Thursday, July 8, 2010

अष्टादशोऽध्यायः | मोक्षसंन्यासयोगः |

अथाष्टादशोऽध्यायः | मोक्षसंन्यासयोगः |
अर्जुन उवाच |
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् |
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ||१८-१||

अन्वयः - महाबाहो केशिनिषूदन हृषीकेश, संन्यासस्य त्यागस्य च तत्त्वं पृथक् वेदितुं इच्छामि ।

श्रीभगवानुवाच |
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः |
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ||१८-२||

अन्वयः - कवयः काम्यानां कर्मणां न्यासं संन्यासं विदुः । विचक्षणाः सर्वकर्मफलात्यागं त्यागं प्राहुः ।

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः |
यज्ञदानतपःकर्म न त्याज्यमिति चापरे ||१८-३||

अन्वयः - एके मनीषिणः कर्म दोषवत् इति त्याज्यं प्राहुः । अपरे च यज्ञदानतपःकर्म न त्याज्यं इति (प्राहुः) ।

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम |
त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ||१८-४||

अन्वयः - भरतसत्तम, तत्र मे निश्चयं त्यागे शृणु । हि, पुरुषव्याघ्र, त्यागः त्रिविधः सम्प्रकीर्तितः ।

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् |
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ||१८-५||

अन्वयः - यज्ञदानतपःकर्म न त्याज्यं (अपि तु) तत् कार्यं एव । यज्ञः दानं तपः च मनीषिणां पावनानि एव ।

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च |
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ||१८-६||

अन्वयः - पार्थ, एतानि अपि तु कर्माणि सङ्गं फलानि च त्यक्त्वा कर्तव्यानि इति मे निश्चितं उत्तमं मतम् ।

नियतस्य तु संन्यासः कर्मणो नोपपद्यते |
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ||१८-७||

अन्वयः - नियतस्य कर्मणः संन्यासः न उपपद्यते । मोहात् तस्य परित्यागः तामसः परिकीर्तितः ।

दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् |
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ||१८-८||

अन्वयः - यत् दुःखं इति एव कायक्लेशभयात् कर्म त्यजेत्, सः राजसं त्यागं कृत्वा त्यागफलं न लभेत् एव ।

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन |
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ||१८-९||

अन्वयः - अर्जुन, यत् नियतं कर्म कार्यं एव इति सङ्गं फलं च त्यक्त्वा क्रियते एव सः त्यागः सात्विकः मतः ।

न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते |
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ||१८-१०||

अन्वयः - अकुशलं कर्म न द्वेष्टि । (एतत्) कुशले न अनुषज्जते । सत्वसमाविष्टः मेधावी छिन्नसंशयः (एव) त्यागी (उच्यते) ।

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः |
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ||१८-११||

अन्वयः - हि देहभृता कर्माणि अशेषतः त्यक्तुं न शक्यम् । यः तु कर्मफलत्यागी सः त्यागी इति अभिधीयते ।

अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् |
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ||१८-१२||

अन्वयः - कर्मणः फलं, अनिष्टं इष्टं मिश्रं (इति एवं) त्रिविधं अत्यागिनां प्रेत्य भवति । संन्यासिनां (प्रेत्य) तु क्वचित् फलं न (भवति) ।

पञ्चैतानि महाबाहो कारणानि निबोध मे |
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ||१८-१३||
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् |
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ||१८-१४||

अन्वयः - महाबाहो, सर्वकर्मणां सिद्धये कृतान्ते साङ्ख्ये प्रोक्तानि अधिष्ठानं, तथा कर्ता पृथग्विधं करणं च विविधाः च पृथक् चेष्टाः दैवं च एव अत्र पञ्चमं एतानि पञ्च कारणानि मे निबोध ।

शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः |
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ||१८-१५||

अन्वयः - शरीरवाङ्मनोभिः यत् न्याय्यं वा विपरीतं वा कर्म नरः प्रारभते तस्य एते पञ्च हेतवः ।

तत्रैवं सति कर्तारमात्मानं केवलं तु यः |
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ||१८-१६||

