवान् इति कथं विजानीयाम् |
5
श्री भगवान उवाच |
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन |
तान्यहम वेद सर्वाणि न त्वं वेत्थ परंतप || ५ ||
अर्जुन, मे तव च बहूनि जन्मानि व्यतीतानि | परंतप, अहम् तानि सर्वाणि वेद, त्वं न वेत्थ |
6
अजो S पि सन्नव्ययात्मा भूतानामीश्वरो S पि सन् |
प्रकृतिम् स्वामधिष्ठाय सम्भवाम्यात्ममायया || ६ ||
अजः अव्ययात्मा अपि सन् भूतानां ईश्वरः अपि सन्, स्वां प्रकृतिम् अधिष्ठाय आत्ममायया संभवामि |
7यदा यदा हि धर्मस्य ग्लानिर्भवति भारत |
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् || ७ ||
भारत, यदा यदा हि धर्मस्यग्लानिः भवति, अधर्मस्य अभ्युत्थानं ( च भवति ) तदा अहम् आत्मानं सृजामि |
8परित्राणाय साधूनां विनाशाय च दुष्कृताम् |
धर्मसंस्थापनार्थाय संभवामि युगे युगे || ८ ||
साधूनां परित्राणाय दुष्कृताम् विनाशाय च धर्मसंस्थापनार्थाय ( च अहम् ) युगे युगे संभवामि |
9जन्म कर्म च मे दिव्यं एवं यो वेत्ति तत्त्वतः |
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सो S र्जुन || ९ ||
अर्जुन, मे जन्म कर्म च दिव्यं, एवं यः तत्त्वतः वेत्ति, सः देहं त्यक्त्वा पुनः जन्म न एति, (सः) माम् एति |
10वीतरागभयक्रोधा मन्मया मामुपाश्रिताः |
बहवो ज्ञानतपसा पूता मद्भावमागताः || १० ||
वीतरागभयक्रोधाः, मन्मया:, मां उपाश्रिताः, ज्ञानतपसा पूताः, बहवः मद्भावं आगताः |
11ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् |
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः || ११ ||
ये मां यथा प्रपद्यन्ते तान् अहम् तथा एव भजामि | पार्थ, मनुष्याः सर्वशः मम वर्त्मा अनुवर्तन्ते |
12कान्क्षन्त: कर्मणाम् सिद्धिं यजन्त इह देवताः |
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा || १२ ||
इह कर्मणाम् सिद्धिं कान्क्षन्त: देवताः यजन्ते | मानुषे लोके कर्मजा सिद्धिः क्षिप्रं हि भवति |
13चातुर्वर्ण्यम् मया स्रुष्टम् गुणकर्मविभागशः |
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् || १३ ||
मया गुणकर्मविभागशः चातुर्वर्ण्यम् स्रुष्टम् | अव्ययं मां तस्य कर्तारं अकर्तारं अपि विद्धि |
14न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा |
इति मां यो S भिजानाती कर्मभिर्न स बध्यते || १४ ||
"कर्माणि मां न लिम्पन्ति, न मे कर्मफले स्पृहा" इति यः मां अभिजानाति, सः कर्मभिः न बध्यते |
15एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षिभिः |
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् || १५ ||
पूर्वैः मुमुक्षिभिः अपि कर्म एवं ज्ञात्वा (एव) कृतम् | तस्मात् त्वं पूर्वैः पूर्वतरं कृतं एव कर्म कुरु |
16किं कर्म किमकर्मेति कवयो S प्यत्र मोहिताः |
तत्ते कर्म प्रविक्ष्यामि यज्ज्ञात्वा मोक्ष्यसे S शुभात् || १६ ||
" किं कर्म किं अकर्म " इति अत्र कवयः अपि मोहिताः | ते तत् कर्म प्रविक्ष्यामि, यत् ज्ञात्वा अशुभात् मोक्ष्यसे |
17कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः |
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः || १७ ||
कर्मणः गतिः गहना, हि कर्मणः अपि बोद्धव्यं, विकर्मणः च बोद्धव्यं, अकर्मणः च बोद्धव्यम् |
18कर्मण्यकर्म यः पश्येत् अकर्मणि च कर्म यः |
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् || १८ ||
यः कर्मणि अकर्म पश्येत्, यः च अकर्मणि कर्म (पश्येत्), सः मनुष्येषु बुद्धिमान्, कृत्स्नकर्मकृत् (अपि) सः युक्तः |
19यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः |
ज्ञानाग्निदग्धकर्माणम् तमाहुः पण्डितम् बुधाः || १९ ||
यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः, तं ज्ञानाग्निदग्धकर्माणम् बुधाः पण्डितम् आहुः |
20त्यक्त्वा कर्मफलासंगं नित्यतृप्तो निराश्रयः |
कर्मण्यभिप्रवृत्तो S पि नैव किंचित्करोति सः || २० ||
कर्मफलासंगं त्यक्त्वा नित्यतृप्तः निराश्रयः कर्मणि अभिप्रवृत्तः अपि सः किंचित् एव न करोति |
21निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः |
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् || २१ ||
निराशी:, यतचित्तात्मा, त्यक्तसर्वपरिग्रहः, केवलं शारीरं कर्म कुर्वन्, किल्बिषम् न आप्नोति |
22यद्रुच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः |
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते || २२ ||
यद्रुच्छालाभसन्तुष्टः, द्वंद्वातीतः, विमत्सरः, सिद्धौ असिद्धौ च समः कृत्वा अपि न निबध्यते |
23गतसंगस्य मुक्तस्य ज्ञानावस्थितचेतसः |
यज्ञायाचरतः कर्म समग्रं प्रविलीयते || २३ ||
गतसंगस्य, मुक्तस्य, ज्ञानावस्थितचेतसः, यज्ञाय आचरतः समग्रं कर्म प्रविलीयते |
24ब्रम्हार्पणम् ब्रम्हहविर्ब्रम्हाग्नौ ब्रम्हणा हुतम् |
ब्रम्हैव तेन गन्तव्यं ब्रम्हकर्मसमाधिना || २४ ||
ब्रम्हणा ब्रम्हहविः ब्रम्हाग्नौ ब्रम्हार्पणम् हुतम् | तेन ब्रम्हकर्मसमाधिना ब्रम्ह एव गन्तव्यम् |
25दैवमेवापरे यज्ञम् योगिनः पर्युपासते |
ब्रम्हाग्नावपरे यज्ञम् यज्ञेनैवोपजिव्हति || २५ ||
अपरे योगिनः दैवं यज्ञम् एव पर्युपासते | अपरे ब्रम्हाग्नौ यज्ञम् यज्ञेन एव उपजिव्हति |
26श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुव्हति |
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुव्हति || २६ ||
अन्ये श्रोत्रादीनि इन्द्रियाणि संयमाग्निषु जुव्हति | अन्ये शब्दादीनि विषयानि इन्द्रियाग्निषु जुव्हति |
27सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे |
आत्मसंयमयोगाग्नौ जुव्हति ज्ञानदीपिते || २७ ||
अपरे सर्वाणि इन्द्रियकर्माणि प्राणकर्माणि च ज्ञानदीपिते आत्मसंयमयोगाग्नौ जुव्हति |
28द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे |
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः || २८ ||
तथा अपरे द्रव्ययज्ञाः तपोयज्ञाः योगयज्ञाः स्वाध्यायज्ञानयज्ञाः च संशितव्रताः यतयः |
29अपाने जुव्हति प्राणं प्राणे S पानं तथापरे |
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः || २९ ||
अपरे प्राणायामपरायणाः प्राणापानगती रुद्ध्वा प्राणं अपाने जुव्हति, तथा अपानं प्राणे (जुव्हति) |
30अपरे नियताहाराः प्राणान् प्राणेषु जुव्हति |
सर्वे S प्येते यज्ञविदो यज्ञक्षपितकल्मषाः || ३० ||
अपरे नियताहाराः प्राणान् प्राणेषु जुव्हति | एते सर्वे अपि यज्ञविदः यज्ञक्षपितकल्मषाः |
31यज्ञशिष्टामृतभुजो यान्ति ब्रम्हसनातनम् |
नायं लोको S स्त्ययज्ञस्य कुतो S न्यः कुरुसत्तम || ३१ ||
यज्ञशिष्टामृतभुजः ब्रम्हसनातनम् यान्ति | कुरुसत्तम, अयज्ञस्य अयं लोकः न अस्ति, कुतः अन्यः |
32एवं बहुविधा यज्ञा वितता ब्रम्हणो मुखे |
कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे || ३२ ||
एवं ब्रम्हणः मुखे बहुविधाः यज्ञाः वितताः | तान् सर्वान् कर्मजान् विद्धि | एवं ज्ञात्वा विमोक्ष्यसे |
33श्रेयान्द्रव्यमयाद्यज्ञात् ज्ञानयज्ञः परंतप |
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते || ३३ ||
परंतप, द्रव्यमयात् यज्ञात् ज्ञानयज्ञः श्रेयान् | पार्थ, सर्वं अखिलं कर्म ज्ञाने परिसमाप्यते |
34तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया |
उपदेक्ष्यन्ति ते ज्ञानम् ज्ञानिनस्तत्त्वदर्शिनः || ३४ ||
तत् प्रणिपातेन परिप्रश्नेन सेवया विद्धि | ज्ञानिनः तत्त्वदर्शिनः ते ज्ञानम् उपदेक्ष्यन्ति |

