Thursday, July 8, 2010

त्रयोदशोऽध्यायः | क्षेत्रक्षेत्रज्ञविभागयोगः |

ॐ श्रीपरमात्मने नमः ।
अथ त्रयोदशोऽध्यायः | क्षेत्रक्षेत्रज्ञविभागयोगः
अर्जुन उवाच |
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च |
एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ||१३-१||

अन्वयः - अर्जुनः उवाच "केशव, प्रकृतिं पुरुषं एव क्षेत्रं क्षेत्रज्ञं एव च ज्ञानं ज्ञेयं च एतत् वेदितुं इच्छामि ।

श्रीभगवानुवाच |
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते |
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ||१३-२||

अन्वयः - कौन्तेय, इदं शरीरं क्षेत्रं इति अभिधीयते । यः एतत् वेत्ति तं तद्विदः क्षेत्रज्ञः इति प्राहुः ।

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत |
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ||१३-३||

अन्वयः - भारत, मां च सर्वक्षेत्रेषु अपि क्षेत्रज्ञं विद्धि । क्षेत्रक्षेत्रज्ञयोः यत् ज्ञानं तत् ज्ञानं (इति) मम मतम् ।
अन्वयान्तरेण --> क्षेत्रक्षेत्रज्ञयोः यत् ज्ञानं तत् मम ज्ञानं मतम् ।

तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् |
स च यो यत्प्रभावश्च तत्समासेन मे शृणु ||१३-४||
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् |
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ||१३-५||

अन्वयः - तत् क्षेत्रं यत् च यादृक् च यद्विकारि, यतः च यत्प्रभावः च, सः च यः, यत् (सर्वं) ऋषिभिः विविधैः छन्दोभिः हेतुमद्भिः विनिश्चितैः ब्रम्हसूत्रपदैः च बहुधा पृथक् गीतं तत् समासेन मे श्रुणु ।

महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च |
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ||१३-६||
इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः |
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ||१३-७||

अन्वयः - (पंच) महाभूतानि (५), अहंकारः बुद्धिः अव्यक्तं एव (३), दश इन्द्रियाणि (१०), एकं (मनः) (१), पञ्च इन्द्रियगोचराः (५), इच्छा द्वेषः सुखं दुःखं संघातः चेतना धृतिः (७) एतत् सविकारं (कुलसंख्या - ३१) समासेन क्षेत्रं उदाहृतम् ।

अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् |
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ||१३-८||
इन्द्रियार्थेषु वैराग्यमनहंकार एव च |
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ||१३-९||
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु |
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ||१३-१०||
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी |
विविक्तदेशसेवित्वमरतिर्जनसंसदि ||१३-११||
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् |
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ||१३-१२||

अन्वयः - (१) अमानित्वं (२) अदंभित्वं (३) अहिंसा (४) क्षान्तिः (५) आर्जवं (६) आचार्योपासनं (७) शौचं (८) स्थैर्यं (९) आत्मविनिग्रहः (१०) इन्द्रियार्थेषु वैराग्यं (११) अनहंकारः एव (१२) जन्म-मृत्यु-जरा-व्याधि-दुःख-दोष-अनुदर्शनं (१३) पुत्र-दार-गृह-आदिषु असक्तिः अनभिष्वङ्गः (१४) ष्ट-अनिष्ट-उपपत्तिषु नित्यं समचित्तत्वं (१५) मयि अनन्ययोगेन अव्यभिचारिणी च भक्तिः (१६) विविक्त-देश-सेवित्वं (१७) जनसंसदि अरतिः (१८) अध्यात्म-ज्ञान-नित्यत्वं (१९) तत्त्वज्ञानार्थ-दर्शनं एतत् (सर्वं) ज्ञानं यत् अतः अन्यथा (तत्) अज्ञानं इति प्रोक्तम् ।

ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते |
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ||१३-१३||

अन्वयः - यत् ज्ञेयं यत् ज्ञात्वा अमृतं अश्नुते, तत् प्रविक्ष्यामि । तत् अनादिमत्, परं, ब्रह्म, न सत्, न असत् उच्यते ।

सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् |
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ||१३-१४||

अन्वयः - तत् सर्वतः पाणि-पादम्, सर्वतः अक्षि-शिरो-मुखम्, सर्वतः श्रुतिम्, लोके सर्वम् आवृत्य तिष्ठति ।

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् |
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ||१३-१५||

अन्वयः - सर्व-इन्द्रिय-गुण-आभासम् सर्व-इन्द्रिय-विवर्जितम् (१) असक्तं सर्वभृत् च एव (२) निर्गुणं गुणभोक्तृ च (३)

बहिरन्तश्च भूतानामचरं चरमेव च |
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ||१३-१६||