अन्वयः - तत्र एवं सति, यः केवलं आत्मानं कर्तारं पश्यति, सः तु दुर्मतिः अकृतबुद्धित्वात् न पश्यति ।

यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते |
हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते ||१८-१७||

अन्वयः - यस्य अहंकृतः भावः न (अस्ति), यस्य बुद्धिः न लिप्यते, सः इमान् लोकान् हत्वा अपि न हन्ति, न निबध्यते ।

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना |
करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ||१८-१८||

अन्वयः - कर्मचोदना त्रिविधा, ज्ञानं ज्ञेयं परिज्ञाता (इति) । कर्मसंग्रहः त्रिविधः करणं कर्म कर्ता इति ।

ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः |
प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ||१८-१९||

अन्वयः - ज्ञानं कर्म च कर्ता च त्रिधा एव गुणभेदतः गुणसङ्ख्याने यथावत् प्रोच्यते तानि अपि शृणु ।

सर्वभूतेषु येनैकं भावमव्ययमीक्षते |
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ||१८-२०||

अन्वयः - येन विभक्तेषु सर्वभूतेषु एकं अव्ययं अविभक्तं भावं ईक्षते तत् ज्ञानं सात्त्विकम् विद्धि ।

पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् |
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ||१८-२१||

अन्वयः - यत् तु ज्ञानं सर्वेषु भूतेषु, पृथक्त्वेन, नानाभावान् पृथग्विधान् वेत्ति, तत् ज्ञानं राजसं विद्धि ।

यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् |
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ||१८-२२||

अन्वयः - यत् तु अतत्त्वार्थवत् अहैतुकं अल्पं च एकस्मिन् कार्ये कृत्स्नवत् सक्तं तत् तामसं उदाहृतम् ।

नियतं सङ्गरहितमरागद्वेषतः कृतम् |
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ||१८-२३||

अन्वयः - यत् कर्म अफलप्रेप्सुना नियतं सङ्गरहितं अरागद्वेषतः कृतं तत् सात्त्विकं उच्यते ।

यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः |
क्रियते बहुलायासं तद्राजसमुदाहृतम् ||१८-२४||

अन्वयः - यत् तु कर्म कामेप्सुना वा साहंकारेण पुनः बहुलायासं क्रियते, तत् राजसं उदाहृतम् ।

अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् |
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ||१८-२५||

अन्वयः - यत् कर्म अनुबन्धं क्षयं हिंसां पौरुषं अनपेक्ष्य मोहात् चारभ्यते, तत् तामसं उच्यते ।

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः |
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ||१८-२६||

अन्वयः - मुक्तसङ्गः, अनहंवादी, धृति-उत्साह-समन्वितः सिध्यसिद्ध्योः निर्विकारः कर्ता सात्त्विकः उच्यते ।

रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः |
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ||१८-२७||

अन्वयः - रागी, कर्मफलप्रेप्सुः, लुब्धः, हिंसात्मकः, अशुचिः, हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ।

अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः |
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ||१८-२८||

अन्वयः - अयुक्तः प्राकृतः स्तब्धः शठः नैष्कृतिकः अलसः विषादी दीर्घसूत्री च कर्ता तामसः उच्यते ।

बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु |
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ||१८-२९||

अन्वयः - बुद्धेः धृतेः च भेदं त्रिविधं गुणतः अशेषेण पृथक्त्वेन प्रोच्यमानं (मां) शृणु धनञ्जय ।

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये |
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ||१८-३०||

अन्वयः - कार्याकार्ये भयाभये प्रवृत्तिं च निवृत्तिं च बन्धं मोक्षं च या बुद्धिः वेत्ति सा, पार्थ, सात्त्विकी ।

यया तु धर्ममधर्मं च कार्यं चाकार्यमेव च |
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ||१८-३१||

अन्वयः - यया (बुद्धया) तु (नरः) धर्मं च अधर्मं च कार्यं च अकार्यं च अयथावत् प्रजानाति, सा, पार्थ, राजसी ।

अधर्मं धर्ममिति या मन्यते तमसावृता |
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ||१८-३२||