शिर्डी के साईबाबा ने दूसरे चरण में अवग्रह लेनेका सुझाव दिया |
अवग्रह लेनेसे दूसरा चरण " उपदेक्ष्यन्ति ते S ज्ञानम् ज्ञानिनस्तत्त्वदर्शिनः | " ऐसा होगा |
और तब अन्वय बनेगा " ज्ञानिनः तत्त्वदर्शिनः ते अज्ञानम् उपदेक्ष्यन्ति |"
इस अन्वयका भावार्थ पहले अन्वयसे एकदम उलटा हो जाता है |
लेकिन इसका समर्थन भी और स्तोत्रोमे मिलता है | जैसे, श्री दक्षिणामूर्ती के स्तोत्र में गुरू की व्याख्या ऐसी बतायी है |
गुकारस्त्वन्धकारो वै रुकारस्तन्निवर्तकः |
अन्धकारनिवर्तित्वात् गुरुरित्यभिधीयते ||
साईबाबाने दिया हुआ सुझाव गुरूकी इस व्याख्यासे कितना मेल खाता है!! महंतों की यही तो महत्ता है!!
35यज्ज्ञात्वा न पुनर्मोहं एवं यास्यसि पाण्डव |
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथा मयि || ३५ ||
यत् ज्ञात्वा, पाण्डव, एवं मोहम पुनः न यास्यसि | येन अशेषेण भूतानि यथा मयि द्रक्ष्यसि (तथा) आत्मनि (द्रक्ष्यसि) |

