Thursday, July 8, 2010

दशमोऽध्यायः | विभूतियोगो नाम |

ॐ श्री परमात्मने नमः ।
अथ दशमोSध्यायः ।
श्रीभगवानुवाच ।
भूय एव महाबाहो श्रुणु मे परमं वचः ।
यत्तेSहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १ ॥

अन्वय - श्री भगवान् उवाच, "हे महाबाहो, मे परमं वचः भूय एव श्रुणु, यत् अहं ते प्रीयमाणाय हितकाम्यया वक्ष्यामि ।

न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ २ ॥

अन्वय - मे प्रभवं न सुरगणाः विदुः न महर्षयः । अहं देवानां सर्वशः महर्षीणां च आदिः हि ।

यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ ३ ॥

अन्वय - यः मां अजं अनादिं लोकमहेश्वरं च वेत्ति, सः मर्त्येषु असंमूढः सर्वपापैः प्रमुच्यते ।

बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवोSभावो भयं चाभयमेव च ॥ ४ ॥
अहिंसा समता तुष्टिस्तपो दानं यशोSयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ ५ ॥

अन्वय - बुद्धिः ज्ञानं संमोहः क्षमा सत्यं दमः शमः सुखं दुःखं भवः अभावः भयं अभयं च अहिंसा समता तुष्टिः तपः दानं यशः अयशः (एवं) भूतानां पृथग्विधाः भावाः मत्तः एव भवन्ति ।

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता येषां लोके इमाः प्रजाः ॥ ६ ॥

अन्वय - सप्त महर्षयः तथा चत्वारः मनवः मद्भावाः मानसाः पूर्वे जाताः, येषां लोके इमाः प्रजाः ।

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
सोSविकम्पेन योगेन युज्यते नात्र संशयः ॥ ७ ॥

अन्वय - यः मम एतां विभूतिं योगं च तत्त्वतः वेत्ति सः अविकम्पेन योगेन युज्यते अत्र न संशयः ।

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते |
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ||१०-८||

अन्वय - अहं सर्वस्य प्रभवः सर्वं मत्तः प्रवर्तते इति मत्वा भावसमन्विताः बुधाः मां भजन्ते ।

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् |
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ||१०-९||

अन्वय - मच्चित्ताः मद्गतप्राणाः परस्परं बोधयन्तः कथयन्तः च मां नित्यं तुष्यन्ति च रमन्ति च ।

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् |
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ||१०-१०||

अन्वय - तेषां सततयुक्तानां प्रीतिपूर्वकं भजतां तं बुद्धियोगं ददामि येन ते मां उपयान्ति ।

तेषामेवानुकम्पार्थमहमज्ञानजं तमः |
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ||१०-११||

अन्वय - तेषां एव अनुकम्पार्थं आत्मभावस्थः अहं भास्वता ज्ञानदीपेन अज्ञानजं तमः नाशयामि ।

अर्जुन उवाच |
परं ब्रह्म परं धाम पवित्रं परमं भवान् |
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ||१०-१२||
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा |
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ||१०-१३||

अन्वय - अर्जुनः उवाच, "भवान् परं ब्रह्म परं धाम पवित्रं परमं (असि) । त्वां सर्वे ऋषयः देवर्षिः नारदः असितः देवलः व्यासः शाश्वतं पुरुषं दिव्यं आदिदेवं अजं विभुं आहुः । स्वयं च मे ब्रवीषि एव ।

सर्वमेतदृतं मन्ये यन्मां वदसि केशव |
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ||१०-१४||

अन्वय - हे केशव, (अहं) मन्ये, यत् सर्वं मां वदसि एतदृतं हि ते व्यक्तिं न देवाः न दानवाः विदुः भगवन् ।

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम |
भूतभावन भूतेश देवदेव जगत्पते ||१०-१५||

अन्वय - हे भूतभावन भूतेश देवदेव जगत्पते पुरुषोत्तम, त्वं स्वयं एव आत्मना आत्मानं वेत्थ ।

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः |
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ||१०-१६||

अन्वय - याभिः विभूतिभिः इमां लोकान् व्याप्य तिष्ठसि हि (ताः) दिव्याः आत्मविभूतयः अशेषेण वक्तुं अर्हसि ।

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् |
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ||१०-१७||

अन्वय - योगिन् भगवन्, त्वां सदा परिचिन्तयन् अहं कथं विद्याम् ? केषु केषु च भावेषु चिन्त्यः असि ?

विस्तरेणात्मनो योगं विभूतिं च जनार्दन |
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ||१०-१८||

अन्वय - जनार्दन, आत्मनः योगं विभूतिं च भूयः विस्तरेण कथय । अमृतं शृण्वत: मे तृप्तिः हि न अस्ति ।

श्रीभगवानुवाच |
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः |
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ||१०-१९||

अन्वय - श्रीभगवान् उवाच, " हन्त, कुरुश्रेष्ठ, दिव्याः आत्मविभूतयः ते प्राधान्यतः कथयिष्यामि । मे विस्तरस्य अन्तः न अस्ति ।

अहमात्मा गुडाकेश सर्वभूताशयस्थितः |
अहमादिश्च मध्यं च भूतानामन्त एव च ||१०-२०||

अन्वय - गुडाकेश, अहं सर्वभूताशयस्थितः आत्मा । भूतानां आदिः च मध्यं च अन्तः च अहं एव ।

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् |
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ||१०-२१||

अन्वय - अहं आदित्यानां विष्णु: ज्योतिषां अंशुमान् रविः मरुतां मरीचिः अस्मि नक्षत्राणां शशी (अस्मि) ।