अन्वयः - या तमसावृता बुद्धिः अधर्मं धर्मं इति मन्यते, सर्वार्थान् विपरीतान् च (जानाति), सा, पार्थ, तामसी ।

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः |
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ||१८-३३||

अन्वयः - यया अव्यभिचारिण्या धृत्या मनःप्राणेन्द्रियक्रियाः योगेन धारयते, सा, पार्थ, सात्त्विकी ।

यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन |
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ||१८-३४||

अन्वयः - यया धृत्या तु, अर्जुन, धर्मकामार्थान् धारयते, (या) प्रसङ्गेन फलाकाङ्क्षी, सा धृतिः, पार्थ, राजसी ।

यया स्वप्नं भयं शोकं विषादं मदमेव च |
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ||१८-३५||

अन्वयः - यया (धृत्या) स्वप्नं भयं शोकं विषादं मदं च न विमुञ्चति एव, सा दुर्मेधा धृतिः, पार्थ, तामसी ।

सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ |
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ||१८-३६||

अन्वयः - इदानीं तु, भरतर्षभ, त्रिविधं सुखं मे शृणु, यत्र अभ्यासात् (नरः) रमते, दुःखान्तं च निगच्छति ।

यत्तदग्रे विषमिव परिणामेऽमृतोपमम् |
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ||१८-३७||

अन्वयः - यत् अग्रे विषं इव तत् परिणामे अमृतोपमं, तत् आत्मबुद्धिप्रसादजं सुखं सात्त्विकं प्रोक्तम् ।

विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् |
परिणामे विषमिव तत्सुखं राजसं स्मृतम् ||१८-३८||

अन्वयः - विषयेन्द्रियसंयोगात् यत् अग्रे अमृतोपमं, तत् परिणामे विषं इव, तत् सुखं राजसं स्मृतम् ।

यदग्रे चानुबन्धे च सुखं मोहनमात्मनः |
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ||१८-३९||

अन्वयः - यत् अग्रे च अनुबन्धे च आत्मनः मोहनं, निद्रालस्यप्रमादोत्थं, तत् सुखं तामसं उदाहृतम् ।


न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः |
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ||१८-४०||

अन्वयः - तत् पृथिव्यां वा पुनः दिवि देवेषु वा (कच्चित्) सत्त्वं न अस्ति, यत् एभिः प्रकृतिजैः त्रिभिः गुणैः मुक्तं स्यात् ।

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप |
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ||१८-४१||

अन्वयः - परन्तप, ब्राह्मणक्षत्रियविशां शूद्राणां च कर्माणि स्वभावप्रभवैः गुणैः प्रविभक्तानि ।

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च |
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ||१८-४२||

अन्वयः - शमः दमः तपः शौचं क्षान्तिः आर्जवं ज्ञानं विज्ञानं आस्तिक्यं च स्वभावजं ब्रह्मकर्म ।

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् |
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ||१८-४३||

अन्वयः - शौर्यं तेजः धृतिः दाक्ष्यं युद्धे अपि च अपलायनं, दानं ईश्वरभावः च स्वभावजं क्षात्रं कर्म ।

कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् |
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ||१८-४४||

अन्वयः - कृषिगौरक्ष्यवाणिज्यं स्वभावजम् वैश्यकर्म । परिचर्यात्मकं शूद्रस्य कर्म अपि स्वभावजम् ।

स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः |
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ||१८-४५||

अन्वयः - स्वे स्वे कर्मणि अभिरतः नरः संसिद्धिं लभते । स्वकर्मनिरतः सिद्धिं यथा विन्दति तत् शृणु ।

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् |
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ||१८-४६||

अन्वयः - यतः भूतानां प्रवृत्तिः, येन इदं सर्वं ततं, तं स्वकर्मणा अभ्यर्च्य मानवः सिद्धिं विन्दति ।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् |
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ||१८-४७||

अन्वयः - परधर्मात् स्वनुष्ठितात् विगुणः स्वधर्मः श्रेयान् । स्वभावनियतं कर्म कुर्वन् किल्बिषम् न आप्नोति ।

