Thursday, July 8, 2010

पञ्चमोऽध्यायः | कर्मसंन्यासयोगः ।

ॐ श्री परमात्मने नमः |
अथ पञ्चमोऽध्यायः | कर्मसंन्यासयोगः ।
1अर्जुन उवाच
संन्यासं कर्मणाम् कृष्ण पुनर्योगं च शंससि |
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् || १ ||
हे कृष्ण, कर्मणाम् संन्यासं पुनः योगं च शंससि | एतयोः यत् एकं श्रेयम सुनिश्चितम्, तत् मे ब्रूहि |
2
श्री भगवान उवाच |
संन्यासः कर्मयोगश्च निःश्रेयसकरौ उभौ |
तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते || २ ||
संन्यासः कर्मयोगः च उभौ निःश्रेयसकरौ | तयोः तु कर्मसंन्यासात् कर्मयोगः विशिष्यते |
3
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न कान्क्षति |
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते || ३ ||
सः नित्यसंन्यासी ज्ञेयः, यः न द्वेष्टि न कान्क्षति | महाबाहो, निर्द्वन्द्वः हि बन्धात् सुखं प्रमुच्यते |
4सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः |
एकमप्यास्थितो सम्यगुभयोर्विन्दते फलम् || ४ ||
सांख्ययोगौ पृथक् (एवं) बालाः प्रवदन्ति, न पण्डिताः | एकं अपि आस्थितः उभयोः सम्यक् फलं विन्दते |
5यत्सान्ख्यै: प्राप्यते स्थानं तद्योगैरपि गम्यते |
एकं सांख्यं च योगं च यः पश्यति स पश्यति || ५ ||
सान्ख्यै: यत् स्थानं प्राप्यते, तत् योगैः अपि गम्यते | सांख्यं च योगं च यः एकं पश्यति, सः पश्यति |
6संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः |
योगयुक्तो मुनिर्ब्रम्ह न चिरेणाधिगच्छति || ६ ||
महाबाहो, अयोगतः संन्यासः तु दुःखं आप्तुं (भवति) | योगयुक्तः मुनिः न चिरेण ब्रम्ह अधिगच्छति |
7योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः |
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते || ७ ||
योगयुक्तः विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा कुर्वन् अपि न लिप्यते |
8नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् |
पश्यन्श्रुण्वन्स्प्रुशन्जिघ्रन् अश्नन्गच्छन्स्वपन्श्वसन् || ८ ||
प्रलपन्विस्रुजन्ग्रुण्ह्नन्नुन्मिषन्निमिषन्नपि |
इन्द्रियाणीन्द्रियस्यार्थे वर्तन्त इति धारयन् || ९ ||
तत्त्ववित् युक्तः, पश्यन्, श्रुण्वन्, स्प्रुशन्, जिघ्रन्, अश्नन्, गच्छन्, स्वपन्, श्वसन्, प्रलपन्, विसृजन्, ग्रुण्हन्,
उन्मिषन्, निमिषन्, अपि " इन्द्रियाणि इन्द्रियस्य अर्थे वर्तन्ते " इति धारयन्, " न एव किंचित् करोमि " इति मन्येत |
9ब्रम्हण्याधाय कर्माणि संगं त्यक्त्वा करोति यः |
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा || १० ||
यः कर्माणि संगं त्यक्त्वा, ब्रम्हणि आधाय करोति, सः, (यथा) पद्मपत्रं अम्भसा ( न लिप्यते तथा ) इव, पापेन न लिप्यते |
10कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि |
योगिनः कर्म कुर्वन्ति संगं त्यक्त्वात्मशुद्धये || ११ ||
कायेन मनसा बुद्ध्या केवलैः इन्द्रियैः अपि योगिनः संगं त्यक्त्वा, आत्मशुद्धये कर्म कुर्वन्ति |
11युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् |
अयुक्तः कामकारेण फले सक्तो निबध्यते || १२ ||
युक्तः कर्मफलं त्यक्त्वा नैष्ठिकीम् शान्तिं आप्नोति | अयुक्तः फले सक्तः कामकारेण निबध्यते |
12सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी |
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् || १३ ||
सर्वकर्माणि मनसा नवद्वारे पुरे संन्यस्य वशी देही न कुर्वन् न कारयन् एव सुखं आस्ते |
13न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः |
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते || १४ ||
प्रभुः लोकस्य न कर्तृत्वं न कर्माणि न तु कर्मफलसंयोगं सृजति | स्वभावः प्रवर्तते |
14नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः |
अज्ञानेनावृतं ज्ञानम् तेन मुह्यन्ति जन्तवः || १५ ||
विभुः न कस्यचित् पापं आदत्ते, न च सुकृतं एव | ज्ञानम् अज्ञानेन आवृतम् | तेन जन्तवः मुह्यन्ति |
15ज्ञानेन तु तदज्ञानं येषां नाशितमात्मना |
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् || १६ ||
येषां तु तत् अज्ञानं आत्मना ज्ञानेन नाशितम्, तेषां तत्परं ज्ञानं आदित्यवत् प्रकाशयति |
16तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणा:
गच्छन्त्यपुनरावृत्तिम् ज्ञाननिर्धूतकल्मषाः || १७ ||
तद्बुद्धयः तदात्मानः तन्निष्ठाः तत्परायणा: ज्ञाननिर्धूतकल्मषाः अपुनारावृत्तिम् गच्छन्ति |
17विद्याविनयसम्पन्ने ब्राम्हणे गवि हस्तिनि |
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः || १८ ||
पण्डिताः विद्याविनयसम्पन्ने ब्राम्हणे, गवि, हस्तिनि, शुनि, श्वपाके एव च समदर्शिनः |
18इहैव तैर्जितः स्वर्गो येषां साम्ये स्थितं मनः |
निर्दोषं हि समं ब्रम्ह तस्माद्ब्रम्हणि ते स्थिताः || १९ ||
येषां मनः साम्ये स्थितं, तैः इह एव स्वर्गः जितः | निर्दोषं समं हि ब्रम्ह | तस्मात् ते ब्रम्हणि स्थिताः |
19न प्रह्रुष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् |
स्थिरबुद्धिरसम्मूढो ब्रम्हविद्ब्रम्हणि स्थितः || २० ||
प्रियं प्राप्य न प्रह्रुष्येत्, अप्रियं प्राप्य न उद्विजेत् च | स्थिरबुद्धिः असम्मूढः ब्रम्हवित् ब्रम्हणि स्थितः (भवति) |
20बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् |
स ब्रम्हयोगयुक्तात्मा सुखमक्षयमश्नुते || २१ ||
बाह्यस्पर्शेषु असक्तात्मा यत् सुखं आत्मनि विन्दति, सः ब्रम्हयोगयुक्तात्मा अक्षयं सुखं अश्नुते |
21ये हि संस्पर्शजा भोगा दुःखयोनय एव ते |
आद्यंतवन्तः कौन्तेय न तेषु रमते बुधः || २२ ||
कौन्तेय, ये हि संस्पर्शजाः भोगाः ते आद्यन्तवन्तः दुःखयोनयः एव | बुधः तेषु न रमते |
22शक्नोतीहैव यः सोढुम् प्राक्शरीरविमोक्षणात् |
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः || २३ ||
शरीरविमोक्षणात् प्राक् इह एव यः कामक्रोधोद्भवं वेगं सोढुम् शक्नोति सः नरः युक्तः सः सुखी |
23यो S न्तः सुखो S न्तरारामस्तथान्तर्ज्योतिरेव यः |
स योगी ब्रम्हनिर्वाणं ब्रम्हभूतो S धिगच्छति || २४ ||
यः अन्तःसुखः अन्तरारामः तथा यः अन्तर्ज्योतिः एव, सः योगी ब्रम्हभूतः ब्रम्हनिर्वाणं अधिगच्छति |
24लभन्ते ब्रम्हनिर्वाणमृषयः क्षीणकल्मषाः |
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः || २५ ||
यतात्मानः छिन्नद्वैधाः क्षीणकल्मषाः सर्वभूतहिते रताः रुषयः ब्रम्हनिर्वाणं लभन्ते |
25कामक्रोधवियुक्तानां यतीनां यतचेतसाम् |
अभितो ब्रम्हनिर्वाणं वर्तते विदितात्मनाम् || २६ ||
कामक्रोधवियुक्तानां यतचेतसाम् विदितात्मनाम् यतीनां अभितः ब्रम्हनिर्वाणं वर्तते |
26स्पर्शान्कृत्वा बहिर्बाह्याँश्चक्षुश्चैवान्तरे भ्रुवोः |
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ || २७ ||
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः |
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः || २८ ||
बाह्यान् स्पर्शान् बहिः कृत्वा, चक्षुः च भ्रुवोः अंतरे (कृत्वा) नासाभ्यन्तरचारिणौ प्राणापानौ समौ कृत्वा
यः मुनिः विगतेच्छाभयक्रोधः यतेन्द्रियमनोबुद्धिः मोक्षपरायणः सः सदा मुक्तः एव |
27भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् |
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति || २९ ||
मां यज्ञतपसां भोक्तारं सर्वलोकमहेश्वरम् सर्वभूतानां सुहृदं ज्ञात्वा शान्तिं रुच्छति |

ॐ तत्सत् |
इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रम्हविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे
कर्मसंन्यासयोगो नाम पंचमो S ध्यायः |

No comments:

Post a Comment