अन्वयः - भूतानां बहिः अन्तः च (४) चरं अचरं एव च (५) तत् सूक्ष्मत्वात् अविज्ञेयम् (६) तत् दूरस्थं च अन्तिके च (७)

अविभक्तं च भूतेषु विभक्तमिव च स्थितम् |
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ||१३-१७||

अन्वयः - भूतेषु विभक्तं इव स्थितं च अविभक्तम् च (८) तत् भूतभर्तृ च ग्रसिष्णु प्रभविष्णु च (९) ।

ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते |
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ||१३-१८||

अन्वयः - तत् तमसः परं, ज्योतिषां अपि ज्योतिः, सर्वस्य हृदि विष्ठितं ज्ञानगम्यं ज्ञानं ज्ञेयं उच्यते ।

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः |
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ||१३-१९||

अन्वयः - इति क्षेत्रं तथा ज्ञानं ज्ञेयं च समासतः उक्तम् । एतत् विज्ञाय मद्भक्तः मद्भावाय उपपद्यते ।

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि |
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ||१३-२०||

अन्वयः - प्रकृतिं पुरुषं च एव उभौ अपि अनादी विद्धि । विकारान् च गुणान् च प्रकृतिसम्भवान् विद्धि ।

कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते |
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ||१३-२१||

अन्वयः - प्रकृतिः कार्यकारणकर्तृत्वे हेतुः उच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुः उच्यते ।

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् |
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ||१३-२२||

अन्वयः - हि पुरुषः प्रकृतिस्थः प्रकृतिजान् गुणान् भुङ्क्ते । अस्य गुणसङ्गः सत्-असत्-योनि-जन्मसु कारणम् ।

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः |
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ||१३-२३||

अन्वयः - अस्मिन् देहे उपद्रष्टा अनुमन्ता भर्ता भोक्ता च महेश्वरः, परः पुरुषः परमात्मा इति अपि च उक्तः ।

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह |
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ||१३-२४||

अन्वयः - यः एवं पुरुषं प्रकृतिं च गुणैः सह वेत्ति, सः सर्वथा वर्तमानः अपि भूयः न अभिजायते ।

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना |
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ||१३-२५||

अन्वयः - केचित् ध्यानेन, अन्ये साङ्ख्येन योगेन, अपरे च कर्मयोगेन आत्मना आत्मानं आत्मनि पश्यन्ति ।
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते |
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ||१३-२६||

अन्वयः - अन्ये तु एवं अजानन्तः अन्येभ्यः श्रुत्वा उपासते । ते अपि श्रुतिपरायणाः मृत्युं अतितरन्ति एव ।

यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् |
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ||१३-२७||

अन्वयः - भरतर्षभ, यावत् किञ्चित् स्थावाजङ्गमम् सत्त्वं सञ्जायते तत् क्षेत्रक्षेत्रज्ञसंयोगात् विद्धि ।

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् |
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ||१३-२८||

अन्वयः - यः परमेश्वरं सर्वेषु भूतेषु समं तिष्ठन्तं विनश्यत्सु अविनश्यन्तं पश्यति सः पश्यति ।
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् |
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ||१३-२९||

अन्वयः - हि सर्वत्र समवस्थितं ईश्वरं समं पश्यन् आत्मना आत्मानं न हिनस्ति । ततः परां गतिं याति ।

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः |
यः पश्यति तथात्मानमकर्तारं स पश्यति ||१३-३०||

अन्वयः - कर्माणि च सर्वशः प्रकृत्या एव क्रियमाणानि । तथा यः आत्मानं अकर्तारं पश्यति सः पश्यति ।

यदा भूतपृथग्भावमेकस्थमनुपश्यति |
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ||१३-३१||

अन्वयः - यदा भूतपृथग्भावं एकस्थं, ततः एव च विस्तारं अनुपश्यति तदा ब्रह्म संपद्यते ।

अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः |
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ||१३-३२||

अन्वयः - कौन्तेय, अयं अव्ययः परमात्मा अनादित्वात् निर्गुणत्वात् शरीरस्थः अपि न करोति न लिप्यते ।

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते |
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ||१३-३३||

अन्वयः - यथा आकाशं सर्वगतं सौक्ष्म्यात् न उपलिप्यते, तथा देहे सर्वत्र अवस्थितः आत्मा न उपलिप्यते ।

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः |
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ||१३-३४||

अन्वयः - भारत, यथा एकः रविः इमं कृत्स्नं लोकं प्रकाशयति, तथा क्षेत्री कृत्स्नं क्षेत्रं प्रकाशयति ।

क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा |
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ||१३-३५||

अन्वयः - एवं ये ज्ञानचक्षुषा क्षेत्रक्षेत्रज्ञयोः अन्तरं भूतप्रकृतिमोक्षं च विदुः ते परं यान्ति ।

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः ||१३||

No comments:

Post a Comment