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् |
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ||१८-४८||

अन्वयः - कौन्तेय, सहजं कर्म सदोषं अपि न त्यजेत् । हि सर्वारम्भाः धूमेन अग्निः इव दोषेण आवृताः ।

असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः |
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ||१८-४९||

अन्वयः - सर्वत्र असक्तबुद्धिः जितात्मा विगतस्पृहः संन्यासेन परमां नैष्कर्म्यसिद्धिं अधिगच्छति ।

सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे |
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ||१८-५०||

अन्वयः - कौन्तेय, यथा सिद्धिं प्राप्तः ब्रह्म आप्नोति तथा या ज्ञानस्य परा निष्ठा (तां) मे समासेन निबोध ।

बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च |
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ||१८-५१||
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः |
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ||१८-५२||
अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् |
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ||१८-५३||

अन्वयः - विशुद्धया बुद्ध्या युक्तः, आत्मानं धृत्या नियम्य च, शब्दादीन् विषयान् त्यक्त्वा, रागद्वेषौ च व्युदस्य, विविक्तसेवी, लघ्वाशी, यतवाक्कायमानसः, नित्यं ध्यानयोगपरः, वैराग्यं समुपाश्रितः, अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् विमुच्य, निर्ममः, शान्तः ब्रह्मभूयाय कल्पते ।

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति |
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ||१८-५४||

अन्वयः - ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । सर्वेषु भूतेषु समः परां मद्भक्तिं लभते ।

भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः |
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ||१८-५५||

अन्वयः - तत्त्वतः च (अहं) यावान् यः अस्मि (तद्विधं) मां भक्त्या अभिजानाति । ततः मां तत्त्वतः ज्ञात्वा तत् अनन्तरं विशते ।

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः |
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ||१८-५६||

अन्वयः - सर्वकर्माणि सदा मद्व्यपाश्रयः कुर्वाणः मत्प्रसादात् अव्ययं शाश्वतं पदं अवाप्नोति ।

चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः |
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ||१८-५७||

अन्वयः - चेतसा सर्वकर्माणि मयि संन्यस्य, बुद्धियोगं उपाश्रित्य, सततं मत्परः मच्चित्तः भव ।

मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि |
अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि ||१८-५८||

अन्वयः - मच्चित्तः मत्प्रसादात् सर्वदुर्गाणि तरिष्यसि । अथ चेत् त्वं अहंकारात् न श्रोष्यसि, विनङ्क्ष्यसि ।

यदहंकारमाश्रित्य न योत्स्य इति मन्यसे |
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ||१८-५९||

अन्वयः - अहंकारं आश्रित्य, यत् न योत्स्ये इति मन्यसे, एषः ते व्यवसायः मिथ्यः, प्रकृतिः त्वां नियोक्ष्यति ।

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा |
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशो‍ऽपि तत् ||१८-६०||

अन्वयः - कौन्तेय, स्वेन स्वभावजेन कर्मणा निबद्धः, मोहात्, अवशः अपि, यत् कर्तुं न इच्छसि, तत् करिष्यसि ।

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति |
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ||१८-६१||

अन्वयः - अर्जुन, यन्त्रारूढानि सर्वभूतानि मायया भ्रामयन् ईश्वरः सर्वभूतानां हृद्देशे तिष्ठति ।

तमेव शरणं गच्छ सर्वभावेन भारत |
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ||१८-६२||

अन्वयः - भारत, तं एव सर्वभावेन शरणं गच्छ । तत्प्रसादात् परां शान्तिं, शाश्वतं स्थानं प्राप्स्यसि ।

इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया |
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ||१८-६३||

अन्वयः - इति मया ते गुह्यात् गुह्यतरं ज्ञानं आख्यातम् । एतद् अशेषेण विमृश्य यथा इच्छसि, तथा कुरु ।

सर्वगुह्यतमं भूयः शृणु मे परमं वचः |
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ||१८-६४||

अन्वयः - भूयः मे सर्वगुह्यतमं परमं वचः शृणु । दृढं मे इष्टः असि, ततः इति हितं ते वक्ष्यामि ।