यह श्लोक और इसका अन्वय स्वतंत्र वाक्य नहीं है | ये वाक्यांश हैं |
इन वाक्यांशोका सम्बन्ध ३४ वे श्लोक के " तत् विद्धि " से है | इस प्रकारसे ये दोनों श्लोक मिलकर एक वाक्य बनता है |
36अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः |
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि || ३६ ||
सर्वेभ्यः पापेभ्यः अपि पापकृत्तमः असि चेत्, ज्ञानप्लवेन एव सर्वं वृजिनं सन्तरिष्यसि |
37यथैधान्सि समिद्धो S ग्निर्भस्मसात्कुरुते S र्जुन |
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा || ३७ ||
अर्जुन, यथा समिद्धः अग्निः एधान्सि भस्मसात् कुरुते, तथा ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते |
38न हि ज्ञानेन सदृशं पवित्रमिह विद्यते |
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति || ३८ ||
ज्ञानेन सदृशं पवित्रं इह न हि विद्यते | योगसंसिद्धः कालेन स्वयं तत् आत्मनि विन्दति |
39श्रद्धावांल्लभते ज्ञानम् तत्परः संयतेन्द्रियः |
ज्ञानम् लब्ध्वा परां शान्तिमचिरेणाधिगच्छति || ३९ ||
श्रद्धावान् तत्परः संयतेन्द्रियः ज्ञानम् लभते | ज्ञानम् लब्ध्वा अचिरेण परां शान्तिम् अधिगच्छति |
40अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति |
नायं लोको S अस्ति न परो न सुखं संशयात्मनः || ४० ||
अज्ञः च अश्रद्दधानः च संशयात्मा विनश्यति | संशयात्मनः न अयं लोकः अस्ति, न परः, न सुखम् |
41योगसन्यस्तकर्माणं ज्ञानसन्च्छिन्नसंशयम् |
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय || ४१ ||
धनञ्जय, योगसन्यस्तकर्माणं ज्ञानसन्च्छिन्नसंशयम् आत्मवन्तं कर्माणि न निबध्नन्ति |
42तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः |
छित्वैनम् संशयं योगमातिष्ठोत्तिष्ठ भारत || ४२ ||
भारत, तस्मात् एनं हृत्स्थं अज्ञानसंभूतं आत्मनः संशयं ज्ञानासिना छित्वा योगं आतिष्ठ उत्तिष्ठ |

ॐ तत्सत् |
इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रम्हविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे
ज्ञानकर्मसंन्यासयोगो नाम चतुर्थो S ध्यायः |

No comments:

Post a Comment