Thursday, July 8, 2010

सप्तमोSध्यायः । ज्ञानविज्ञानयोगो नाम ।

ॐ श्रीपरमात्मने नमः |
अथ सप्तमो S ध्यायः |
श्री भगवान् उवाच |
मय्यासक्तमनाः पार्थ योगं युन्जन्मदाश्रयः |
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु || १ ||

अन्वय - श्री भगवान् उवाच, "पार्थ, मय्यासक्तमनाः योगं युन्जन् मदाश्रयः (त्वं) मां यथा असंशयं समग्रं ज्ञास्यसि तत् श्रुणु |

ज्ञानम् ते S हं सविज्ञानं इदं वक्ष्याम्यशेषतः |
यज्ज्ञात्वा नेह भूयो S न्यज्ज्ञातव्यमवशिष्यते || २ ||

अन्वय - अहम् ते इदं सविज्ञानं ज्ञानं अशेषतः वक्ष्यामि, यत् ज्ञात्वा भूयः अन्यत् ज्ञातव्यं इह न अवशिष्यते |

मनुष्याणाम् सहस्रेषु कश्चिद्यतति सिद्धये |
यततामपि सिद्धानां कश्चिन्माम् वेत्ति तत्त्वतः || ३ ||

अन्वय - मनुष्याणाम् सहस्रेषु कश्चित् सिद्धये यतति | यततां अपि सिद्धानां कश्चित् मां तत्त्वतः वेत्ति |

भूमिरापो S नलो वायुः खं मनो बुद्धिरेव च |
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा || ४ ||

अन्वय - भूमिः आपः अनलः वायुः खं मनः बुद्धिः अहंकारः च इति इयं मे प्रकृतिः अष्टधा भिन्ना एव |

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् |
जीवभूतां महाबाहो ययेदं धार्यते जगत् || ५ ||

अन्वय - महाबाहो, इयं अपरां, इतः तु अन्यां मे परां जीवभूतां प्रकृतिं यया इदं जगत् धार्यते, (तां) विद्धि |

एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ६ ॥

अन्वय - सर्वाणि भूतानि एतद्योनीनि तथा अहं कृत्स्नस्य जगतः प्रभवः प्रलयः इति उपधारय ।

मत्तः परतरं नान्यत्किंचिदस्ति धनन्जय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७ ॥

अन्वय - धनन्जय, मत्तः परतरं अन्यत् किंचित् न अस्ति । इदं सर्वं, सूत्रे मणिगणा: इव, मयि प्रोतम् ।

रसो S हमप्सु कौन्तेय प्रभास्मि शशिसूर्ययो: ।
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ८ ॥

अन्वय - कौन्तेय, अप्सु अहं रसः, शशिसूर्ययोः प्रभा, सर्ववेदेषु प्रणवः, खे शब्दः, नृषु पौरुषं अस्मि ।

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ९ ॥

अन्वय - पृथिव्यां पुण्यः गन्धः विभावसौ तेजः च अस्मि । सर्वभूतेषु जीवनं तपस्विषु च तपः अस्मि ।

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ १० ॥

अन्वय - पार्थ, मां सर्वभूतानां सनातनं बीजं विद्धि । अहं बुद्धिमतां बुद्धिः तेजस्विनां तेजः अस्मि ।

बलं बलवतां चाहं कामरागविवर्जितम् ।
धर्माविरुद्धो भूतेषु कामो S स्मि भरतर्षभ ॥ ११ ॥

अन्वय - भरतर्षभ, बलवतां च अहं कामरागविवर्जितं बलं, भूतेषु धर्माविरुद्धः कामः अस्मि ।

ये चैव सात्विका भावा राजसास्तामसाश्च ये ।
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ १२ ॥

अन्वय - ये च सात्विकाः राजसा: तामसाः च भावाः तान् मत्तः एव इति विद्धि । न तु अहं तेषु, ते मयि ।

त्रिभिर्गुणमयैर्भावैरेभि: सर्वमिदं जगत् ।
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ १३ ॥

अन्वय - एभिः त्रिभिः गुणमयैः भावैः मोहितं इदं सर्वं जगत् मां एभ्यः परं अव्ययं न अभिजानाति ।

दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ १४ ॥

अन्वय - मम एषा गुणमयी दुरत्यया माया दैवी हि । ये मां एव प्रपद्यन्ते, ते एतां मायां तरन्ति ।