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु |
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ||१८-६५||

अन्वयः - मन्मनाः मद्भक्तः मद्याजी भव, मां नमः कुरु, मां एव एष्यसि । ते सत्यं प्रतिजाने (यत्) मे प्रियः असि ।

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज |
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ||१८-६६||

अन्वयः - सर्वधर्मान् परित्यज्य एकं मां शरणं व्रज । अहं त्वा सर्वपापेभ्यः मोक्षयिष्यामि । मा शुचः

इदं ते नातपस्काय नाभक्ताय कदाचन |
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ||१८-६७||

अन्वयः - इदं ते अतपस्काय न (वाच्यं), अभक्ताय कदाचन न (वाच्यं), न च अशुश्रूषवे वाच्यम् । यः मां अभ्यसूयति (तं च ) न (वाच्यम्) ।

य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति |
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ||१८-६८||

अन्वयः - यः इदं परमं गुह्यं मद्भक्तेषु अभिधास्यति, (सः) मयि परां भक्तिं कृत्वा मां एव एष्यति, (अत्र) असंशयः ।

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः |
भविता न च मे तस्मादन्यः प्रियतरो भुवि ||१८-६९||

अन्वयः - मनुष्येषु तस्मात् प्रियकृत्तमः मे कश्चित् न । भुवि तस्मात् प्रियतरः अन्यः मे न च भविता ।

अध्येष्यते च य इमं धर्म्यं संवादमावयोः |
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ||१८-७०||

अन्वयः - यः च इमं आवयोः धर्म्यं संवादं अध्येष्यते, तेन ज्ञानयज्ञेन अहं इष्टः स्यां, इति मे मतिः ।

श्रद्धावाननसूयश्च शृणुयादपि यो नरः |
सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ||१८-७१||

अन्वयः - यः च श्रद्धावान्, अनसूयः नरः शृणुयात् अपि, सः अपि मुक्तः, पुण्यकर्मणां शुभान् लोकान् प्राप्नुयात् ।

कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा |
कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय ||१८-७२||

अन्वयः - पार्थ, एतत् कच्चित् त्वया एकाग्रेण चेतसा श्रुतम् ? धनञ्जय, ते कच्चित् ज्ञानसंमोहः प्रनष्टः ?

अर्जुन उवाच |
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत |
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ||१८-७३||

अन्वयः - अर्जुनः उवाच, "अच्युत, मोहः नष्टः, त्वत्प्रसादात् मया स्मृतिः लब्धा । गतसन्देहः स्थितः अस्मि । तव वचनं करिष्ये ।

सञ्जय उवाच |
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः |
संवादमिममश्रौषमद्भुतं रोमहर्षणम् ||१८-७४||

अन्वयः - सञ्जयः उवाच, "इति अहं महात्मनः वासुदेवस्य पार्थस्य च इमं अद्भुतं रोमहर्षणं संवादं अश्रौषम् ।

व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् |
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ||१८-७५||

अन्वयः - व्यासप्रसादात् अहं एतद् परं गुह्यं योगं, स्वयं कथयतः साक्षात् योगेश्वरात् कृष्णात् श्रुतवान् ।

राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् |
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ||१८-७६||

अन्वयः - राजन्, इमं केशवार्जुनयोः पुण्यं अद्भुतं संवादं संस्मृत्य संस्मृत्य मुहुः मुहुः च हृष्यामि ।

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः |
विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः ||१८-७७||

अन्वयः - हरेः तत् अत्यद्भुतं रूपं संस्मृत्य संस्मृत्य च, राजन्, मे महान् विस्मयः, पुनः पुनः हृष्यामि च ।

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः |
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ||१८-७८||

अन्वयः - यत्र योगेश्वरः कृष्णः, यत्र धनुर्धरः पार्थः तत्र श्रीः विजयः भूतिः (इति) मम धृवा नीतिः मतिः (च) ।

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
मोक्षसंन्यासयोगो नाम अष्टादशोऽध्यायः ||१८||

No comments:

Post a Comment