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः |
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ||१०-२२||

अन्वय - वेदानां सामवेदः अस्मि । देवानां वासवः अस्मि । इन्द्रियाणां च मनः अस्मि । भूतानां चेतना अस्मि ।

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् |
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ||१०-२३||

अन्वय - रुद्राणां शंकरः यक्षरक्षसां वित्तेशः च अस्मि । वसूनां पावकः शिखरिणां च अहं मेरु: अस्मि ।

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् |
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ||१०-२४||

अन्वय - पार्थ, मां पुरोधसां मुख्यं बृहस्पतिं च विद्धि । सेनानीनां स्कन्दः सरसां सागरः अहं अस्मि ।

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् |
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ||१०-२५||

अन्वय - अहं महर्षीणां भृगुः गिरां एकं अक्षरं अस्मि । यज्ञानां जपयज्ञः स्थावराणां हिमालयः अस्मि ।

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः |
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ||१०-२६||

अन्वय - सर्ववृक्षाणां अश्वत्थः देवर्षीणां च नारदः गन्धर्वाणां चित्ररथः सिद्धानां कपिलः मुनिः (अस्मि) ।

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् |
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ||१०-२७||

अन्वय - मां अश्वानां अमृतोद्भवं उच्चैःश्रवसं गजेन्द्राणां ऐरावतं विद्धि नराणां च नराधिपं (विद्धि) ।

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् |
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ||१०-२८||

अन्वय - अहं आयुधानां वज्रः धेनूनां कामधुक् अस्मि । प्रजनः क्न्दर्पः अस्मि सर्पाणां च वासुकिः अस्मि ।

अनन्तश्चास्मि नागानां वरुणो यादसामहम् |
पितॄणामर्यमा चास्मि यमः संयमतामहम् ||१०-२९||

अन्वय - अहं नागानां अनन्तः यादसां वरुणः च अस्मि । पितॄणां अर्यमा संयमतां यमः च अहं अस्मि ।

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् |
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ||१०-३०||

अन्वय - अहं दैत्यानां प्रल्हादः कलयतां च कालः अस्मि । मृगाणां च अहं मृगेन्द्रः पक्षिणां वैनतेयः च (अस्मि) ।

पवनः पवतामस्मि रामः शस्त्रभृतामहम् |
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ||१०-३१||

अन्वय - अहं पवतां पवनः शस्त्रभृतां रामः अस्मि । झषाणां च मकरः अस्मि । स्रोतसां जान्हवी अस्मि ।

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन |
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ||१०-३२||

अन्वय - हे अर्जुन, सर्गाणां आदिः अन्तः च मध्यं च अहं एव । अहं विद्यानां अध्यात्मविद्या प्रवदतां वादः (अस्मि)

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च |
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ||१०-३३||

अन्वय - अक्षराणां अकारः सामासिकस्य च द्वन्द्वः अस्मि । अहं अक्षयः कालः, विश्वतोमुखः धाता अहं एव ।

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् |
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ||१०-३४||

अन्वय - सर्वहरः मृत्युः च भविष्यतां उद्भव: अहम् । नारीणां कीर्तिः श्रीः वाक् स्मृतिः धृतिः क्षमा च (अस्मि) ।

बृहत्साम तथा साम्नां गायत्री छन्दसामहम् |
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ||१०-३५||

अन्वय - अहं साम्नां बृहत्साम तथा छन्दसां गायत्री (अस्मि) । अहं मासानां मार्गशीर्षः ऋतूनां कुसुमाकरः (च अस्मि) ।

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् |
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ||१०-३६||

अन्वय - अहं छलयतां द्यूतं तेजस्विनां तेजः (च) अस्मि । जयः अस्मि । व्यवसायः अस्मि । सत्त्ववतां सत्त्वं अहं (अस्मि)

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः |
मुनीनामप्यहं व्यासः कवीनामुशना कविः ||१०-३७||

अन्वय - (अहं) वृष्णीनां वासुदेवः पाण्डवानां धनञ्जयः अस्मि । मुनीनां अपि अहं व्यासः कवीनां उशना कविः (अस्मि) ।

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् |
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ||१०-३८||

अन्वय - (अहं) दमयतां दण्डः अस्मि । जिगीषितां नीतिः अस्मि । गुह्यानां च मौनं एव ज्ञानवतां ज्ञानं अहं (अस्मि) ।

यच्चापि सर्वभूतानां बीजं तदहमर्जुन |
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ||१०-३९||

अन्वय - अर्जुन, सर्वभूतानां यत् च बीजं तत् अपि अहम् (अस्मि) । चराचरं भूतं यत् विना न स्यात् तत् मया अस्ति ।

नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप |
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ||१०-४०||

अन्वय - परंतप, मम दिव्यानां विभूतीनां अन्तः न अस्ति । एषः विभूतेः विस्तरः तु मया उद्देशतः प्रोक्तः ।

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा |
तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ||१०-४१||

अन्वय - यत् यत् एव सत्त्वं विभूतिमत् श्रीमत् ऊर्जितं वा तत् तत् मम तेजोंऽशसम्भवम् एव त्वं अवगच्छ ।

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन |
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ||१०-४२||

अन्वय - अथवा, अर्जुन, एतेन तव बहुना ज्ञातेन किम् ? इदं कृत्स्नं जगत् एकांशेन विष्टभ्य अहं स्थितः अस्मि ।

ॐ तत्सत् ।
इति श्रीमद्भगवद्गीतासु उपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
विभूतियोगो नाम दशमोऽध्यायः ||१०||

No comments:

Post a Comment