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ १५ ॥

अन्वय - दुष्कृतिनः मूढाः नराधमाः मायया अपहृतज्ञानाः आसुरं भावं आश्रिताः मां न प्रपद्यन्ते ।

चतुर्विधा भजन्ते मां जना: सुकृतिनो S र्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ १६ ॥

अन्वय - अर्जुन, सुकृतिनः चतुर्विधाः जनाः मां भजन्ते । भरतर्षभ, (ते) आर्तः जिज्ञासुः अर्थार्थी ज्ञानी च ।

तेषां ज्ञानी नित्ययुक्तः एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोSत्यर्थमहं स च मम प्रियः ॥ १७ ॥

अन्वय - तेषां नित्ययुक्तः एकभक्तिः ज्ञानी विशिष्यते । हि ज्ञानिनः अहं अत्यर्थं प्रियः सः च मम प्रियः ।

उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम्
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ १८ ॥

अन्वय - एते सर्वे उदारा: एव, ज्ञानी तु आत्मा एव, (इति) मे मतं । सः हि युक्तात्मा अनुत्तमां गतिं मां एव आस्थितः ।

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ १९ ॥

अन्वय - बहूनां जन्मनां अन्ते वासुदेवः सर्वं इति ज्ञानवान् सुदुर्लभः सः महात्मा मां प्रपद्यते ।

कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेSन्यदेवताः ।
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ २० ॥

अन्वय - स्वया प्रकृत्या नियताः तैः तैः कामैः हृतज्ञानाः तं तं नियमं आस्थाय अन्यदेवताः प्रपद्यन्ते ।

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ २१ ॥

अन्वय - यो यो यां यां तनुं भक्तः श्रद्धया अर्चितुं इच्छति तस्य तस्य तां एव अचलां श्रद्धां अहं विदधामि ।

स तया श्रद्धया युक्तः तस्याराधनमीहते ।
लभते च ततः कामान्मयैव विहितान्हि तान् ॥ २२ ॥

अन्वय - सह् तया श्रद्धया युक्तः तस्य आराधनं ईहते । ततः च मया एव विहितान् तान् कामान् लभते हि ।

अन्तवत्तु फ़लं तेषां तद्भवत्यल्पमेधसाम् ।
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥ २३ ॥

अन्वय - तेषां अल्पमेधसां तत् फ़लं तु अन्तवत् भवति । देवयजाः देवान् यान्ति, मद्भक्ताः अपि मां यान्ति ।

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ २४ ॥

अन्वय - मम अनुत्तमं अव्ययं परं भावं अजानन्तः अबुद्धयः मां अव्यक्तं व्यक्तिं आपन्नं मन्यन्ते ।

नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
मूढोSयं नाभिजानाति लोको मामजमव्ययम् ॥ २५ ॥

अन्वय - योगमायासमावृतः अहं सर्वस्य प्रकाशः न (अस्मि) । अयं मूढः लोकः मां अजं अव्ययं न अभिजानाति ।

वेदाहं समतीतानि वर्तमानानिचार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ २६ ॥

अन्वय - हे अर्जुन, अहं समतीतानि वर्तमानानि भविष्याणि च भूतानि च वेद । मां तु कश्चन न वेद ।

इच्छाद्वेषसमुत्थेन द्वंद्वमोहेन भारत ।
सर्वभूतानि संमोहं सर्गे यान्ति परंतप ।। २७ ॥

अन्वय - हे भारत परंतप, सर्गे इच्छाद्वेषसमुत्थेन द्वंद्वमोहेन सर्वभूतानि संमोहं यान्ति ।

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वंद्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ २८ ॥

अन्वय - येषां तु पुण्यकर्मणां जनानां पापं अन्तगतं, ते द्वंद्वमोहनिर्मुक्ताः मां दृढव्रताः भजन्ते ।

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
ते ब्रम्ह तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ २९ ॥

अन्वय - ये मां आश्रित्य जरामरणमोक्षाय यतन्ति, ते तत् ब्रम्ह कृत्स्नं अध्यात्मं अखिलं कर्म च विदुः ।

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकालेSपि च मां ते विदुर्युक्तचेतसः ॥ ३० ॥

अन्वय - ये मां साधिभूताधिदैवं साधियज्ञं च विदुः, ते युक्तचेतसः प्रयाणकाले अपि मां विदुः च ।

ॐ तत्सत् ।
इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रम्हविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
ज्ञानविज्ञानयोगो नाम सप्तमोSध्यायः ।

No comments:

Post a Comment